Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २ ] कत्वमवश्यं कल्यम् । तथा चावश्यक्लप्तान्योन्याभावेनैव पृथक्त्वावगाहिप्रतीते रप्युपपत्तौ पृथक्त्वस्वीकारे मानाभाव इत्याहुः। तन्मतं दूषयितु पृच्छति ननु तत्रेति । पृथक्त्वपदार्थ इत्यर्थः। प्रत्यक्षमिति । पृथक्त्वसिद्धौ प्रमाणमिति शेषः। तत्प्रत्यक्षस्यान्योन्याभावविषयकत्वमाशङ्कते तस्येति । उक्तप्रत्यक्षस्येत्यर्थः । आशङ्कां निरस्यति नेति । तत्र युक्तिमाहान्योन्याभावप्रन्यक्ष इति । प्रतियोग्यनुयोगिनोरिति । प्रतियोग्यनुयोगिबोधकपदयोरित्यर्थः । अन्यथाऽसम्भवापत्तेः । घटं न पटं पश्यामि इत्यादावन्योन्याभावावगाहनात् प्रथमाविभक्त्यन्तत्वस्य तन्त्रत्वभपहायोक्त समानविभक्तिकत्वेति । एकजातीयविभक्तिकत्वेत्यर्थः। तेन अनाप्तवादा न प्रमाणमित्यादौ पदयोः सित्वादिनासमानविभक्तिकत्वाभावेऽपि प्रथमात्वरूपेण समानविभक्तिमत्त्वान्नाभेदबोधान्वबोधानु पपत्तिः। अन्योन्याभावप्रतीतौ प्रतियोग्यनुपोगिवोधकपदयोः समानविभक्तिकत्वेदृष्टान्तमाह यथा घट इत्यादि। न त्वेवं मूले वृक्षः कपिसंयोगी नेत्यत्रापि कपिसं योगिभेदप्रतीत्यापत्तिः । न चेष्टापत्तिरितिवाच्यं भेदस्याव्याप्यवृत्तित्वप्रसङ्गात्। मैवम् । शिखी विनष्टः पुरुषो न नष्टः इत्यत्र यथा धम्मिसत्त्वरूपवाधकवलात् विशेषणीभूतशिखाध्वंस विषयकत्वमात्र कल्प्यते तथात्रापि धर्येकत्वरूपवाधकवलाद्विशेषणीभूतकपिसंयोगात्यन्ताभावविषयकत्वस्य कल्पनात् । न च तत्र मेदावगाह्यनुव्यवसायविरोधइतिवाच्यं प्रतीतेरत्यन्ताभावविषयकत्वेऽप्यनुव्यवसाये भेदावगाहने क्षत्यभावात् । इत्थञ्चात्रान्योन्याभावप्रत्यक्ष इत्यस्य बाधकामावे इत्यादिः। वस्तुतस्तु विशेषव्याप्तौ 'युज्यते चान्योन्याभावोऽज्याप्यवृत्तिः' इत्यनेनान्योन्यामावस्याव्याप्यवृत्तित्वमभिहितं दीधितिकृतेति ध्येयम् । अतएव घटादौ पाकेन श्यामरूपनाशानन्तरं रक्तरूपोत्पादेऽयं न श्चामः, दण्डादिविनाशदशायां चैत्रादावयं न तद्दण्डवानित्यादिव्यवहाराणां प्रामाण्यं सङ्गच्छते। न च तत्रापि श्यामत्वदडादेरत्यन्ताभाव एव प्रतीयत इति वाच्यं तम्मिणि नवा संसर्गाभावबोधने तदर्थबोधकपदस्य सप्तम्यन्ततायास्तन्त्रत्वात्। न चैवं मैत्रो न गच्छतीत्यादौ गमनकृतेन्र्नेदं चैत्रस्ये. त्यादौ षष्ठ्यर्थसम्बंधस्यात्यन्ताभावो न प्रतीयतामितिवाच्यं प्रातिपदिकार्थस्यात्यन्ताभावबोध एवानुयोगिबोधकपदोत्तरं सप्तम्यास्तन्त्रताया विवक्षितत्वात् । नवादेऽप्येवम् ।
अथ भेदस्य पृथक्त्वरूपत्वे बाधकमाहान्योन्याभावस्येत्यादि । प्रयोगापत्तेरिति । यथा घटात् पटः पृथगित्यत्रपृथगितिपदात् पृथक्त्वं प्रतीयते तथा घटात् पटो नेत्यत्र भेदार्थकनना पृथक्त्व प्रतीयतां भेदस्य पृथक्त्वात्मकत्वादित्युक्तप्रयोगस्य प्रामाण्यं स्यादितिभावः यद्यपि नो वैधर्म्यपरतया प्राचां मते पटो घटापेक्षया बैधर्म्यवान्
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127