Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 25
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १६ ] रूपादौ द्रव्यारब्धत्वमस्त्विति वाच्यं रूपादेगुणत्वेन स्वसमवायिनिष्ठ-स्वसजातीयगुणारब्धत्वनियमात् । अतएव कणादसूत्रम् 'द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम्' 'द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्' इति । पक्षहेतुसाध्यान् प्रदर्श्य दृष्टान्नं प्रदर्शयितुमुदाहरणमुपन्यस्यति बहिरिन्द्रियवेद्य यदित्यादि । उदाहरणघटकविधयैव दृष्टान्तोपन्यासस्य सम्भवादिति भावः । पक्षहेतुसाध्यदृष्टान्तज्ञानसाध्यमित्युक्तं, तत्र के पक्षादय इत्याकांक्षायां तानिर्दिशति अत्र त्रसरेणुः पक्ष इत्यादि। - त्रसरेणुपक्षकोक्तानुमानेन सिद्ध कष्ठतोऽभिदधाति अनेनेत्यादि । सिध्यतीति । सिद्धिरनुमितिस्तद्विषय इत्यर्थः। साध्यघटकसावयवद्रव्यत्वेन द्वयणुकस्य तदवयवत्वेन च परमाणोः सिद्धिरिति भावः ॥८॥ ॥ सर्कामतम् ॥ आकाशवायू शब्देन स्पर्शेन चानुमीयेते। शब्दो द्रव्याश्रितो गुणत्वात् यथा घट(रूपम् । अनेन द्रव्यान्तरवाधात् शब्दाश्रयत्वेनाकाशं सिध्यति । पृथिव्यादिश्यावृत्तिरयं स्पर्शो द्रव्याश्रितो गुणत्वादित्यनुमानेन द्रव्यान्तरवाधात् स्पर्शाश्रयत्वेन वायुः सिध्यति ॥६॥ विवृतिः ॥ पृथिव्यप्तेजसां सिद्धिप्रकारमभिधाय वाय्वाकाशयोरुद्भूतरूपादिराहित्येन प्रत्यक्षस्य प्रमाणत्वासम्भवादनुमानसाध्यत्वं प्रदर्शयितुमाहाकाशवायू इति। यद्यप्यत्र 'अल्पस्वरतरं तत्र पूर्वम्' इत्यनुशासनाद्वायुशब्दस्य पूर्वनिपातः समुचितस्तथापि 'यच्चाञ्चितं द्वयोः' इति विशेषानुशासनाद्विभुत्वेनाकाशस्यार्चितत्वादाकाशशब्दः प्रागभिहित इनि बोध्यम् । वायोः परमाण्वादिभेदसत्त्वेऽप्यप्रत्यक्षत्वानोक्तरीत्या सिद्धिः सम्भवतीत्यत्र वायोन्निवेशः। शब्देन स्पर्शेन चानुमीयेते इति । अत्र तृतीयार्थः प्रयोज्यत्वं, स्पर्शशब्दश्च विजातीयस्पर्शपरः । अतएवाग्रे पृथिव्यादित्रयावृत्तिः स्पर्शः पक्षतया प्रवेशितः। तथा च शब्द-विजातीयस्पर्शपाक्षिके येऽनुमिती तद्विषयीभूतावाकाशवायू इति समुदितार्थः। तेन तयोर्वाय्वाकाशानुमाने लिङ्गत्वासम्भवेऽपि न क्षतिः। तत्राकाशसाधकानुमानप्रकारमाह शब्दो द्रव्याश्रित इति । आश्रितत्वमात्रस्य साध्यत्वे सिद्धसाधनं स्यादतो द्रव्यपदम् । एतेनानुमानेन पृथिव्यादिसिद्धिः कथं न स्यादित्याशङ्का निरसितुमाह द्रव्यान्तरबाधादिति । तथाहि शब्दस्याकारणगुणपूर्वकप्रत्यक्षत्वात् क्षित्यप्तेजोवायुगुणत्वबाधः। न चात्राप्रयोजकत्वमिति वाच्यं शब्दो यदि For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127