Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ३१ ] ॥ विवृत्तिः॥ नित्यगुणान्निरूप्याप्रत्यक्षगुणान्निरूपयितुमाहाथया प्रत्यक्षगुणाइति । अत्राप्रत्यक्षत्वं न पत्यक्षविषयत्वसामान्याभावो गुरुत्वादीनामलौकिकप्रत्यक्षविषत्वादव्याप्त: किन्तु लौकिकप्रत्यक्षविषत्वरूपं बोध्यम् । प्रयोजकलाघवादादौ गुरुत्वादीनामप्रत्यक्षत्वमभिधन्ने गुरुत्वेत्यादि । अत्र गुरुत्वादिपञ्चानामप्रत्यक्षत्वे उद्भूतत्वाभावः प्रयोजकः । महवृत्तित्वाभावात् परमाणुद्वयणुकवृत्तिगुणानामप्रत्यक्षत्वमित्यतआह परमाणुद्वयणुकवृत्तिगुणा इति। यद्यपि परमाणुद्व यणुकवृत्तिगुणानामपि वक्ष्यमाणातीन्द्रियवृत्तिगुणत्वेनोपग्रहस्नेहप्रत्यक्षे आश्रयाप्रत्यक्षत्वस्य हेतुत्वकल्पनञ्च सम्भवति तथापि महबृन्नित्वाभावस्यापि अप्रत्यक्षत्वप्रयोजकत्वाविष्कर्तुं परमाणुकद्व्यणुकवृत्तिगुणानां पृथगुपादानं कृतमिति ध्येयम् । अतीन्द्रियवृत्तिसामान्यगुणा इति। अत्रातीन्द्रियत्वं वहिरिन्द्रियजन्यप्रत्यक्षाविषयत्वं नत्विन्द्रियकरणकप्रत्यक्षाविषयत्वरूपमन्यथामात्मनो मानसप्रत्यक्षविषयत्वादात्मगनसामान्यगुणानाञ्च तथात्वादव्याप्तिः स्यात् । शब्दबुद्ध यादिष्वव्याप्तिवारणाय सामान्यपदम् । त्रसरेणुवृत्तिरूपस्य महबृत्तित्वविशिष्टो द्भूतत्वसत्त्वात् प्रत्यक्षत्वादाह त्रसरेणुरूपं विहायेति । अन्येगुणा इति । त्रसरेणुबृत्तिरसादय इत्थर्थः । न च महबृत्तित्वस्य तुल्यत्वाद्रूपस्येव रसादेः प्रत्यक्षं तत्र कथं न स्यादिति वाच्यं रूपप्रत्यक्षे महद्वन्नित्वस्य रसादिप्रत्यक्षे च श्यणुकव्यावृत्तमहबृन्नित्वस्य कारणत्वात् । न च रसादिप्रत्यक्षकारणतावच्छेदककोटौ त्र्यणुकव्यावृत्तत्वनिवेशोऽप्राणिक इति वाच्यं अणुकवृत्तिरसाद्यप्रत्यक्षत्वानुभचस्यैव तत्रमानत्वात् । इहमुपलक्षणं जीवनयोनियत्नस्याप्यतीन्द्रियत्वं बोध्यम् ॥२६॥ ॥ तामृतम् ।। रूपरसगन्धस्पर्शस्नेहप्रत्यक्षे महृद्व दृन्वित्रिन्वे सत्युमूतत्वं प्रयोजकम् । सायान्यगुणप्रत्यक्षे त्वाश्रयप्रत्यक्षम् । बुद्धिप्रत्यक्षे स्ववृत्तिविशिष्टज्ञानत्वम् । सुस्वादिप्रत्यक्षे स्ववत्तिसुस्वत्वादिकमेव । अन्त्याद्यशब्दौ विहाय सर्वशब्दः प्रत्यक्षः ॥२०॥ ॥ विवतिः॥ येषां गुणानामप्रत्यक्षत्वममिहितं तदितरगुणानामवश्यं प्रत्यक्षत्वं वाच्य, तत्र च प्रत्यक्षे प्रयोजक किमित्याकांक्षायामाह रूपेत्यादि । रूपादीनामेषां विशेषगुणत्वेऽपि बुद्ध यादिविशेषगुणसाधारणानुगतप्रयोजकविरहाद्रूपादीनां विशेषतोऽमिधानमितिभावः। प्रयोजकं निर्दिशति महदित्यादि। त्रसरेणुवृत्तिरसादौ व्यभिचारवारणाय सत्यन्तं, ह्यणुकव्यावृत्तमहद्वृत्तित्वे सतीति तदर्थः। न च त्र्यणुकवृत्तिरसादेः प्रत्यक्षं स्यादिति वाच्यमनुभवविरुद्वन्वान् । रूपप्रत्यक्षे तु महस्वे त्र्यणुकव्यावृत्तत्वं न लेयं श्यणुकरूपप्रत्यक्षस्यानुभवसिद्धत्वात्। वस्तुतसुपरमाणुत्र यणुकरूपादौव्यभिचारवारणाय For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127