Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १४ ] हत्त्वात्तन्महत्त्वस्य च द्व यणुकगतत्रित्वसंख्याजन्यत्वान्महत्त्वानुपपत्तेः, नापि द यणुकं विनैव संयुक्तपरमाणुत्रयात्, महदारम्भकत्वेन त्रसरेण्ववयवस्य सावयवत्वनियमादत आह संयुक्तद्वयणुकत्रयादिति । चतुरणुकादोति। संयुक्त श्चतुर्भिस्त्रसरेणुभिरित्यादिः। आदिना पञ्चाणुकादेरुपग्रहः। घटस्यावयवत्वासिद्ध राह घटस्त्वन्त्यावयवीति । चरमावयवीत्यर्थः। तत्त्वञ्च समवायेन द्रव्यवद्भिन्नत्वम् । इदमुपलक्षणमनया रीत्या चतुरणुकादिक्रमेण महती पृथिवी, महज्जलम्, महत् तेजः, महान्वायुरुत्पद्यते इति कार्यरूपपृथिव्यादिचतुष्टयात्मकं जगज्जायते। एवं व्राह्मशतवर्षान्ते परमेश्वरस्य सञ्जिहीर्षया परमाणुक्रियया परमाणुद्वयसंयोगनाशतो द्वयणुकादिनाशकमेण महतां पृथिव्यादिचतुष्काणामन्त्यावयव्यन्तानां नाशात् परमाणुपर्यवसानं जगद् भवति। तदेव प्रलय इत्युच्यते । पुनश्चानादिनीवविचित्रकर्मवशादीश्वरः सृष्ट्यादिकं जगतो विधाय तन्मितकाले प्रलयं करोति 'ब्रह्मणो वर्षशतमायुः' इति श्रुतेः। स एव सृष्टिप्रलयप्रवाह इत्युच्यते । एवं प्रवाहे प्रचलति सति क्वचित्तथाभूतः कालः समायाति यत्रोक्तप्रवाहस्य महाविश्रामस्तत्र कालेन यावतां जीवकर्मणां नाशात् पुनः सृष्टिवीजाभावात् सकलजन्यात्यन्तोपुरमः । स एव महाप्रलय इत्यमिधीयते। दीधितिकृतस्तु प्रमाणाभावान्महाप्रलयो नाभ्युपगन्तव्य इति प्राहुः ॥७॥
|| तर्कामृतम् ॥ अथ द्रव्ये प्रमाणं कथ्यते। प्रत्यक्षद्रव्ये प्रत्यक्षमेव प्रमाणमतीन्द्रियेऽनुमानम् । तत्पक्षहेतुसाध्यदृष्टान्तज्ञानसाध्यम् । विशेषो वक्ष्यते । परमाणुद्वयणुकानुमानं यथात्रसरेणुः सावयवद्रव्यारब्धो बहिरिन्द्रियवेद्यद्रव्यत्वात्, वहिरिन्द्रियवेद्यद्रव्यं यद्यत् तत् सावयवद्रव्यारब्धं यथा घटः। अत्र त्रसरेणुः पक्षः, सावयवद्रव्यारब्धत्वं साध्यं, वहिरिन्द्रियवेद्यद्रव्यत्वादिति हेतुः, घटो दृष्टान्तः । अनेन द्वयणुकं परमाणुश्च सिध्यति ॥८॥
॥विवृतिः ॥ प्रमाणागोचरेऽर्थे प्रेक्षावतामप्रवृत्ते वेषु प्रथमोद्दिष्टे द्रव्ये प्रमाणाभिधित्सया प्रतिजानीतेऽथ द्रव्ये इत्यादि । प्रमाणमिति । प्रमाणत्वं प्रमितिकरणत्वं, तच्चाने व्यक्तीभविष्यति । द्रव्यत्वस्य परमाण्वादावपि सत्त्वादाह प्रत्यक्षद्रव्य इति। लौकिकप्रत्यक्षविषयोभूते महत्त्वादिविशिष्टद्रव्य इत्यर्थः । अन्यथाऽतीन्द्रियेऽप्यलौकिकप्रत्यक्षस्य प्रमाणत्वसम्भवेन तत्रानुमानस्य प्रमाणत्वं वक्ष्यमाणमसङ्गतं स्यादिति भावः। प्रत्यक्षविषये वह्न यादावनुमित्सासत्त्वेऽनुमानगम्यत्वदर्शनेऽपि तत्र तदनुमानस्य न तत्सत्त्वं प्रति प्रमाणत्वं किन्तु पूर्वोत्पन्नस्य प्रत्यक्षस्यैव, एकप्रमाणेन प्रमेयसिद्धौ तत्र प्रमा
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127