Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १७ ] स्पर्शवद्विरोषगुणः स्यान्नदा नारमन्दादिभेदेनानुभूयमानो न स्यादेकस्मिन्नवयविनि रूपादेचित्र्येणाननुभूतत्वादित्यनुकूलतकसम्भवात् । एवं विशेषगुणत्वात् कालदिङ मनोगुणत्वस्य वहिरिन्द्रियग्राह्यत्वादात्मगुणत्वस्य च शब्दे वाधोञ्जयः। तत्र कालादिगुणत्वाभावसाधने शब्दो यहि कालदिङ मनोगुणः स्याद्विशेषगुणो न स्यादित्यनुकूलस्तर्कः। न च शब्दे विशेषगुणत्वाभाव दृष्ट इति वाच्यं चक्षुर्ग्रहणायोग्यवहिरिन्द्रियग्राह्यजातिमत्त्वेन तस्य विशेषगुणत्वसिद्धः। आत्मगुणत्वाभावसाधने च शब्दो यद्यात्मगुणः स्यादहं सुर्खात्यादिवदहं पूर्येऽहं शब्दवानित्यादिबुद्धिः स्यादित्यनुकूलस्तों बोध्यः। न च शुभमाकाशं नीलं तम इत्यादि प्रतीतेः शुक्लादिरूपवत्त्वस्य गगणसाधर्म्यत्वे तस्य प्रत्यक्षप्रमाणमेयत्वमेव स्यात् किमनुमानप्रयासेनेति वाच्यं ऊद्ध वं विच्छुरितानां शुक्लभास्वराणामरुणतेजसामुपल्लम्मनेन श्रु भूत्वस्य, तथा सुमेरुदक्षिणांशावस्थितेन्द्रनीलमणिमयशिखरविच्छुरितप्रभयाच नीलत्वस्य नमसि दूरत्वदोषेण भूमात्। शब्दाश्रयत्वेनेति । पारिशेष्यादित्यादिः । अथ पवनसाधकं विजातीयस्पर्श पक्षकमनुमानमभिनीयदर्शयति पृथिव्यादित्रयावृत्तिरयं स्पर्श इति। अपाकजानुष्णाशोतस्पर्श इत्यर्थः। एतदमिप्रायेणैवायमिति पदमुपात्तम् । पृथिवीस्पर्शस्य पाकजत्वाज्जलीयतेजसस्पर्शयोस्तु शीतोष्णत्वात्तत्परिचायकतैव पृथिव्यादित्रयाबृत्तिरित्युक्त सिद्धसाधनवारणाय । तत्र साध्यमाह द्रव्याश्रित इति । सिद्धसाधनवारणाय द्रव्येति । वाधादिवारणायाश्रित इति । द्रव्यान्तरवाधादिति । अनुभूयमानविजातीयस्पर्शस्योतानुमानेन द्रव्याश्रितत्व सिद्धौ तदाश्रस्य रूपराहित्यातूक्षित्यादित्रयात्मकत्वस्य स्पर्शवत्वाद्गगणादि पञ्चकात्मकत्वस्य च वाधाद्वाधात्मकस्याष्टद्रव्यातिरिक्तद्रव्यस्य सिद्धिरितिभावः । न च वायुः प्रत्यक्षः स्पर्शाश्रयत्वादित्यनुमानेन कायोः प्रत्यक्षप्रमाणसाध्यत्वसिद्धरनुमानस्य तत्र प्रमाणत्वानुधावनं व्यर्थमिति वाच्यं उद्धृतरूपवत्त्वस्योपाधित्वात् । न च रूपाद्यन्तर्भावेण साध्याव्यापकत्वान्नास्योपाधित्वमितिवाच्यं पक्षधर्मवहिव्यत्वावच्छिन्न साध्यव्यापकत्वेनोपाधित्वसम्भवात्। वायुः सिध्यतीति । विलक्षणशब्दधृत्यादिनापि वायुसिद्धिरितिबोध्यम् ॥ ६ ॥ || तर्कामृतम् ॥ काले प्रमाणं यथा-परत्वापरत्वे द्विविधे कालिके दैशिके च 1 परत्वोत्पत्तिश्च बहुनररविकियाविशिष्टशरीरज्जानात् । अपरत्वोत्पत्तिश्च स्वल्पतररविक्रियाविशिष्टशरीरञानात् । तत्परत्वं ज्येष्ठत्वमपरत्वं कनिष्ठत्वम् । तदनुमानं यथा-परत्वजनकं बहुतररविक्रियाविशिष्टशरोरञानमिदं परम्परासम्बन्धघटकसापेक्षं साक्षात्सम्बन्धाभावे सति विशिष्टज्ञानत्वाल्लोहितः स्फटिक इति प्रत्ययवतुः। परम्परासम्बन्धश्च For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127