Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २३ ] "नैकदृष्टं स्मरत्यन्यः" इत्यादि । ननु शरीरस्यास्मत्पदार्थत्वविरहे 'स्थूलोऽहं गच्छामि' 'गौरोऽहमश्नामि' इत्यादि स्थूलत्वगमनाद्योः सामानाधिकरण्यावगाहिप्रतीतेः का गतिरिति चेन्न तत्रानायत्या स्थूलगौरपदयो गौणार्थकत्वकल्पनात्। तथाहि स्थूला. दिपदस्य स्थूलत्वाद्यवच्छिन्नदेहावच्छिन्नपरत्वान्नानुपपपत्तिः । यदिदं प्रत्यक्षस्यात्मप्रमाणत्वममिहितं तन्निज शरीरावच्छेदेनैव, परकीयशरीरावच्छेन तु तस्य प्रमाणत्वासम्भवा
चैत्रशरीरप्रयत्नवदधिष्ठितं चेष्टावन्त्वाद् यन्नैवं तन्नैवमित्याद्यनुमानादात्मसिद्धिरिति ध्येयम् ।
उद्देशप्रकरणे ईश्वरस्य' पृथगनुदृष्टत्वेऽनैवोद्देशोबोध्यः। तदुक्त शिवादित्येन "आत्मातु परमात्मा क्षेत्रज्ञश्चेति द्विविधः" इति । तथा च तस्य नीरूपद्रव्यत्वेन तत्र प्रत्यक्षप्रमाणप्रमेयत्ववाधादाह ईश्वरे चानुमानमिति । ईश्वरसाधकमनुमानमाभिनीय दर्शयति क्षितिरित्यादि । नात्र क्षितित्वस्य पक्षतावच्छेदकत्वमभिमतं तथा सत्यवच्छेदकावच्छेदेन साध्यसाधने परमाणौ बाघः सामानाधिकरष्येन तथात्वेपि घटादावंशतः सिद्धसाधनं प्रसज्येत किन्तु स्वरूपसम्बन्धविशेषात्मककार्य्यत्वस्य तथात्वं बोध्यम् । तेन जन्यक्षितित्वस्य पक्षतावच्छे दकत्व एव नोत्तातिप्रसङ्ग इत्य" पास्तम् । तथात्वे क्षितित्वस्य पक्षतावच्छेदककोटिप्रवेशवैयर्थ्यप्रसङ्गात् परमाणुनभ्युपगमे जन्यपदभ्याव्यावर्तकतापत्तेश्च । सकर्तृ केति। कत्तु जन्येत्यर्थः। अत्र कर्तृत्वं न तावत् कृतिमत्त्वमात्रमुपादानज्ञानाद्यभाववतोऽपीष्टसाधनताज्ञानादिना प्रवृत्त्युत्पत्त्यावालादे घटादि कत तापत्तेः किन्तूपादानगोचरापरोक्षज्ञानचिकीर्षा कृतिमत्त्वरूपम् । यद्यप्यत्रोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिजन्यत्वस्य साध्यत्वे लाघवं कृत्याश्रयतयेश्वरसिद्धिश्च सम्भवति तथाप्युपादानज्ञानचिकीर्षाकृतीनामिव स्वतन्त्रान्वयव्यतिरेकाभ्यमुपादानज्ञानचिकीर्षाकृतिमतोऽपि हेतुत्वमित्याभिप्रायेण सकत्तृ कत्वस्य साध्यतेतिबोध्या।
वस्तुतस्तु कायंप्रत्युपादानज्ञानत्वादिप्रत्येकधर्मेण-कारणत्व स्यान्वयव्यतिरेक सिद्धत्वाद्विनिगमनाविरहाल्लाघवाच्चोपादानज्ञानजन्यत्वस्य चिकीर्षाजन्यत्वस्य कृतिजन्यत्वस्य च त्रितयस्यात्र साध्यता बोध्या। न चोपादानज्ञानचिकोर्षयोः प्रवृत्ति प्रति हेतुत्वे कार्यसामान्यं प्रत्यहेतुवाद् व्यभिचार इति वाच्यं प्रवृत्तिद्वारा कार्य सामान्येऽप्युपादानज्ञानस्य चिकोषीयाश्च हेतुत्वोपगमात् । __ नव्यास्तु लाघवतः कृतिजन्यत्वस्यैव साध्यत्वं, तथा च सर्गाद्यकालीनांकुरात्मकक्षितेरपि कृति जन्यत्वे सिद्ध तादृशांकुरकृतेश्वास्मदाद्याश्रितत्ववाधात्तदाश्रयत्वेनेश्वर सिद्धिरिति प्राहुः।
वस्तुतस्तु सर्गाद्यकालीनद्यणुकारम्भकपरमाणुसंयोगजनकं कर्म चेतनप्रयत्न
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127