Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
[ ३५ ]
॥ तर्कामृतम् ॥
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
श्यामघटेऽग्निसंयोगेन श्यामरूपनाशानन्तरं घटे रक्तरूपमुत्पद्यते इति नैयायिकमतम् । अग्निसंयोगेन परमाणौ पाके सति परमाणुषु रक्तरूपमुत्पद्यते, पुनर्घटोत्पत्तौ सत्यां कारणगुणक्रमेण घटे रक्तरूपमुत्पद्यते इनि वैशेषिकमतम् ||२२||
|| fagfa: 11
पाकस्य साक्षात्कारणत्ववादिनैयायिकमतमुदाहरति श्यामघट इत्यादि । समारour आमघटे वह्निना परमाणूनामभिघाते नोदने वा जाते सति तस्य नियमतो द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागजनक क्रियोत्पादकत्वे मानाभावादवयविनां सच्छिद्रत्वाच्चान्तः प्रविष्टैर्व्वह्निसूक्ष्मावयवैः परमाणुमारभ्य श्यामघटस्वरूपावयविपर्य्यन्तं युगपदेव श्यामरूपनाशरक्तरूपोत्पादाववयविनाशं विनैवेति नैयायिकाशयः । न चावयविनां सच्छिद्रत्वे मानामाव इति वाच्यमन्तन्निहित तैलादेर्घटादितः स्यन्दनात् ।
पाकस्य परम्परया हेतुत्वं वदतां वैशेषिकाणां मतमुदाहरत्यग्निसंयोगेनेत्यादि । अयमभिप्रायः– अतिशय वेगवता तेजसा परमाणूनामभिघाते नोदने वा जाते सति तेष्वबश्यं क्रिया जायते, ततः क्रियातो विभागः, विभागादारम्भकसंयोगनाशः, ततोऽवश्यं यावदवयविनाशः कल्पनीयः कथमन्यथास्थाल्यामाहितानां तण्डुलादीनामधवह्निसन्तापेन भर्ज्जनात्तदानीमेवनाशः परिदृश्यते । ततश्चस्वतन्त्र ेषु परमाणुषु तेनैव तेजः संयोगेन श्यामरूपनाशरक्तरूपोत्पत्ती, ततोऽदृष्टादिघटितसामग्रीवशाद्रक्तपरमाणुद्वयसंयोगादिना रक्तद्वयणुकादिक्रमेण यथावस्थितभावेन रक्तघटपर्य - नूतमुत्पद्यते । एतन्मते ऽनन्तावयवि - तन्नाशप्रागमावादिकल्पन गौरवं 'सोऽयं' घटः ' इत्यादिप्रत्यभिज्ञायानुपपत्तिश्चेति ध्येयम् ॥ २२॥
॥ तर्कामृतम् ॥
कपालं नीलमेकञ्चपीतं यदि तदा घटे चित्ररूपमुत्पद्यते । रसादावेवं सत्यवयविनि रसो न जायते चित्ररसाद्यस्वीकारात् । गुरुत्वस्थितिस्थापकयोश्च कारणगुणप्रक्रमजन्यता । द्वित्वादयोऽपेक्षावुद्धिजन्याः । परिमाणं चतुव्विधं - अणुमह तह्रस्वं दीर्घञ्च तिकारणगुणप्रक्रमजन्यम् । स्वावयवबहुत्वञ्च महत्त्वजनकं यथा त्रसरेणूनाम् । अवयवानां शिथिलः संयोगः प्रचयोऽपि तज्जनकः, यथा तुलस्य परिमाणम् ||२३||
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127