Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [१] भावादुक्तं पृथिव्यामिति । मधुर एवेत्येवकारेणाम्लादिव्यवच्छेदः । न च जम्बीरजलादाबम्लादिरसस्यानुभवादव्याप्तिरिति वाच्यं तस्याश्रयौपाधिकत्वात् । अथ क्रमप्राप्तगन्धवत्त्वस्य पृथिवोसाधर्म्यतां प्रदर्शयितुं द्विविधस्यैव गन्धस्य पृथिवीवृत्तितया प्रथमत एव गन्धं विभजते गन्धो द्विविध इति । सुरभिरसुरभिश्चेति । सुरमित्वासुरभित्वे गन्धत्वव्याप्यजातिविशेषौ । नचासुरभित्वं सुरभित्वाभाव इति वाच्यं गन्धमृगादौ तम्य भावत्वेनानुभूयमानत्वात् । पृथिवीमात्रवृत्तरितिमात्रपदं जलादौ गन्धाभावात् सार्थकम् । न च पाषाणात्मकपृथिव्यां गन्धाभावादव्याप्तिरिति वाच्यं पाषाणभस्मनि गन्धोपलब्धेः पाषाणेऽपिगन्धसत्त्वादन्यथा भस्मनि गन्धाभावापत्तेः । न च भस्म द्रव्यान्तरमेवेति वाच्यं रसाद्यभावेन द्रव्यान्तरत्वासिद्ध ेः । सामान्यतः स्पर्शवत्त्वस्य क्षित्यादिचतुष्ट्यसाधर्म्य भुक्त्वा स्पर्शं विभजते-- स च त्रिविध इति । अत्र यद्यप्यनुष्णाशीतस्पर्शस्य साधर्म्यं चरमे प्रतिपादयितुमुचितं क्रमानुरोधान्नव्यापिद्रव्यद्वय साधर्म्यत्वेन प्राधान्यमभिप्रेत्यादौ निरूपयत्यनुष्णाशीतस्पर्श इति । स च पृथिव्यां पाकजः पवने चापाकज इति विशेषः । जले शीत इति । उष्णजले उष्णत्वप्रतीतेरोपाधिकतया न दोष इति बोध्यम् । तेजसि उष्ण इति । सुवर्णादिरूपे तेजसि पार्थिवस्पर्शेनामिभबादुष्णस्पर्शस्यानुपलब्धिरिति नाव्याप्तिः ||२५|| ॥ तर्कामृतम् ॥ संख्या परिमाणपृथकत्वसंयोगविभागा नव द्रव्यवृत्तयः । परत्वापरत्वे पृथिवी - जलतेजोमनो वृत्तिनी । बुद्धिसुखदुःखेच्छाद्वे षप्रयत्नभावनाधम्र्म्माधर्म्मा आत्मवृत्तयः । - गुरुत्वं पृथिवीजलवृत्ति । द्रवत्वं पृथिवीजलतेजोवृत्ति तद्दिविधं नैमित्तिकं सांसिद्धिकञ्च । आद्यं पृथिवोतेजसोः । द्वितीयं जले । स्नेहो जलमात्रवृत्तिः । संस्कारः पृथिवीजलतेजोवाप्याश्ममनोवृत्तिः । स त्रिविधोवेगो भावानास्थितिस्थापकश्च । तत्र वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । द्वितीय आत्मवृत्तिः । तृतीयः पृथिव्यादिचतुष्टय वृत्तिः । शब्दो द्विविधो ध्वन्यात्मको वर्णात्मकश्चाकाशमात्रवृत्तिः ॥ २६ ॥ ॥ विवृतिः ॥ संख्यादिपञ्चकानां सकलद्रव्यवृत्तित्वादाह संख्येत्यादि । यद्यपि गुणानामाश्रयभेदभिन्नत्वात् संख्यादेर्न वद्रव्यवृत्तित्वं न सङ्गच्छते तथापि संख्यात्वादिना सकलद्रव्यवृत्तित्वाददोषः । अथ परत्वापरत्वयोम्मूत्तद्रव्यसाधर्म्य माह परत्वापरत्वे इत्यादि । अत्रापि दैशिककालिकभेदेन परत्वस्यापरत्वस्य च द्वैविध्याद्दैशिकपरत्वापरत्वयोर्द्देशनिष्ठत्वात् कालिकपरत्वापरत्वयोश्च शरीरनिष्ठत्वान्मनः प्रभृतेश्चादेशशरी For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127