Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 61
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ५२ ] इच्छाजन्येति । चिकीर्षाजन्येत्यर्थः । तेन वृष्टिर्भवत्वितीच्छासत्त्वे प्रवृत्तेरनुत्यादेऽपि न क्षतिः इदन्तु बोध्यं चिकीर्षाद्वारा कृतिसाध्यनाज्ञानस्येष्टसाधनताज्ञानस्य च प्रवृत्तौ हेतुत्वेऽपि चिकीर्षाया नान्यथासिद्धत्वं व्यापारेण व्यापरिण इव व्यापारिणा व्यापारस्याप्यन्यथासिद्धत्वासम्भवान्मधु विषसम्पृक्तान्नभोजनादौ चिकीर्षाभावेन प्रवृत्त्यभावदर्श नाच्चिकीर्षाप्रवृत्त्यौहेतुहेतुमभावस्य स्वतन्त्रान्वयव्यतिरेकसिद्धत्वाच्च । अन्येतु मधुविषसम्पृक्तान्न भोजनादेर्व्व लवदनिष्टानुवन्धित्वेन तत्र वलवदनिष्टाननुबन्धित्वज्ञानविरहात्प्रवृत्त्यभावो ननु चिकीर्षाविरहनिबन्धन इति स्वतन्त्रान्वयव्यतिरेकसत्त्वात्प्रवृत्तौ बलवदनिष्टाननुबन्धित्वज्ञानत्वेनापि कारणत्वम् अतएवात्मजिघांसुर्व्वल - वदनिष्टाननुबन्धित्वं प्रतिसन्धाय चिकीर्षामनपेक्ष्यैव मधुविषसम्पृक्तान्नभोजने प्रवर्त्तत इत्याहुः । वस्तुतस्तु बलवदनिष्टाननुबन्धीष्टसाधनताविशिष्टकृतिसाध्यताज्ञानस्य चिकीर्षाद्वारैव प्रवृत्तौ हेतुत्वेन चिकीर्षायाः साक्षात्कारणत्वममभिप्रेत्योक्तभिच्छाजन्येति ध्येयम् । तृतीया - निवृत्तिः । निवृत्तेः प्रवृत्त्यभावरूपत्वसभिति केषाञ्चिन्मतमपाकर्तुमाह द्व ेषजन्येति । साक्षाद्द्वेषजन्येत्यर्थः । तेन द्वेषजनकीभूतद्विष्टसाधनताज्ञानस्य परम्परया निवृत्तिहेतुत्वेऽपि न क्षतिः । एवञ्च द्वेषरूपकारणस्वातन्त्र्येणाहं निवृत्त इति विलक्षणप्रतीत्या च तस्या न प्रवृत्त्यभावरूपत्वमिति भावः ||३०|| ॥ तर्कामृतम् ॥ धर्मः श्रुतिविहितकर्म्मजन्यः । अधर्म्मः श्रुतिनिषिद्धाचरणजन्यः । वेगारव्यसंस्कारः आद्यक्रियाजन्यो द्वितीयादिक्रियाजनकः । यथा वेगेन वाणश्चलतीति । भावनाख्यः संस्कारो विशिष्टज्ञानजन्यः । स्थितिस्थापकारव्यः संस्कारः कारणगुणप्रक्रमजन्यः । गुरुत्वं कारणगुणप्रकम जन्यम् । नैमित्रिकं द्रवत्वं घृतजतुद्रुतसुवर्णादीनामग्निसंयोगजन्यम् । स्नेहः कारणगुणप्रक्रमजन्यः ॥ ३२ ॥ ॥ विवृतिः ॥ घर्मं निरूपयितुमाह धर्म इत्यादि । धर्मत्वञ्च सुखजनकतावच्छेदकतया सिद्धो जातिविशेषः । श्रतिविहितेत्यादि । अत्र श्रुतिपदं मन्वादीनामप्युपलक्षकम् । तेन श्रौतस्य दर्शपौर्णमासादे रिवस्मार्त्तस्य द्वादशयात्रादेरपि धम्मंजनकत्वम् । तथाच धर्मः श्रुत्यादिभिव्विहितं यत् कर्म अभिषेचनादिकं तेन निमित्तकारणेन जनित इत्यर्थः । तदुक्तं महर्षि कणादेन 'अभिषेचनोपवास ब्रह्मचर्य्य गुरुकुलवासवाणप्रस्थयज्ञदानप्रोक्षणदिङ नक्षत्र मन्त्रकालनियमाश्चादृष्टाय' इति । तत्रादृष्टायेत्यस्यादृष्टद्वारा स्वर्गापवर्गलक्षणफलायेत्यर्थः । तथाच धर्माख्यादृष्टानम्युपगमे सुतीर्थेऽभिषेक For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127