Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १८ स्वसमवायिसंयुक्तसंयोगः। तेन सम्बन्धघटकः कालः सिध्यति । तनु कालस्य भूतभविष्यद्वर्त्तमानभेदेन बहुत्वात् कुत एकत्वमिति चेन्न उपाधिभेदेन भेदप्रत्ययात् । कालोपाधयो रविक्रियादिरूपा भिन्ना एव ॥ १० ॥ ॥ विवृतिः ॥ • अथ भावेषु क्रमप्राप्तस्याप्रत्यक्षस्य कालस्यानुमानसाध्यात्वमुपादपितु भूमिकामारचयन्नाह परत्वापरत्वे इत्यादि । द्विविधयोरपितयोरग्रे विभागस्यावक्ष्यमाणत्वान यूनत्वं परिहर्तुमत्र व प्रसङ्गतो विभागमाह द्विविधे इति । विद्याद्वयं दर्शयति कालिके दैशिकं चेति । कालिके कालनियन्त्रिते। दैशिके-दिङ नियन्त्रिते । कालसाधकवक्ष्यमाणानुमाने पक्षीभूतस्य परत्वोत्पादकतयाभ्युपेयत्वमाह परत्वोत्पत्तिश्चेत्यादि। कालिकेत्यादिः। उत्पन्नौ निमित्तमाह बहुतरेत्यादि । रविक्रिया-मार्तण्डपरिस्पन्दः । तथा च बहुतरमार्तण्डपरिस्पन्दान्तरितजन्मनि वृद्धशरीरे बालकशरीरमवधि कृत्वा यत् परत्वमुत्पद्यते तत्र तादृशपरिस्पन्दविशिष्ट वृद्धशरीरज्ञानं निमित्तकारणमित्यर्थः। वक्ष्यमाणरीत्या विनिगमनाविरहेणापरत्वोत्पादकतयापि पक्षस्याभ्युपेयतां सूचपितुमाहापरत्वोत्पन्निश्चेति । कालिकेत्यादिः उत्पन्नौ निमित्तमाह स्वल्पतरेति । तथाच स्वल्पतरमार्तण्डपरिस्पन्दान्तरितजन्मनि बालकशरोरे वृद्धशरीरमवधि कृत्वा यदपरत्वमुत्पद्यते तत्रतादृशपरिस्पन्दविशिष्टबालकशरीरज्ञानं निमित्तकारणमित्यर्थः। यथा घटाद्य तपन्नौ कपालादिज्ञानस्य निमित्तकारणत्वं तथेतिभावः । तत् परत्वमिति । द्विविधपरत्वर्योर्मध्ये कालिकपरत्वमित्यर्थः । ज्गेष्ठत्वमिति । वृद्धादिशरीरनिष्ठमितिभावः । ज्येष्ठत्वं प्रति समवायिकारणं स्थविरादिशरोरमसमवायिकारणं कालशरीरसंयोगो निमित्तकारणन्त्वपेक्षाबुद्ध यदिकम् । अपेक्षाबुद्धिस्तु ज्येष्ठत्वोत्पन्नावपेंक्षितबहुतररविक्रियावच्छिन्नशरीरज्ञानरूपकारणघटकीभूतबहुतरत्वजनिका ग्राह्या । तादृशापेक्षाबुद्धिनाशाच्चज्येष्ठत्वनाशः। एवं कनिष्ठत्वं प्रतिसमवायिकारणं बालकादि शरीरमसमवायिकारणं कालतच्छरीरसंयोगो निमित्तकारणन्त्वपेक्षाबुद्ध यादिकम् । अपेक्षाबुद्धिश्च कनिष्ठत्वोत्पन्नावपेक्षितस्वल्पतररविक्रियावच्छिन्नशरीरज्ञानरूपकारण. घटकीभूतस्वल्पतरत्वजनिका ग्राह्या। तादृशापेक्षाबुद्धिनाशाच्चकनिष्ठत्वनाशः । तहुक्त परत्वापरत्वप्रकरणे विश्वनाथेन 'अपेक्षाबुद्धिनाशाच्च नाशस्तेषामुदाहृतः' इति । एवं तत्परत्वमित्यत्रापि । ___भावकार्यत्वात् कालिकपरत्वापरत्वयोः कुत्रचिदसमवायिकारणत्वभुपेयम् । तत्र नसावन्मार्तण्डपरिस्पन्दानां तत्त्वं, तेषां मार्तण्डसमवेतत्वेन व्यधिकरणत्वात् । नापि रूपादीनां तत्त्वं, व्यभिचारात् । अतः पारिशेष्यान्मार्तण्डपरिस्पन्दावच्छिन्नद्र For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127