Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
[ ३६ ] ॥ विवृतिः ॥
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
अथ चित्ररूपस्वीकारे युक्तिमाइ कपालं नीलमित्यादि । नीलादिपदमत्रोपलक्षणं तेन शुक्ललोहिताद्यवयवाभ्यामारब्धेऽवयविनि चित्ररूपोत्पादस्य नानुपपत्तिः । चित्ररूपमुत्पद्यत इति । तथाचावयविनिष्टचित्ररूपं प्रति अनेकावयवेऽनेकरूपवत्त्वं कारणमितिभावः । न चावयविनिष्टाव्याप्यवृत्त्यनेकरूपवत्त्वस्यै वावयविप्रथक्षकारणत्वसम्भवे कि चित्ररूपेणेति वाच्यं रूपस्य व्याप्यवृत्तित्वनियमात् । न च स्वसमवायिसमवेतत्वसम्वन्धेनावयवरूपस्य कारणत्वकल्पनेनैवानेकरूपवदवयवारब्धावयविन: प्रत्यक्षत्वोपपत्तौ चित्ररूपकल्पनमसङ्गतमितिवाच्यं गौरवदोषग्रासेन तादृशकार्यकारणभावस्याशक्यकल्पनत्वात् । तथाचानेकरूपवदवयवारव्यस्यावयविन: प्रत्यक्षत्वानुपपत्त्या चित्ररूपसिद्धिरितिभावः ।
ननु चित्रवच्चित्ररसोऽपि स्यादितिशङ्कां निरसितुमाह रसादावेवं सतीति । एकावयवस्य मधुररसवत्त्वेऽपरावयवस्यतिक्तरसवत्त्वे च सतीत्यर्थः अवयविनि रसो न जायत इति । तत्र रसस्य जायमानत्वे बिनिगमकाभावेन तस्य मधुरत्वं तिक्तत्वम्वेति निर्णेतुमशक्यत्वादितिभावः । तथाचावयविनि रसोत्पादं प्रत्यनेकावयवगतानेकरसस्य प्रतिवन्धकत्वमिति फलितम् । तत्र चित्ररस एवोत्पद्यतामित्यत आह चित्ररसाद्यस्वी - कारादिति । आदिना गन्धादेः परिग्रहः । न चैवमनेकरसवदने कावयवारब्धावयविनो रासनप्रव्यक्षत्वं नस्यादिति वाच्यमिष्टत्वात् । रसनेन्द्रियादेर्द्दव्यग्रहणेऽसामर्थ्याद्रद्रव्यलौकिकरासनादिप्रत्यक्षस्याप्रसिद्धत्वात्ततदनुरोधेन चित्ररसाद्यङ्गीकारस्यानावश्यकत्वा
दितिभावः ।
अथातीन्द्रियगुणानां मध्ये गुरुत्वस्यैव कारणगुणप्रक्रमजन्यत्वात्तदाह गुरुत्वेति । कारणगुणप्रक्रमजन्यतेति । कारणनिष्टस्वसजातीयगुणारभ्यत्वमित्यर्थः । तथाच
निष्ठ गुरुत्वं प्रति कपालनिष्ठगुरुत्वमसमवायिकारणमित्यर्थः । एवं स्थितिस्थापकेऽपि । निमित्तकारणनिष्ठगुणस्यान्यथासिद्धत्वेन कार्य्यगुणानारम्भकत्वादत्रकारणपदं समवायिकारणपरमित्यवधेयम् ।
एकत्वस्य नित्यगतस्य नित्यत्वादनित्यगतस्य चाश्रयनाशनाश्यत्वादाह द्वित्वादय इति । आदिना त्रित्वादेरुपग्रहः । ननु कारणगुणप्रक्रमजन्यत्वाभावे द्वित्वादुयत्पन्नौ किं कारणमित्याकाङ्क्षायामाहापेक्षावुद्धिजन्या इति । गुरुत्वादिवत् संख्यायाः सामान्यगुणत्वेऽपि तत्र कारणगुणप्रक्रमजन्यत्वं न सम्भवतीत्याशयः । अनेकधम्मषु प्रत्येकावच्छेदेनैकत्वप्रकारिका या वुद्धिः साऽपेक्षावुद्धि स्तदात्मकनिमित्तकारणजन्या इत्यर्थः । तत्रासमवायिकारणन्तु समवायिकारणगतयावदेकत्वमितिवोध्यम् । तथाचादावयमेकोऽयमेकइत्याकारिकापेक्षा बुद्धिस्ततो धम्मिद्वये व्यासज्यवृत्तिद्वित्वोत्पत्ति
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127