Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ २७ ] ॥ विवृतिः ॥ अथ गुणत्वेन गुणानामखिलद्रव्यसमवेतन्वाद्रव्याभिव्यङ्गयत्वाच्च द्रव्यनिरूपणानन्तरं गुणानुद्देष्टुं विभजितुञ्च प्रतिजानीतेऽथ गुणा इति। चतुर्विंशतिरिति । न च यागादिव्यापारतया सिद्धस्य कार्य्यसामान्यनिमित्तकारणस्यादृष्टस्यापह्नोतुमशक्यत्वात् कथं गुणानां चतुविशतित्वमिति वाच्यं धर्माधर्मभेदेनादृष्टस्य द्वैविध्यादनुपपत्तिविरहात्। न चैवं रूपादिभेदानां शुक्लादीनां सत्त्वात् पुनश्चतुर्विंशतित्वानुपपत्तिरिति वाच्यं रूपत्वादिजात्या शुक्लादीनामैक्यात् । न चादृष्टत्वेन धर्माधर्मयोरप्यैकस्य वक्तुं शक्यतयाऽनुपपत्तितादवस्थ्यमिति वाच्यमदृष्टत्वस्य जातित्वासिद्धः। वस्तुतस्तु गुणाश्चतुर्दिशति रित्यस्य गुणाश्चतुविशतिगुणविभाजकजातिमन्त इत्यर्थान्न दोषोऽदृष्टपदाद्धर्म त्वादिप्रकारेण शाब्दबोधस्यैवानुभवसिद्धत्वात्तत्पदशक्यतावच्छेदकतयानुगतप्रतीतिविषयतावच्छेदकत्वादिना वा धर्मत्वादेरेव जातित्वसिद्ध रिति ध्येयम् । तथा चालस्यविरुचिलघुत्वादीनां गुणत्वे प्रमाणाभावान्न संख्याधिक्यमिति भावः । जातय इति । वाधकषट्काभावादनुगतप्रतीतिविषयतावच्छेकतया तत्तत्पदशक्यतावच्छेकत्वादिना वैतेषां जातित्वमिति भावः। तथाच रूपत्वादिजातिमत्त्वं रूपादिलघुलक्षणं बोधमम् । अथ गुणानां साधयंवैधयें निरूपयितुं प्रथमोद्दिष्टरूपवत्त्वस्य पृथिव्यादित्रितयसाधर्म्यमाह रूपमित्यादि। कस्याश्चिदपि रूपव्यक्त स्त्रितयवृत्तिस्वाभावेऽपि रूपत्वेन त्रितयवृत्तित्वमिति ज्ञेयम् । एवमग्रेऽपि । तथाच रूपवत्त्वं त्रितयसाधर्म्यमिति भावः । अत्र च यस्य द्रव्यस्य यद्गुणवत्त्वं साधम्म्यं वक्ष्यति तदितरद्रव्यस्य तद्गुणवत्त्वं वैधम्म्यं ज्ञेयम् । न चाद्यक्षणावच्छेदेनैतेषु रूपवत्त्वाभावादव्याप्तिरितिवाच्यं रूपसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वात् । एवमन्यत्रापि। रूपविभागमाह तच्च शुक्लेत्यादि । शुक्लत्वादयो रूपत्वव्याप्यजातिविशेवरूपाः प्रत्यक्षसिद्धाः। चित्रादीति। रूपस्य व्याप्यवृत्तित्वनियमादव्याप्यवृत्ति शुक्लादिसमुदायस्य चित्ररूपत्वासिद्ध या चित्रपटादिप्रत्यक्षत्वानुपपत्तेश्चित्ररूपसिद्धिरिति भावः । आदिना नीलादेः परिग्रहः। जलादौ बहुरूपाभावादाह पृथिवीवृत्तीति । सामान्यतो रूपवत्त्वस्य साधर्म्यमुक्ता विशेष आह अभास्वरशुक्लरूपमिति । शुक्लरूपस्य पृथिवी तेजसोरपि सत्त्वादुक्तमभास्वरेति। शुक्लभास्वरमिति । पृथिवी जलयोावृत्तये भास्वर मिति। अथ क्रमप्राप्तरसवत्वं पृथिव्यादिद्वयसाध्यघूमाह रस इत्यादि। रसं विभजते तत्र मधुरेत्यादि। मधुरत्वादीनि रसत्वव्याप्यजातिविशेषरूपाणि। षडूविध इति। रसनघ्राणत्वगिन्द्रियानां द्रव्यग्रहणे सामार्थ्याभावाद्रव्यलौकिकरासनादेर प्रसिद्ध या तदनुपपत्त्यनवकाशेन चित्ररसाद्यनङ्गीकारादित्याशयः। जले षडूविधरसा For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127