Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २६ ] भूतत्वमिति। आत्मान्यत्वे सति विशेषगुणवत्त्वमित्यर्थ। अत्र भूतत्वसमा. नाधिकरणद्रव्यत्वापरजातिमत्त्वं विवक्षणीयम् । तेनोत्पत्तिकालावच्छिन्नघटादौ नाव्यान्ति । क्रियावत्त्वमूर्त्तत्वे इति । साधर्म्य इति शेषः। अत्र क्रियावत्त्वपदेन क्रियासामानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वरूपोऽर्थों विवक्षणीयः । तेनानुत्पन्नक्रिय पृथिव्यादौ नाव्याप्तिः। मूर्त्तत्वं परिच्छिन्नपरिमाणवत्त्वम् । तदपि तत् समानाधिकरणद्रव्त्वव्याप्यजातिमत्त्वरूपं विवक्षणीयम् । अन्यथाद्यक्षणावच्छिन्नघटादावव्याप्त यायत्तेः । आकाशकालदिगात्ममनसां गुणसमवायिकारणत्वेपि नित्यत्वादिजातीयद्रव्ययोः समवायिसमवेतभावासिद्धश्चाह-पृथिव्यप्तेजोवायव इति । अन्त्यावयविभिन्ना इत्यादिः। तेनान्त्यावयविषु नाव्याप्तिः। गुणसमवायिकारणत्वस्याकाशादिसाधारणत्वादाहु-द्रव्येति । कालस्येत्यादि। संयोगेन मूर्तस्य समवायादिना द्रव्यत्वादेश्चकाले सत्त्वेऽपि न तेन तेन सम्बन्धेन सर्वाधिकरणत्वं सम्भवत्यत आह–कालिकसम्बन्धेनेति। कालिकविशेषणतासम्बन्धेनेत्यर्थः। सर्वाधिकरणत्वमित्यत्र सर्वपदं कालत्वावच्छिन्ने तरपरं। तेन काले कालाधिकरणत्वविरहेऽपि नाव्यप्तिः। न च जन्यमात्रस्यैव कालोपाधित्वाद् यथा श्र तमेव सम्यगिति वाच्यं तथात्वेऽप्यष्टद्रव्यातिरिक्तद्रव्यात्मककालस्य स्वाधिकरणत्वविरहात् ।
दिश इत्यादि। संयोगसमवायादिना सर्वाधिकरणत्वविरहादाह-दैशिकसम्बन्धेनेति। दिक्कृतविशेषणतासम्बन्धेनेत्यर्थः। सर्वाधिकरणत्वमिति। अत्रापि पूर्ववदर्थ ऊहनीयः ॥२४॥
। इतिद्रव्यनिरूपणविवृतिः ॥
॥ तर्कामृतम् || अथ गुणाः कथ्यन्ते । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाश्चतुर्विशति गुणाः। तच्च रूपत्वादीनि सर्वाण्येव जातयः। रूपं पृथिवीजलतेजो वृत्ति। तच्च शुक्लकृष्णरक्तपीतिचित्रादिभेदेन बहुविधं पृथिवीवृत्ति। अभास्वरशुक्लरूपं जलवृत्ति। शुक्लभास्वरं तेजो वृत्ति। रसः पृथिवीजलबृत्तिः। तत्र मधुरलवणकटुतिक्ताम्लकषायभेदात् षविधो रसः पृथिव्याम् । जले मधुरएव रसः। गन्धो द्विविधः सुरभिरसुरभिश्च पृथिवीमात्रवृत्तिः। स्पर्शः पृथिव्यादिचतुष्ट यवृत्तिः । स च विविधः शीत उष्णश्चानुष्णाशीतश्च । अनुष्णाशीतस्पर्शो वायुपृथिव्योः । जले शीतः। तेजसि उष्णः ॥२५॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127