Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४५ निरूपितत्वस्य रजतत्वप्रकारतायां रजतविशेष्यतानिरूपितत्वस्य चासत्त्वात् । एवमेवानु भवादिगतयथार्थत्वमपि निष्कर्षणीयम् । अत्रच शुक्ताविदं रजतमिति रजतत्वप्रकारकभूमेऽतिव्याप्तिवारणाय तद्वतीति । अत्रच तद्वत्त्वं प्रकारतावच्छेदकसम्वन्धेन ग्राह्यम् । तेन कालिकसम्वन्धेन शक्तौ रजतत्वसत्त्वेऽपि शुक्तिम्मिकेदं रजतमितिभूमे नातिगप्तिः । घट एव द्रव्यमिति द्रव्यत्वप्रकारकज्ञाने घटत्वप्रमात्वापत्तिवारणायोक्तसमूहालम्व. नवारणाय वा तत्प्रकारकत्वनिवेशः । अयथार्थत्वं लक्षयति तदभाववतीति । अत्रापि सप्तम्यर्थ विशेष्यत्वस्य तत्प्रकारकत्वघटकप्रकारत्वस्य च प्रोक्तसम्बन्धेन तत्र तत्रान्वयो बोध्यः। तथाच तदभाववनिष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतानिरूपकत्वमयथार्थत्वम् । एवमेवानुभवादिनिष्ठायथार्थत्वमपि निर्वांच्यम् । अत्रच रजतधर्मिकेदं रजतमितिप्रभायामतिव्याप्तिवारणाय तदभाववतीति । तदभावश्च प्रकारतावच्छेदकसम्वन्धावच्छिन्नप्रतियोगिताको ग्राह्यः । तेन पर्वतो बह्निमानिति प्रमायां समवायसम्वन्धावच्छिन्नप्रतियोगिताकवह्नयभाववत्पर्बतविशेष्यकत्वसत्त्वेऽपि नातिव्यप्तिः। रजतत्वाभाववद्विशेष्यकरजत. त्वाभावप्रकारिकायां शुक्तिधर्मिकेदं रजतत्वाभाववदिति प्रमायामतिव्याप्ति बारणाय तत्प्रकारकत्वनिवेशः। ___अथ स्मृत्युत्पत्तिप्रक्रियामाह पूर्वानुभव इत्यादि । समानकालीनानुभवस्य स्मृतिजनकत्वासम्भावादाइ पूर्वेति। ज्ञानत्वस्य स्मृतिसाधारण्यादाहानुभव इति । अनुभवस्य तृतीयक्षणप्रध्वंसित्वेन साक्षात् स्मृतिजनकत्वासम्भवादाह संस्कारद्वारेनि । भावनारव्यसंस्कारं व्यापारीकृत्येत्यर्थः। जनयतीति । तथाच तदीयतद्विषयकस्मृतित्वाविच्छन्नं तदीयतद्विषयकसंस्कारत्वावच्छिन्नञ्च प्रति तदीयतद्विषयकानुभवत्वेन. हेतुत्वमित्यर्थः। तेन चैत्रीयानुभवेन मैत्रीयस्मृतिसंस्कारयोर्घटानुभवेन पटस्मृतिसंस्कारयोब्वा न प्रसङ्गः । न चानुभवत्वेन जनकत्वे गौरवमितिवाच्यं ज्ञानत्ववदनुभवत्वस्यापि जातित्वाद्गौरवानवकाशात्। इदन्तु प्राचां मतानुसारेण । नवीनमते तु स्मृतिसंस्कारौ प्रति ज्ञानत्वेनैव हेतुत्वमुपेतव्यमन्यथानुभवत्वेन हेतुस्वे सकृदनुभूतस्य स्मरणोत्तरमस्मरणप्रसङ्गः संस्कारस्य फलनाश्यत्वनियमात्प्रथमस्मरणेनैवानुभवजनितसंस्कारस्य नाशात्। ज्ञानत्वस्यतु स्मृतिसाधारण्यात् सकृदनुभूतेऽपि प्रथमस्मृत्या संस्कारान्तरद्वारा पुनः स्मरणोपपत्तिः। अतएवोक्त 'जायते च पुनः पुनः स्मरणादृढ़तर: संस्कारः इति । यथार्थायथार्थभेदेन स्मृतिद्वै विध्ये कारणं प्रदर्शयति तत्र पूर्वानुभवस्येत्यादि । स्मरणमपोत्यपिना भावनाख्यसंस्कारस्योपग्रहः। उभयरूपमिति । यथार्थायथार्थोभयरूपमित्यर्थः॥ २८॥ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127