Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २६ ] त्वाद् यथाश्रुतं न सङ्गच्छते तथापि तत्तद्देशस्थतदवच्छिन्नशरीरमनःप्रभृतिषु द्विविधयपरत्वापरत्वयोरुत्पत्तौ वाधकाभावात्तथाव्यवहाराच्चनानुपपत्तिः। अथ बुद्धयादिमत्त्वस्यात्मसाधर्म्यमाह बुद्धिसुखेत्यादि । आत्मनौ द्वैविध्यात्सुखदुःखद्वषभावनाधर्माणाञ्च परमात्मवृत्तित्वविरहाबुद्धीच्छाप्रयत्नानां जीवात्मपरमात्मोमयसाधयमितरेषान्नु जीवमात्रसाधर्म्यमिति बोध्यम् । सुवर्णादिरूपे तेजसि गुरुत्वस्योपलभ्यमानत्वेऽपि तस्य पार्थिवभागोपष्टम्मकत्वादाह गुरुत्वं पृथिवीजलवृत्तीति । द्रवत्ववत्त्वस्य पृथिव्यादित्रितयसाधर्म्यमाह द्रवत्वमित्यादि। द्रवत्वं विभजते तद्-ि विधमिति । विधाद्वयं दर्शयति नै मित्तकमित्यादि । तत्र नैमित्तिकत्वभग्निसंयोगादि निमित्तविशेषजन्यत्वम्। सांसिद्धिकत्वञ्च जातिविशेषः। सामान्यतः साधर्म्यमुक्त्वा विशेषत आहाद्यमिति। पृथिवीतेजसोरिति घृतसुवर्णाद्योवह्निसंयोगादिना द्रवत्वस्य प्रत्यक्षसिद्धत्वादिति भावः। द्वितीयमिति । सांसिद्धिकमित्यर्थः ।
अथ स्नेहवत्त्वस्य जलसाधर्म्यमाह स्नेह इत्यादि। अत्रमात्रपदेन पृथिव्यादेववच्छेदः। यत्तु घृतादिरूपपृथिव्यामपि स्नेहवत्त्वं तदपि जलीयमेव स्वतन्त्रान्वयव्यतिरेकाम्यां किन्तु प्रकृष्टत्वाद्दाहानुकूलमिति बोध्यम् ।। - अथ पृथिव्यादीनां संस्कारवत्त्वं साधर्म्यमाह संस्कारः पृथिवीत्यादि । संस्कारं विभजने स त्रिविध इति । विधात्रयं दर्शयति बेगइति । तत्र वेगत्यादयो जातिविशेषाः । मूर्त्तमात्रस्य वेगवत्त्वं साधर्म्यमाह तत्र वेगइति । द्वितीयइति । भावनारव्यः संस्कार इत्यर्थः। आत्मवृत्तिरिति । जीवात्मवृत्तिरित्यर्थः। तेनेश्वरे भावनाविरहेऽपिनाव्याप्तिः। तृतीय इति । स्थितिस्थापक इत्यर्थः। पृथिव्यादिचतुष्टयवृत्तिरिति । एतच्च प्राचां मतानुसारेण। नव्यासु स्थितिस्थापकस्य जलादिवृत्तित्वे मानाभावात् पृथिवीमात्रवृत्तित्वमिति प्राहुः । ___ शब्दसामान्यस्येव शब्दविशेषस्यापि आकाशमात्रनिष्ठत्वात् शब्दसामान्यस्य साध
घूमनुत्क्वौवादौ विभजते शब्दो द्विविध इति । ध्वन्यात्मक इति । ध्वनित्ववर्णत्वेशब्दत्वव्याप्यजातिविशेषौ। वर्णत्वव्याप्याः पुनः कत्वादिजातयोऽवगन्तव्याः । आकाशमात्रवृत्तिरिति । मात्रपदेन गगनान्यद्रव्यव्यवच्छेदः ॥२६॥
॥ तर्कामृतम् ॥ रूपरसगन्धस्पर्शस्नेहसांसिद्धिक वत्वशब्दबुद्धि-सुखदुःखेच्छाद्वषप्रयत्नधर्माधर्मभावना विशेषमुणाः। संख्यापरिमाणपृथक्त्वसंयोगविभागगुरुत्वनैमित्तिकद्रवत्ववेगस्थितिस्थापकाः सामान्यगुणाः ॥२७॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127