Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ४. ] घटवृत्त्यन्ताभावप्रतियोगिधर्मवानित्यर्थात् 'घटात् पटो न' इतिप्रयोगस्य प्रामाण्यमुपपादयितुं शक्यते तथापि नव्यमतेननोऽभावशक्तत्वात्तथोक्तमिति ध्येयम्।।
प्रोक्तनियमे व्यभिचारमाशङ्कते न चैवमिति। एवं अन्योन्याभावप्रतीतौ प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्त्यन्तत्वस्य तन्त्रत्वे । कथमिति । प्रतियोग्यनुयागिवोधकपदयोरस मानपञ्चमोप्रथमाविभक्त्यन्तत्वादितिभावः । शङ्का निरस्यति अन्यत्वस्येति ।
पृथकत्वरूपत्वादिति । यद्यपि 'तथाच साध्यवत्पदेननिरूढलक्षणयोपस्थापितस्य साध्यतावच्छेदकविशिष्टसाध्यवत्त्वावच्छिन्नप्रतियोगिताकस्यान्यपदार्थंकदेशेऽन्यत्वे तादात्म्येनान्वयात् साध्यवतिच साध्यवत्त्वावच्छिन्नभेदासत्त्वान्नाव्याप्तिः' इत्यनेनसन्दर्मेणान्यत्वस्य भेदरूपतायाः पञ्चलक्षणीव्यस्थानावसरे ग्रन्थकृत वाभिहितत्वान्नेदं युक्तमन्योन्याभावस्य पृथक्त्वात्मकत्वतादवस्थ्यञ्च तथाप्यन्यत्वस्याखण्डोपाधिरूपत्वमिहाभिप्रेतमिति ध्येयम् । वस्तुतस्तु 'घटो न पटः' 'घटात्पटः पृथक' इत्यादिप्रतीत्योब्वैलक्षण्यमेवान्योन्याभावपृथक्त्वयोब्वैलक्षण्ये मानमितिबोध्यम् ।
नव्यास्त्वन्योन्याभाबस्यैवपृथक्त्वस्वरूपत्वं नतु गुणान्तरं मानाभावात् । नचोक्तप्रतीत्यौरर्थ वैलक्षण्याभावे घटी नेत्यत्रापि पञ्चमी स्यादितिवाच्यं निपातातिरिक्तान्योभावार्थकपदसमभिव्याहारस्यैव पञ्चमीप्रयोजकत्वोपगमात् ॥२४॥
|| तर्कामृतम् ॥ संयोगस्त्रिविधः अन्यतरकर्मज उभयकर्मजः संयोगजश्चेति। आद्यो यथामनः कर्मणात्ममनसोः संयोगः। द्वितीयो यथा—मेषयोः कर्मणा तयोः संयोगः । तृतीयो यथा कारणाकारणसंयोगात्कर्माकर्मसंयोगः। यथा-हस्ततरुसंयोगात्कायतरुसंयोगः ॥२५॥
॥ विवृतिः ॥ संयुक्तव्यवहारासाधारणकारणीभूतं संयोगं बिभजते संयोगस्त्रिबिध इति । अन्यतरकर्मज इति। अन्यतरत्व' नाम भेदद्वयावच्छिन्नप्रतियोगिताकभेदवत्त्वम् । अन्यतरकासमवायिकारणक इत्यर्थः। उभयकर्मज इति। उभयकासमवायिकारणक इत्यर्थः। उभयत्वमेकविशिष्टापरत्वमिति केचित् । तन्न मटे घटत्वपटत्वोभयं नास्तीतिव्यवहारानुपपत्तिप्रसङ्गात् व्यधिकरणयोर्घटत्वपठत्वयोब्वैशिष्टयबिरहात् । किन्तुव्यासज्यवृत्तिद्वित्वमेवोभयत्वम् । संयोगज इति। संयोगासमवायिकारणक इत्यर्थः।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127