Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ३४ ] स्वसमानजातीयेति। अत्र साजात्यं न गुणत्वेन, रूपादेः संयोगाद्यारम्भकतापत्तेः । नापि विशेषगुणत्वेन, रूपादेरसाद्यारम्भकत्वप्रसङ्गतात् । नापि स्ववृत्तिगुणत्वव्याप्यजातिमन्त्वेन, शुक्लरूपादेः पीतरूपाद्यारम्भकत्वप्रसक्तेः। किन्तु स्ववृत्तिरूपत्वादिव्याप्यजातिमन्त्वेन । तथा च शुक्लरूपादेः शुक्लरूपाद्यारम्भकत्वस्य पीतरूपाद्यनारम्भकत्वस्य च नानुपपत्तिः।
सामान्यतो विशेषगुणोत्पादप्रक्रियामुक्त्वा विशेषतो वक्तु प्रक्रमते पृथिवीविशेष. गुणा इत्यादि। अत्रजलादौ पाकासम्भवादाह पृथिवीति । अतएवोक्त 'एतेषां पाकजत्वं तु क्षितौ नान्यत्र कुत्रचित्' इति । संख्यादिसामान्यगुणेषु पाकासम्भवादाह विशेषेति । पाकजा इति । पाकस्तेजःसंयोगस्नद्ध'तुका इत्यर्थः। ते इति । पाकजविशेषगुणा इत्यार्थः। पाकप्रयोज्या इति । परस्परयापाकहेतुका इत्यर्थः। पाकजन्या इति । साक्षात्पाकहेतुका इत्यर्थः। तत्र ये पाकप्रयोज्यास्तान्निर्देष्टुमाह कारणगुणेत्यादि। कारणगुणप्रक्रमजन्यत्वन्तु स्वाश्रयसमवायिमात्रसमवेतस्वसजातीयगुणजन्यत्वम् । तथाचावयवपाकवादिमते द्वणुद्यकाद्यवयविनिष्ठरक्तरूपादेस्तदुपपद्यते यतस्तन्मते परमाण्वादाववयवे पाकेन श्यामरूपादिनाशानन्तरं जनिताद्रक्तरूपाहितो द्यणुकादौ रक्तरूपादिकमुत्पद्यते । तत्र द्वयणुकादिनिष्ठरक्तरूपादिकं प्रति परमाणुगतपाकस्य परम्परयाहेतुत्वात् पाकप्रयोज्या इत्युक्तम् । ये च पाकजन्याः पृथिवीविशेषगुणास्तान्निरूपयितुमाहाग्निसंयोगजन्या इति। तेजःसंयोगसाक्षात्कारणकाइत्यर्थः । तथाचोक्तमते परमाण्वाद्यवयवगतरक्तरूपादिकं प्रति, अवयविपाकवादिमते च द्व.यणुकाद्यवयविनिष्ठरक्तरूपादिकं प्रति तेजःसंयोगस्य साक्षात्कारणत्वात् कारणगुणप्रक्रमजन्यत्वाभावेन तथाविधरूपादयः पाकजन्यत्वेन व्यपदिष्टा इति तत्त्वम् ।
अत्र यद्यपि स्वाश्रयसमवायिसमवेतगुणजन्यत्वमेव कारणगुणप्रक्रमजन्यत्वं सम्भवति, तथाच वैशेषिकमते पृथिवीविशेषगुणानां सामान्यतो गुरुत्वस्थितिस्थाप कपरिमाणैकपृथक्त्वस्नेहसांसिद्धिकद्रवत्ववेगानाञ्च तन्निवहत्यवयवनिष्ठानामेषामवयविन्येतत्सजातीयगुणारम्भकत्वात्तथापि करपुस्तकसंयोगादिजनितकायपुस्तकसंयोगादावतिव्याप्तिः करकायाद्योरवयवावयविमावादतः स्वाश्रयसमवायिमात्रसमवेतस्वजातीयगुणजन्यत्वं विवक्षितम् । सजातीयत्वोपादानादवयवावयविनोरेकत्वाम्यां जनितेऽवयवावयविद्वित्वादौ नातिव्यप्तिः। नच संख्यात्वेन सजातीयत्वान्नद्दोषतादवस्थ्यमितिवाच्यं । गुणत्वव्याप्यव्याप्यजातिमत्तेन साजात्यस्य विवक्षितत्वात्। न च गुरुत्वस्नेहयोस्तादृशजात्यप्रसिद्धयाऽव्याप्तिरिति वाच्यं तत्र गुणत्वव्याप्यजाव साजात्यस्य विवक्षणीयत्वात् ॥२२॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127