Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ३३ ] यद्यपि विशेषगुणप्रत्यक्षन्वस्य कार्य्यतावच्छेदकत्वे वुद्धिप्रत्यक्षत्वादिना विविधकार्यकारणभावाकल्पनाल्लाधवं तथापि कारणतावच्छेदकगौरवमाशङ्कय तथा कार्यकारणभावाकल्पनादाह सुखादिप्रत्यक्ष इति । आदिना दुःखादेः परिग्रहः। स्ववृन्निसुखत्वादिकमेवेति । प्रयोजकमित्यनेनान्वथः । आदिना दुःखत्वादेरुपग्रहः । अत्रापि पूर्ववत् स्ववृत्तिपदोपादानप्रयोजनमुन्नेयम् । प्रयोजकत्वञ्चसुखत्वादेः समवायसम्बन्धेन वाच्यम्, तेन कालिकेन घटादिवृत्तित्वेऽपि न व्यभिचारः। ___ अथावशिष्यमानशब्दस्यापि प्रयक्षविषयत्वमाहान्त्याद्य त्यादि । योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नगुणनाश्यत्वनियमादुत्तरक्षणे शब्दानुत्पादादन्तिमशब्दस्य स्वोत्पत्तिद्वितीयक्षणनाश्यत्वमुपेयम् । नथाच तदुत्पादपूर्वोत्तरक्षणे तस्यासत्वादुत्पत्ति क्षणतः पूर्वं विषयेन्द्रियसन्निकर्ष विरहेणान्तिमशब्दस्य प्रत्यक्षत्वं न सम्भवति, एवं वीचितरङ्गन्यायेन कदम्वमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पादक्रमेण श्रवणेन्द्रियदेशावच्छेदेन जातस्य प्रत्यक्षनियमादादिमशब्दस्य च तद्देशावच्छेदेनानुत्पन्नत्वात् प्रत्यक्षत्वं न सम्भवतीत्याशयेनोक्तमन्त्याद्यशब्दौ विहायेति । माद्यशब्दस्येत्युपलक्षणं द्वितोयादिशब्दस्यापि तद्देशावच्छेदेनानुत्पन्नत्वेऽप्रत्यक्षत्वं बोध्यम् । वस्तुतस्तु कार्यसहभावेनेन्द्रियार्थसन्निकर्षस्य हेतुत्वोपगमेऽन्तिमशब्दस्य, श्रवणेन्द्रियदेशावच्छे देनोत्पादे चाद्यशब्दस्य च प्रत्यक्षत्वे वाधकाभाव इति ध्येयम् ॥२०॥
॥ तर्कामृतम् ॥ अथ गुणोत्पत्तिप्रक्रिया। अवयववृत्तिविशेषगुणा अवयविनि स्वसमानजातीय गुणानारभन्ते। पृथिवीविशेषगुणाः पाकजाः। ते द्विविधाः पाकप्रयोज्याः पाकजन्याश्च । कारणगुणप्रक्रमजन्याः पाकप्रयोज्याः अग्निसंयोगजन्या द्वितीयाः ॥२॥
॥ विवृतिः ॥ द्रव्य हव गुणेऽप्युत्पत्तिप्रक्रियाया अवश्यमभिधानीयत्वादाह गुणोत्पत्तीति । जन्यगुणोत्पत्तीन्यर्थः। तेनोत्पत्तेरप्रसिद्धत्वान्नित्यगुणेषु नाव्याप्तिः। अत्रोत्पत्तिराद्यक्षणसम्बन्धः। आद्यक्षणत्वञ्च स्वाधिकरणक्षणध्वंसानधिकरणत्वे सति स्वाधिकरणक्षणप्रागभावानधिकरणस्वाधिकरणक्षणत्वम् । उत्पत्तिप्रणालींप्रदर्शयति अवयवेत्यादि। अवयवत्वं द्रव्यसमवायिकारणत्वम् । अवयवनिष्ठसामान्यगुणानामवयविनिष्ठसामान्यगुणानारम्भकत्वादुक्तं विशेषेति। तन्तुगतरूपादेर्धटाद्यवयविनिष्ठरूपाद्यनारम्भकत्वादाहावयविनीति । स्वसमवेतावयविनीत्ययः। विजातीयगुणानामनारम्भकत्वादाह
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127