Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
[ ३२ ]
सत्यन्तम् । न चाणुद्व्यणुकयोरूद्भूतरूपसत्त्वे किं प्रमाणमितिवाच्यं त्र्यणुके उद्भूनरूपवत्त्वस्यैव मानत्वात् कारणगतरूपादीनां कार्य्यं गतस्वसजातीयगुणारम्भकत्वनियमात् । प्राणादिगतरूपादौ व्यभिचारवारणार्थमुद्भूतत्वमिति । त्वञ्च न जाति: शुक्लत्वाबिनासाङ्कर्य्यप्रसङ्गात् किन्तु प्रत्यक्षत्वप्रयोजकधर्मविशेष: शुक्लत्वादिव्याप्यनानानुद्भूतत्वजात्यभावकूठो वा गुरुत्व भावनास्थितिस्थापकधर्म्माधर्म्मान्यगुणवृत्तिः । च च वमभावकूठस्य प्रत्यक्षजनकतावच्छेदककत्वे विशेष्यविशेषणभावे विनिगमनाविरहाद्गुरुत्वकार्यकारणभाववाहस्येन गौरवमितिवाच्यं तादृशाभाक्कूठस्यैकत्रद्वयमितिहोत्या स्क्लेकपोतभ्यायेन युगपद्विशेषणत्वोपगमात् ।
14
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
अन्येतु गुणसाङ्कर्यस्य जातिवाधकत्वे मानाभावादुद्भूतत्वं प्रत्यक्षंप्रयोजकतावच्छेदकर्तया सिद्धो रूपादिवृत्तीरूपत्वादिव्याप्यों जातिविशेष इत्याहुः ।
नव्यास्तुद्भूतस्वस्य जातित्वे चाक्षुषादाबुद्भूतरूपत्वादिना कारणत्वस्यानुभविक - स्यानुपपत्तिर्व्वयाप्यव्यापकतापन्नजातिद्वयोरेककारणतायामनवच्छेदकत्वात् । किञ्च मिथो व्यभिचारवारणाय नानाकार्यकारणभावकल्पनापत्तिश्चेति प्राहुः ।
atra कातावछेदककोटौ रूपादेव्विशेषतः प्रवेशोव्यर्थो गुणसामान्यप्रवेशे कार्यकारणभावान्तराकल्पनया लाघवादिति वाच्यं गगनादिवृत्तिसंयोगादेः प्रत्यक्षतापतेः न चेष्टापत्तिः, गगनावेरतीन्द्रियत्वात् । न च वमतीन्द्रियगगनवृत्तित्वाच्छन्दस्याप्रत्यक्षव्वं स्यादिनि वाच्यं शब्दस्य विशेषगुणत्वात् । रूपाद्यात्मकविशेषगुणप्रत्यक्ष प्रयोजकभुक्त्वा सामान्यगुणप्रत्यक्ष प्रयोजकभाह सामान्यगुणप्रत्यक्ष इति । आश्रयप्रत्यक्षमिति । न च गुणसामान्यप्रत्यक्षत्वावच्छिन्न प्रत्येवाश्रयप्रत्यक्षस्य हेतुत्वे नानाकाय्र्य्यकारणभावाकल्पनाल्लाघवमिति वाच्यं वायवीयस्पर्शादेः शब्दादेश्चाप्रत्यक्षतापलेः । यद्यपि बुद्धिप्रत्यक्षेऽप्याश्रयप्रत्यक्षस्य प्रयोजकत्वं सम्भवति तथापि बुद्धित्वस्य निव्विकल्पक प्रत्यक्षसाधारण्याद्विशिनष्टि बुद्धिप्रत्यक्ष इत्यादि । न चेश्वरीयबुद्ध : प्रत्यक्षत्वे किं मानमितिवाच्यं ईश्वरीयस्य जगत् साक्षात्करोमीत्याद्यनुभवस्यैव मानत्वात् ।
स्ववृत्तिविशिष्टज्ञानत्वमिति । प्रयोजकमिति पूर्वेणान्वयः । अविद्यमानस्यासम्बद्वस्य च विशिष्टज्ञानत्ववतः प्रयक्षासम्भवात् स्वपदं प्रत्यक्ष योग्यतत्तद्विशिष्टज्ञानपरिचायकमिति ध्येयम् । अप्रत्यक्षज्ञानविशेषे विशिष्टज्ञानत्वसत्त्वेन व्यभिचारवारणाय स्ववृत्तीति । तादृशं यद्विशिष्टज्ञानत्वं तस्य कालिकेन धटादावपि सत्त्वाद्वघभिचारवारणाय सम्बन्धेन प्रयोजकत्वमुपेतव्यम् । स्ववृन्निज्ञानत्वजातेः समवायेन निव्विकल्पकेऽपि सत्त्वाद्वयभिचारवारणाय विशिष्टेति । विशिष्टज्ञानत्वञ्च प्रकारता - विशेष्यताशालिज्ञानत्वम् ।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127