Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ४४ ] कस्य कर्मणस्तथाविधसंयोगद्वयजनकत्वस्याविरुद्धत्वादेव तन्तुद्वयसंयोगे तन्त्वाकाशसंयोगजनकत्वाकल्पनात् कारणमात्रसंयोगजसंयोगादौ मानाभाव एवेतिध्येयम् । द्वितीयस्त्विति। कारणाकारणविभागजन्यो विभागजविभागस्त्वित्यर्थः। उदाहरति करेत्यादि । करौ कारणं, तरुरकारणं, तयोविभागादित्यर्थः। कायेत्यादि । कायः करकार्य, तरुः कराकाय, तयोविभाग उत्पद्यत इति शेषः ।। २६ ॥
॥ तर्कामृतम् ।। परत्वापरत्वोत्वोत्पत्तिः कालप्रकरणे उक्ता ॥ २७ ॥
___॥ विवृतिः ॥ क्रमप्राप्तपरत्वापरत्योत्पत्तिप्रक्रियाया अनभिधाने न्यूनत्वमित्याशङ्कां परिजिहीर्घराह 'परत्वत्यादि ॥१७॥
|| तर्कामृतम् ॥ बुद्धिज्ञानं, तद्विविधं स्मरणमनुभवश्च । स्मरणमपि द्विविधं यथार्थमयथार्थञ्च । तद्वति तत्प्रकारकत्वं यथार्थत्वम्, तदभाववति तत्प्रकारकत्वमयथार्थत्वम् । पूर्वानुभवःसंस्कारद्वारा स्मरणं जनयति । तत्र पूर्वानुभवस्य यथार्थत्वायथार्थत्वाभ्यां स्मरणमप्युभयरूपम्भवति ॥ २८ ॥
|| विवृतिः ॥ अथात्मविशेषगुणोत्पत्तिप्रक्रियामभिधातुमुपक्रमतेबुद्धिरिति । जानामीत्यनुव्यवसायसाक्षिकज्ञानत्वजातिस्सल्लक्षणमिति बोध्यम्। ज्ञानस्य बुद्धिवृत्तित्वमिति सांख्यमतं निरसितुं विवृणोति ज्ञानमिति । अतएव 'बुद्धिरुपलब्र्धिज्ञानमित्यनान्तरम्' इत्यक्षपादसूत्रम् । बुद्धि बिभजते तद्विविधमिति । बिधाद्वयमाह स्मरणमनुभवश्चेति । तत्र स्मरणत्वं संस्कारमात्रजन्यज्ञानत्वं जातिविशेषो वा। अनुभवत्वमपि स्मृत्यन्य ज्ञानत्वं जातिविशेषो वा। अथ स्मरणं विभजते स्मरणमपीति । अत्रापिना बक्ष्यमाणानुभव विध्यं सूचितम् । विधाद्वयं दर्शयति यथार्थमयथार्थञ्चेति । तत्र यथार्थत्वं लक्षयति तद्वतीत्यादि। सप्तभ्यर्थो विशेष्यत्वं निरूपितत्वसम्बन्धेन प्रकारतायामन्वेति । तत्प्रकारकत्वमिति। तन्निष्ठप्रकारता निरूपकत्वमित्यर्थः । तथाच तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतानिरूपकत्वं यथार्थत्वमित्यर्थः । एतेन रङ्गत्वेन रजतावगाहिनि रजतत्वेन च रङ्गावगाहिनि 'इमे रङ्गरजते' इत्याकारकसमूहालम्वनभूमेऽतिव्याप्तिस्तत्ररङ्गविशेष्यकत्वरङ्गत्वप्रकारत्वयोः रजतविशेष्यकत्वरजतत्वप्रकारकत्वयोः सत्त्वादिति निरस्तं रङ्गत्वप्रकारतायां रङ्गविशेष्यता.
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127