Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २१ ] रित्याशयेन दिक्साधकानुमानप्रकारमाह-परत्वजनकमवधिसापेक्षेत्यादि । अवधि विना दूरत्वसामीप्ययोरनुपपद्यमानत्वात् पक्षतावच्छे दककोटाववधिसापेक्षत्व प्रवेशः । अवधिसापेक्षत्वभवधि विनाऽनुपपद्यभानत्वम् । परार्थानुमानस्य न्यायसाध्यत्वा. न्न्यायस्य च पक्षनिर्देशं बिनाऽसम्भवादिदमित्यन्तेन पक्षनिर्देशः। दूरत्वं प्रति प्रयागादिकं मूतं समवायिकारणं, मूर्त्तदिक् संयोगोऽसमवायिकारणं, मूर्त-( शरीर-) संयोग भूपस्त्वज्ञानजनकीभूतापेक्षाबुद्ध यादिकं निमित्तकारणं, तादृशापेक्षाबुद्धिनाशात्तद्परत्वनाशः। एवं समीपत्वं प्रति प्रयागादिमूत्तं समवायिकारणं, मूर्तदिक् संयोगोऽसमवायिकारणं, मूर्त (शरीर) संयोगाल्पतरत्वज्ञानजनकीभूतापेक्षात्वबुद्ध यादिकं निमित्त कारणं, तादृशापेक्षाबुद्धिनाशात्तदपरत्व नाशः। विशिष्टज्ञानत्वस्य घटज्ञानादावपि सत्त्वादर्थान्तरपत्ते स्तन्मात्रमुपेक्षितम् । सामान्यतो बहुतरसंयोगविशिष्ट शरीर ज्ञानमादाय वाधादिः स्यादतः परत्वजनकमिति पक्षविशेषणम् । साध्यमाह परम्परेत्यादि । हेतुश्च साक्षात् सम्बन्धाभावे सति विशिष्ट ज्ञानत्वमिति सूचयितुमुक्त पूर्ववदिति। मूर्तेन सह स्वकीयसंयोगमालम्व्य दिशा दूरस्थे समीपस्थे च देशे परत्वस्यापरत्वस्य चोत्पाद्यमानत्वाद्दिशोऽन्यत्र तयोरूपनायकत्वासम्भवादत्रापि स्वसमवायिसंयुक्तसंयोगः परम्परासम्बन्धत्वेनोपादेयः । स्वं - अवधिसंयुक्तमूर्तप्रतियोगिकः संयोगः, तत् समवायिमूर्त (शरीर) तत् संयुक्ता दिक्, तत्संयोगः दूरस्थे समीपस्थे च देशे जायते। तथाच स्वसमवायिसंयुक्तत्वेन दिशः दिद्धिरिति मनसि कृत्वाह तेन चेत्यादि । न च पूर्वत्र स्वसमवायि संयुक्तत्वेन दिशोऽत्र च कालस्य सिद्धिः स्यादिति वाच्यं दिशो रविक्रियोपनायकतायाः कालस्य च संयोग विशेषोपनायकताया असिद्धत्वात् क्रियोपनायकः कालः संयोगविशेषोपनायिका दिगित्यस्यैव युक्तत्वात् । ननु कालस्य दिशश्चेवाकाशस्यापि विभुत्वाद्विनिगमकाभावेनोभयत्राकाशस्यैव स्वसमवायि संयुक्तत्वेन सिद्धिः स्यादित्याशङ्कते न चेति । शङ्कां निरस्याति तस्येत्यादि । आकाशस्येत्यर्थः। शब्दाश्रयत्वेनेत्यदि। शब्दो द्रव्याश्रितो गुणत्वादिति प्रोक्तं यद्धमिणःआकाशस्य साधकमनुमानं तेन शब्दाश्रयत्वपुरष्कारेणैवाकाशस्य सिद्धत्वादिति भावः । ननु शब्दाश्रयत्वेन सिद्धस्याकाशस्य स्वसमवायिसंयुक्तत्वेन सिद्धौ का वाधा इत्यत आह न रविक्रियादीति । रविकियापदं कालिकपरत्वापरत्वाभिप्रायेण । आदि पदञ्च दैशिकपदत्वापरत्वाभिप्रायेण । तेन मूर्त्तसंयोगस्योपग्रहः । उपनायकत्वमिति । उपनीतभाननियामकत्वमित्यर्थः । वस्तुतस्त्विदमुपलक्षणं पूर्वत्र स्वसमवायिसंयुक्तत्वेनाकाशस्य सिद्धत्वे क्वचिद् मेरीदण्डसंयोगे स्वसंयुक्तासु स्वसमानकालीनासु यावतीषु भेरीषु युगपच्छब्दोत्पादप्रसङ्गो यतो दृश्यते हि स्वसमवायिरविचरमसंयोगाश्रय शरीरैतदुमयसयुक्तः कालः स्वसंयुक्त षु स्वसमानकालीनेषु यावत्सु शरीरेषु युगपत्
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127