Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ १५ ]. णान्तरस्य साधकत्व कल्पनानौचित्याशयेनाह प्रत्यक्षमेवेति । लौकिकप्रत्यक्षमेवेत्यर्थः । एवकारेणालौकिकप्रत्यक्षानुमानादेर्व्यवच्छे दः । द्रव्याणां प्रत्यक्षाप्रत्यक्षद्रव्यभेदभिन्नानां मध्ये प्रत्यक्षद्रव्ये प्रमाणमुक्त्वाऽप्रत्यक्षद्रव्ये तदाहातीन्द्रिये इति । अस्मदादीन्दियाग्राह्य महत्त्वादिशून्ये इत्यर्थः। तेन परमाण्वादेर्योगिमानसप्रत्यक्षगोचरत्वेऽपि न क्षतिः। सम्भवदिन्द्रियसन्निकर्षे विषय एव प्रत्यक्षस्य प्रमाणत्वादतीन्द्रिये चेन्द्रियसन्निकर्षस्यासम्भवेन प्रत्यक्षस्य प्रमाणत्वासम्भवादाहानुमानमिति । प्रमाणमित्यत्रान्वेति । तदिति । अनुमानमित्यर्थः। विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुत्वात् स्वार्थानुमान इव परार्थानुमानेऽपि पक्षहेतुसाध्यज्ञानं कारणं वाच्यं 'व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिस्तत्करणमनुमानं, तच्च लिङ्गपरामर्शः' इति मणिकृतोक्तत्वात्, किञ्च सहचारदर्शनाधिष्ठानतया स्वार्थानुमान इवोदाहरणोपयोगितया परार्थानुमानेऽपि दृष्टान्तस्य हेतुत्वात्तद्विषयकज्ञानस्य हेतुत्वमुपेतव्यमित्येतत् प-लोच्याह पक्षहेत्वित्यादि। सिषाधयिषितसाध्यधर्मा धर्मों पक्षः। पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः। साधनीयं-साध्यताख्यविलक्षणविषयतावत् साध्यम् । यत्रार्थे लौकिकपरीक्षकाना बुद्धिसाम्य सोऽर्थो हष्टान्नः । स्वार्थपरार्थभेदेनानुमान विध्यस्य वक्ष्यमाणत्वादाह विशेष इति । वक्ष्यतइति । अनुमानखण्डे इति शेषः। अणुद्वयणुकयोरतीन्द्रियत्वात्तत्रानुमानमभिलपति त्रसरेणुरिति । यद्यपि त्रसरेण्वाद्यात्मकस्यापि वायोर्गगनादीनाञ्चातीन्द्रियत्वान्नत्रानुमानस्य प्रमाणत्वं प्रदर्शयितु युक्तं न केवलमणुद्रयणुकयोस्तथापि पृथिव्यादिचतुष्टयस्यैवाणुद्वयणुकयोः सत्त्वात् प्रथमतस्तयोरेवानुमानमभिहितम् । अतएवोत्तरग्रन्थे ‘आकाशवायू' इत्यादिना तेषामनुमेयत्वं वक्ष्यति । त्रसरेण्वाद्यन्त्यावयव्यन्तेषु द्रव्येषु प्रत्यक्षस्यैव प्रमाणत्वात्त्रसरेणोः पक्षतयोल्लेखः । त्रसरेणुश्च जालसूर्यमरीचिस्थो दृश्यते महत्त्वोद्भूतरूपवत्त्वादिति भावः। सावयवद्रव्यारब्ध इति । सावयवत्वमवयवसमवेतत्वमवयवत्वञ्च द्रव्यसमवायिकारणत्वम् । द्रव्यारब्धत्वञ्च द्रव्यनिष्ठसमवायिकारणतानिरूपितद्रव्यनिष्ठकार्यतावत्त्वम् । द्रव्यारब्धत्वस्य साध्यत्वेऽर्थान्तरं स्यादतः सावयवेति । सावयवत्वस्य साध्यत्वे परमाणुसिद्धिर्नस्यादतो द्रव्यारब्धेति। सावयवारब्धत्वस्याद्व्ये वाधाद्रव्येति। वस्तुतस्तु सावयवत्वस्य वा द्रव्यारब्धत्वस्य वा सावयवारब्धत्वस्यवाऽभाववति परमाण्वादौ हेत्वधिकरणताया असत्त्वाव्यमिचाराप्रसक्तेस्तत्तन्मात्रम्य साध्यत्वे व्यर्थविशेषणत्वं दोष इति न शङ्कयं साध्यांशे व्यर्थविरोषणताया अदोषत्वादिति ध्येयम् । बहिरिन्द्रियवेद्यद्रव्यत्वादिति। मनोभिन्नेन्द्रियग्राह्यद्रव्यत्वादित्यर्थः । आत्मनि व्यभिचारवारणाय बहिः पदम् । रूपादौ व्यभिचारवारणाय द्रव्यपदम् । न च For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127