Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४७ ] वस्तुतस्तु शब्दत्वे नित्यानिन्यव्यावृत्तत्वज्ञानेन, शाब्दसंशयोपगन्तृमते शब्दो नित्यो न वेति बिप्रतिपत्त्या च शब्दो नित्यो नवेतिसंशयजननादसाधारणधर्मवद्धम्मिज्ञानस्य विप्रतिपत्तेश्च संशयहेतुत्वं मन्तव्यम् । तथाच साधारणधर्मवद्धम्मिज्ञानजन्योऽसाधारणधर्मवद्धर्मिज्ञानजन्यो विप्रतिपत्तिजन्यश्चेतित्रिविध संशयः पर्यवसन्नः। विशेषादर्शानजन्यत्वस्य कोटिस्मरणजन्यत्वस्य च धर्मिज्ञानजन्यत्वस्येव संशयत्वसमव्याप्ततया संशयविभाजकत्वासम्भवेन न संशयस्य चतुर्विधत्वाद्यापत्तिः। तथाच विशेषादर्शनादेः साधारणधर्मज्ञानादिसहकारितेति तात्पर्यम् । ननु समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यावस्थातश्च विशेषा. पेक्षो विमर्शः संशयः' इत्यक्षपादसूशे प्रामाण्यसंशयस्याप्रामाण्यसंशयस्य च विषयसंशये स्वातन्त्र्येण हेतुत्वमिवानुक्तसमुच्चायकचकारेण व्याप्यसंशयस्य व्यापकसंशयं प्रति पृथक्कारणत्वमभिहितम् । एवञ्च संशयस्य शैविध्यादाधिक्यमेवोचितमिति चेन्न प्रामाण्यसंशयादिसत्त्वेऽपि लाघवेन साधारणधर्मवद्धर्मिज्ञानादेरेवसंशयहेतुत्वस्योपगन्तव्यत्वात् । अन्यथा कार्यकारणभाववाहुल्याद्गौरवापत्तेः। प्रामाण्यसं शयादेस्तु कथञ्चित् प्रयोजकत्वकल्पनेऽपि क्षतिविरहात् । अस्त्वेवं, तथापि संशयत्वावच्छिन्न प्रति साधारणधर्मवद्धर्मज्ञानत्वादिना हेतुत्वस्य कल्पयितुमशक्यत्वादत्र हेतुहेतुमद्भावः परामर्शकारणताविचाररिशा परिष्करणीयः।। द्वितीयं निरूपयति विपर्यायस्त्विति । तदभाववति तत्प्रकारकनिश्वयत्वं बिपर्यंयत्वम् । धवलिम्नः शुक्तिरजतोभयसाधारण्यमजानतां शुक्तौ रजतत्ववोधासम्भावादाह समानधर्मवद्धर्मिंज्ञानेति । शुक्तित्वव्याप्यकार्कश्यवदिदमितिज्ञाने जाते शुक्ताविदं रजतमिति ज्ञानानुत्पादादाह विशेषादर्शनेति । रजतत्वस्मृति बिना शुक्तौ रजतत्वधियोऽनुत्पत्तेराह एककोटिस्मरणैरिति । संशये कोटिद्वयस्मरणात्तद्वयावृत्तये एकेति। शुक्ताविति धम्मिपरिचायकम्। इदं रजतमिति बिपर्यायाभिनयः । नैयायिकमते शुक्तिकायामिदं रजतमित्यनुभवः प्रत्यक्षात्मक इदन्त्वावच्छिन्नांशे लौकिकसन्निकर्षजन्यत्वाल्लौकिको रजतत्वांशे रजतत्वज्ञानलक्षणासन्निकर्षजन्यत्वादलौकिको जायन इत्यतउक्त गुरुमत इति । अनुभवात्मकमिति । प्रत्यक्षात्मकमित्यर्थ । तेनानुमित्यादे रनुभवत्वसत्त्वेऽपि न क्षतिः। अलौकिकप्रत्यक्षानभ्युपगत्तगुरुमते तत्र रजतत्वस्यानुभवविषयत्वासम्भवादाइ स्मरणत्मकमिति । अन्यथाख्यातिमनभ्युपगम्यतां गुरूणां मते इदन्त्वावच्छिन्नविशेष्यकरजतत्वप्रकारकै कज्ञानासम्भवादाह ज्ञानद्वमिति । ननु रजतत्वविशिष्टज्ञानसत्त्वासत्त्वाम्यां रजतार्थिनः प्रवृत्त्यप्रवृत्त्योदर्शनाद्रजतप्रवृत्तित्वावच्छिन्न प्रति रजतत्वविशिष्टज्ञानत्वेन कारणत्वं वाच्यमित्यथाख्यातिसिद्धिरित्याशङ्का निषेधति नतुरजतत्वेत्यादि । तथाचावश्यक्लप्तनियतपूर्ववर्ति For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127