Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ २५ । नाशप्रतियोगित्वविरहेऽपि न क्षतिः। यद्यपि जन्यद्रव्यसामान्यस्यैवासमवायिकारणनाशनाश्यत्वकल्पने लाघवान्न नाश विध्यं सम्भवति तथापि पटादौ तन्तुसंयोगनाशस्येव विनिगमकाभावात्तन्तुनाशस्यापि नाशकत्वमित्याशयेन वैविध्यमुक्तम् । विधाद्वयं दर्शयति क्वचिदसमवायीत्यादि । ननु समवाय्यसमवायोति क्रमेण पूर्व कारणनिर्देशादत्र कथं वैपरीत्यमिति चेन्न परमाण्वात्मकसमवायिकरणस्य नित्यत्वेऽपिद्वयणुकनाशे समवायिकारणनाशनाश्यत्वस्य वक्तुमशक्यत्वात् जन्यद्रव्यनाशकतया प्राधान्यादसमवायिकारणनाशस्य पूवं निर्देशात् । नवीनास्तु लाघवतः सर्वत्र वासमवायिकारणनाशत्वेन कार्य्यद्रव्यनाशत्वेन कार्यकारणभावं मन्यन्ते। असमवायिकारणनाशजकार्य्यद्रव्यनाशमुदाहरति परमामुद्वयेत्यादि । अत्र समवायिकारणस्य नित्यत्वादिति भावः। द्वयपदं स्वरूपकीर्तनमात्रम् । समवायिकारणनाशजकार्य्यद्रव्यनाशमुदाहुरति कपालनाशादिति । ननु यत्र समवायिकारणमप्यनित्यं तत्र कार्यद्रव्यनाशे बिनिगमकाभावादुभयनाशयोरेव कारणत्वं वाच्यमित्याह घटनाश उभयत इति । समवायिकारणनाशादसमवायिकारणनाशाच्चेत्यर्थः । न चैवं मिथोव्यभिचारादनुगमासम्भवाच्च प्रत्येकमपि कारणं न स्यादिति वाच्यं निमित्तेतरकारणनाशत्वेन कारणत्वस्य वक्तव्यत्वात् तत्तन्नाशं प्रति तत्तन्नाशस्य करणत्वमिति रीत्या विशेषस्य कल्पयितु शक्यत्वाच्च ।।१३॥ ॥ तामृतम् ॥ आकाशकालदिगात्मपरमाणवोऽवृत्तयः समवायश्च । पृथिव्यादिपञ्चानां भूतत्वम् । पृथिवीजलतेजोवायुमनसां क्रियावत्त्वमूर्तत्वे । पृथिव्यप्तेजोवायवोद्गव्यसमवायिकारणानि । कालस्य कालिकसम्बन्धेन सर्वाधिकरणत्वम् । दिशो दैशिकसम्बन्धेन सर्वाधिकरणत्वम् ॥ १४॥ ॥॥ इतिव्यनिरूपणम् ।।१।। . . ॥ विवृतिः ।। अथ साधर्म्य निरूपणेन द्रव्यविचारमुपसहर्तुमाह-आकाशेत्यादि। समपरिमाणयो वस्तुनो मिथो वैशिष्ट्यधियः प्रमात्वेऽपि तत्राधाराधेयभावस्याननुभवा. दाधाराधेयभावं प्रत्याधाराधेययोः परिमाणतारतम्यस्य नियामकत्वमुपेयम् । एवञ्चाकासकालात्मदिशां परममहुत्परिमाणवत्त्वेन परमाणुनाञ्चानुपरिमाणवत्त्वेन तौल्या. दाधेयत्वं न सम्भवतीत्याहावृत्तय इति। . संयोगसमवायान्यतरसम्बन्धावच्छिन्नाधेयत्वसामान्याभाववन्त इत्यर्थः। तेन महाकालस्य कालिकसम्बन्धेनाकाशादिमत्वेऽपि न क्षतिः। समवायश्चेति । अवृत्तिरिति विभक्ति विपरिणामेनान्वयः । तथा चैतेषामवृत्तित्वं साधर्म्यमितिभावः । एवं परत्रापि। For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127