Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ३८ ] नियमादन्यथा महत्परिमाणस्यापि क्वचिदणुपरिमाणारम्भकतापत्तेः। एवञ्चाणोरणुतरत्वेन महतश्च महत्तरत्वेनोत्कर्षात्त्रसरेणुपरिमाणस्य द्वयणुकपरिमाणापेक्षयोत्कर्षाभावेन द्वयणुकपरिमाणासमानजातीयत्वेन च द्वयणुकपरिमाणजन्यत्वासम्भवात् । नचैवं द्वयणुकपरिमाणस्यापेक्षयानुत्कृष्टत्वेनाणुपरिमाणजन्यत्वासम्भवे द्वयणुकपरिमाणं प्रति किं कारणमुपेयमिति वाच्यं परमाणुगतद्वित्वसंख्याया एव तत्रासमवायित्वाभ्युपगमात् । बस्तुतस्तु घटादिगतमहत्त्वं प्रति कपालादिनिष्ठमहत्त्वस्यासमवायित्वं वाच्यमन्यथा तत्र कपालद्वयेवहुत्त्वाभावाद् घटे महत्त्वं न स्यात्। तदुक्तमुपष्कारे 'द्वाभ्यां तन्तुभ्यामप्रचिताभ्यामारब्धे पटे केवलं महत्त्वमेवासमवायिकारणं वहुत्वप्रचययोस्तत्राभावात्' तथाच परिमाणस्य संख्याजन्यत्व वत्परिमाणजन्यत्वमपि सिद्धम् । परिमाणस्य प्रचयजन्यत्वमुदाहर्तुं प्रचयपदार्थमाहावयवानां शिथिलः सयोग इत्यादि। किञ्चिदवयवावच्छेदेनावयवान्तरसं योगाभाववति वर्तमानत्वं शिथिलत्वं जातिविशेषो वा तज्जनक इति। महत्त्वजनक इत्यर्थः। दृष्टान्तमाह यथातूलस्येत्यादि। तूलपरिमाणमवयवशिथिलसंयोगेन जन्यत इति मावः ॥ २३ || तर्कामृतम् ॥ पृथक्त्वं कारणगुणप्रक्रमजन्यम् । ननु तत्र किं प्रमाणम् । घटात् पटः पृथगिति प्रत्यक्षम् । तस्यान्योन्याभावविययकत्वमिति चेन्न अन्योन्याभावप्रत्यक्षे प्रतियोग्यनु योगिनोः समानविभक्तिकत्वनियमात् यथा घटो न पट इति । अन्योन्याभावस्य पृथक्तवरूपत्वे घटात्पटोनेत्यपि प्रयोगापत्तेः। न चैवं घटादन्यः पट इत्यत्र कथ. मन्योन्याभावप्रतीतिरितिवाच्यं अन्यत्वस्यापि पृथक्त्वरूपत्वात् ॥२४॥ ॥ विवृतिः॥ पृथक्त्वमिति । एकपृथक्त्वमित्यर्थाद् द्विपृथकत्वादेः कारणगुणोद्भवत्वविरहात् । घटपटौ मठात्पृथगित्यादिप्रतीतिसिद्ध द्विपृथक्त्वादौ स्वसमानाधिकरणानामेकपृथकत्वानामसमवायिकारणत्वं, इदमेकं पृथक्इत्याद्य कपृथक्त्वविषयकापेक्षाबुद्धश्च निमित्तकारणत्वमिति वोध्यम् । तथाविधापेक्षाबुद्धिनाशात् क्वचिदाश्रयनाशात् क्वचि चोभाम्यां द्विपृथक्त्वान्नाशः। तत्रोभयसमवेतपृथक्त्वं द्विपृथक्त्वं, त्रितयसम. वेतपृथक्त्वं त्रिपृथक्त्वमिति रीत्यापराद्ध पृथक्त्वपर्यन्तं निर्वाच्यम् । केचित्त्वन्योन्याभावपृथक्त्वयोःसमनियतत्वेऽपि रूपं न रस इत्यादिप्रतीतेः साक्षात्पृथक्त्वानवगाहितया पृथकत्वविषयकत्वकल्पनस्यासम्भवेनान्योन्याभावविषयक For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127