Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २० ] भावावच्छिन्नकालत्वं तद्भविष्यत्कालत्वम् । तद्ध्वंसावच्छिन्नकालत्वं तद्भुतकालत्वम् शङ्कां निरस्यति नेति । उपाधिभेदेनेति । यथाकाशस्यैकत्वेऽपि घटाकाशं पटाकाशमित्यादिव्यवहारो घटपठाद्यात्मकोपाधिभेदात् कथञ्चिहुपपादनीयस्तथाकालेऽपोतिभावः । अत्रके तावद् भेदका उपाधय इत्याकाक्षायामाह रविक्रियादीति । स्वकीयवर्तमानातीतभविष्यत्कालेषु स्व-स्वध्वंस-स्वप्रागभावावच्छिन्नमात्तण्डपरिस्पन्दनामिव स्वस्वध्वंस-स्वप्रागभावानामप्युपाधित्वं सन्भवतीत्याशयेनोक्तमादिपदम् । तेन विभागप्रागभावादेरप्युपग्रहः। तथाच स्वजन्यविभागप्रागभावावच्छिन्नमार्ताण्डपरिस्पन्दस्येक स्वजन्यविभागप्रागभावस्य पूर्वसंयोगावच्छिन्न विभागस्य वाद्यक्षणोपाधित्वं संगच्छते। एवमन्यत्राप्यूह्यम् ॥ १०॥
॥ तर्कामृतम् ॥ एवं दैशिकपरत्वापरत्वभ्यां दिशः सिद्धिः। ते च दूरत्वसमीपत्वे । अवधिसापेक्षबहुतरसंयोगविशिष्टशरीर ज्ञानमिदं परत्वजनकं परम्परासम्बन्धघटकसापेक्षमित्यादि पूर्ववत्। तेन च दिशः सिद्धिः । न चाकाशमेव सम्बन्धघटकमास्तामिति वाच्यं तस्य शब्दाश्रयत्वेनैव धम्मिग्राहकप्रमाण सिद्धत्वात् न रविक्रियाद्युपनायकत्वसम्भवः ॥११॥
॥ विवृतिः ॥ अथ नियत परत्वाभ्यां कालमनुमाय दिशमप्यनुमानतो निरूपयितुमवतारयति एवं दैशिकपरत्वापरत्वाभ्यामिति । अनियताभ्यामिति भावः । दैशिकपरत्वोत्पत्तौ मूर्तसंयोगभूयस्त्वज्ञानमिव भूयः संयोगविशिष्टमूर्तज्ञानमपि निमित्तकारणम् । अतएव बहुतरसंयोगविशिष्टशरोरज्ञानस्य पक्षत्वं वक्ष्यति । एवं दैशिकापरत्वोत्पत्तौ मूर्तसंयोगाल्पीयस्त्वज्ञानभिवाल्पसंयोगविशिष्टमूर्त्तज्ञानमपि निमित्तकारणं बोध्यम् । तथाहि पाटलीपुत्राद् यावत् संख्यकैम्मूर्तसंयोगैः काशी प्राप्यते ततोऽधिकभूर्त संयोगैः प्रयागः प्राप्यतेऽतः पाटलीपुत्रात् काशीमपेक्ष्य प्रयागः पर इति व्यवह्नियते । तत्र पाटलीपुत्रभवधिकृत्वा बहुतरमूर्त्तसंयोगान्तरिते प्रयागे काश्यपेक्षया परत्यमुत्पद्यते, तञ्च दूरत्वरूपम् । एवं पाटलीपुत्राद् यावत् संख्यकैम् त्तसंयोगैः कुरुक्षेत्र प्राप्यते ततोऽल्पसंख्यकैम्मूर्तसंयोगैः प्रयागः प्राप्यतेऽत: पाटलीपुत्रात् कुरुक्षेत्रमपेक्ष्य प्रयागोऽ पर इति व्यवलियते। तत्र पाटलीपुत्रमवधिं कृत्वाल्पतर मूर्त संयोगान्तरिते प्रयागे कुरुक्षेत्रापेक्ष्ययाझुरत्वमुत्पद्यते, तच्च सामोप्यरूपम् । अतएवोक्त ते च दूरत्वसमीपत्वे इति। तयो जन्यभावतया सा समवायिकारणकत्वस्योपेतव्यत्वात् तदसमवा. यित्वस्य च मूर्त्तसंयुक्तदिक्संयोगानन्यत्र वाधाद्दिक्संयोगसिद्ध या दिशः सिद्धि
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127