Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ४१ ] विधात्रयं क्रमेणोदाति आद्य इत्यादि। आत्मनो निष्क्रियत्वाद्आह मनःकर्नाणेति। हस्तेत्यादि। कायरुपावयविनं प्रति हस्तरुपावयवस्य हेतुत्वाद्धस्तौ कारणं तरुरकारणं तयोः संयोगादित्यर्थः। कायेत्यादि। कायो हस्तयोःकारर्घ तरुरकायं तयोः संयोगइत्यर्थः। नच यन्न हस्तक्रिययाहस्ततरुसंयोगस्ततः शरीरतरुसंयोगस्तत्रइस्तक्रियायाः शरीरतरुसंयोगं प्रति हेतुत्वकल्पनेनैवोपपत्तौ हस्ततरुसंयोगस्य कारणत्वाकल्पनात् संयोगजसंयोगोऽसिद्ध इतिवाच्यः संयोगक्रिययोः समवायेन कार्यकारणभावस्यान्वयव्यतिरकसिद्धत्वाच्छरीरे च समवायेन क्रियाया अभावाच्छरीरतरुसंयोगोत्पादानुपपत्तेः। नच शरीरे कुतःक्रियायाअभाव इति वाच्यं अवयविक्रियाया यावदवयवक्रिया निगतत्वनियमात् । नच क्रियायाः सामानाधिकरण्यसम्बन्धेन हेतुत्वान्तरं तत्र कल्पनोयमिति न तदुत्पादानुपपत्तिरितिवाच्यं विभिन्नकार्यकारणभावकल्पने गौरवात्तदपेक्षया समवायसन्बन्धेन कारणत्वे लाघवादिति ध्येयम् ॥ २५ ॥ तर्कामृतम् ॥ विभागोऽपित्रिविधः-अन्यतरकर्मज-उभयकर्मजोविभागजश्च । आद्योयथा मनःकर्मणात्ममनसोविभागः द्वितीयो यथा मेषयोःकर्मणा तयोविभागः। विभागजविभागोऽपि द्विविधः कारणमात्रविभागज: कारणाकारणविभागश्च । आद्यो यथाकपालकर्मणाकपालद्वयविभागस्ततः कपालद्वयसंयोगनाशस्ततोघटनाशस्ततः कपालस्याकाशादिदेशा द्विभागजोविभागः। नच विभागः स्वोत्पत्त्यानन्तरमेव विभागजविभागं जनयत्वितिवाच्यं द्रव्यनाश सहकृतस्यैव तस्य तज्जनकत्वात् । तत्र द्रव्यस्य प्रतिबन्धकत्वेन सति द्रव्ये तदसम्भवात्। नच कम्मैवैकदा कपालद्वयविभागमाकाशकपालविधागञ्च जनयत्वितिवाच्यं यद् द्रव्यानारम्मकसंयोगविरोधिनं विभागमारभते न तद् द्रव्यारम्भकसंयोगविरोधिनम् ; अन्यथा विकशत्कमलकुम्डलदलकर्मण्यतिव्याप्तिः। नच संयोगेऽत्येवमस्तु, तत्राविरोधात् । द्वितियस्तु कारणाकारणविभागात कार्याकार्यविभागो यथा-करतरुविभागात् कायतरुविभागः ॥ २६ ॥ ॥-विवृतिः॥ अथ विभक्तप्रत्ययासाधारणकारणं विभागं विभजते विभागोऽपि त्रिविध इति । ननु संयोगाभावएव विभागोऽस्तु किमतिरिक्तगुणेनेति चेन्न गुणादौ संयोगाभावसत्त्वेन विभागवत्त्वव्यवहारप्रसङ्गात् । नच द्रव्यनिष्ठसंयोगाभावस्यैव विभागत्वमितिवाच्यं समवायिसमवेतभावापन्नयोस्तन्तुपठाद्योः पठतन्त्वादिसंयोगाभावसत्त्वात्पठतन्त्वादिविभागवत्त्वव्यवहारप्रसङ्गात् । नच संयोगनाश एव विभागः स्यादितिवाच्यं संयुक्तयो For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127