Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४२ । ठिपठयोरन्यतरनाशेन संयोगनाशे विभक्तप्रत्ययापत्तेः । नच विद्यमानद्रव्यवृत्तिसंयोगनाश एव तथेतिवाच्यं तथा सति यत्किञ्चित्संयोगनाशादुन्नरं पुनःसंयुक्तयोविभक्त त्वव्यवहारापत्तेः। नच यावत् संयोगनाशस्यैव तथात्वमितिवाच्यं मिथी विभागव. तोर्विभ्वोर्यावत्संयोगाप्रसिद्ध रेकसंयोगनाशे यावत्संयोगनाशाभावाद्विभागाभाव प्रतीत्यापत्त्येश्च । व्यास्तु संयोगाभावस्य विभागत्वे विनिगमकामावाद्विभागाभावस्यापि संयोगत्वापत्त्याद्वयोर्विलयप्रसङ्गादवाधितसंयुक्तत्वविभक्तत्वप्रत्ययानुरोधाश्च संयोगविभागयोरतिरिक्तत्वमम्युपेतव्यमितिप्राहुः । विधात्रयं क्रमेणोहादुरति आद्यो यथेत्यादि । तृतीयं पुनविभजते विभागजविभागोऽपीत्यादि। कारणमात्र त्यत्र मात्रपदेनाकारणव्यवच्छेदः । तेन कपालतरुविभागजघटतरुविभागे कारणमात्रविभागजविभागत्वस्य नातिव्याप्तिः। तत्रादिम विधामुदाहरति आद्य इत्यादि। विभागजविभागघटकप्रथमविभागस्य क्रियाजन्यत्वमाह कपालकर्मणेति । कपालद्वयोर्घटसमवामिकारणन्वात् कारणमात्रविभागजन्यत्वंसङ्गमयितुमाह कपालद्वयविभाग इति । विभागस्य संयोगनाशकगुणत्वादावाह तत इति । कपालद्वयविभागादित्यर्थः। क्रियाजन्यविभागस्य पूर्वसंयोगनाशकत्वनियमादाद् कपालद्वयसंयोगनाशः इति। असमवायिकारणनाशस्य कार्य्यद्रव्यनाशकत्वादुक्तं ततो घटनाश इति । घटारम्भककपालद्वयसंयोगनाशा घटनाश इत्यर्थः। कपालाकाशविभागे घटनाशस्य सहकारिकारणवादाह तत इति । घटनाशरूपसहकारिकारणादित्यर्थः। आकाशादीत्यादिनाभूतलादेः परिग्रहः। देशादिति पञ्चम्यन्तस्य विभागइति प्रथमान्तेनान्वयः। विभागज इति । पूर्वजातकपालद्वयविभागेन जनितइत्यर्थः। तथाच घटनाशसहकृतेन कपालद्वयविभागेन कपालाकाशविभागो जन्यतइतिफलितार्थः। ___ नन्वत्र कर्मणो नाशानभिघानान्नित्यन्वं स्यादिनि चेन्न विभागस्य पूर्वसंयोगनाशकत्वनियमात् कपालाकाशविभागेन कपालाकाशसंयोगनाशः पूर्वसंयोगनाशेन चोत्तरदेशसंयोगजननान्नउत्तरदेशसंयोगस्तत उत्तरदेशसंयोगस्यैव स्वजनककर्म निवर्तकन्वस्वामाव्यात् कर्मनाशइति विवक्षितन्वात् । शङ्कते नच विभाग इति । स्वोत्पत्र्यनन्तरमेवेति। स्वं–कारणमात्रविभागः, तस्योत्पत्त्यनन्तरमुत्पत्त्यव्यवहितोत्तरक्षणे कर्मोत्पत्तितृतीयक्षण इत्यर्थः। एवकारेण कर्मोत्पत्तिपञ्चमक्षणोव्यवच्छिद्यत इतिभावः। जनयत्विति । तथा च क्षणलाघवमितितात्पर्य्यम् । शङ्कामपनोदति द्रव्यनाशेत्यादि। तस्येति । कारणमात्रविभागस्येत्यर्थः। तज्जनकत्वादिति । द्वितीयविभागजनकत्वादित्यर्थः। विभागजविभागं प्रति द्रव्यनाशस्य सहकारिकारणत्वे युक्तिमाद् तत्र द्रव्यस्येत्यादि । तत्-विभागजविभागे द्रव्यस्य प्रतिवन्धकत्वेनेति । द्रव्यनाशं विना बिभागजविभागस्यानुपपद्यमान For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127