Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १३ ]
णत्वमावश्यकमित्याह तज्ज्ञानेत्यादि । विषयितासम्बन्धेन कार्य्यमात्र प्रति तादात्म्ये-नैषां कारणत्वमिति भावः । जन्यमात्रस्यैवोत्पत्तेः प्रागभाव उत्पत्या च तस्य विनाशोsनुभवसिद्धोऽतः स्वतन्त्रान्वयव्यतिरेकाभ्यां प्रागभावस्य कारणताया अभ्युपगन्तव्य -- त्वादाह प्रागभावेति । स्वनिष्ठप्रतियोगितानिरूपकत्वं कार्य्यतावच्छेदकस्तादात्म्यञ्च कारणतावच्छेदकः सम्बन्ध इति बोध्यम् ।
'इह तन्तौ पटो भूतः' इत्यादिप्रत्ययात्तन्त्वादेखि 'इदानीं पटो भवति' 'तदानीं पट उत्पद्यते' 'युगपद् घटपटादय उत्पद्यन्ते' इत्यादि प्रत्ययात् तत्तत् कार्योत्पत्त्यधिकरणत्वं तत्तत्कालस्यानुभूयते । ततश्च तदुत्पत्त्यधिकरणस्य तदुत्पत्तिकारणत्वनियमात् तदुत्पत्तिकारणत्वस्य च तत्कारणत्वव्याप्यत्वात्तत्कार्य्यं कारणत्वं तत्तत्कालस्य सिद्धम् । एवञ्च यद्विशेषयोरितिन्यायेन कार्य्यसामान्ये कालसामान्यस्य कारणत्वसिद्धिरित्याशयेनाह कालेति । तदुक्तं महर्षिणा कणादेन 'नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति' इति । अत्र कार्य्यतावच्छेदकः सम्बन्धः कालिकः, कारणतावच्छेदकः सम्बन्धस्तु तादात्म्यम् ।
'इह कपाले घटो जातः' इत्यादिप्रत्ययेन यथा कपालस्य घटोत्पत्त्यधिकरणतया घटकारणत्वं तथा 'पूर्व्वस्यां पटो जातः' 'प्रतीच्यां घट उत्पन्नः' इत्यादिप्रत्ययेन पूर्व्वा - दिदिशस्तत्तत्कार्य्योत्पत्त्यधिकरणतया तत्तत्कार्य्यकारणत्वमनुभवसिद्धम् । तथाचोक्तन्यायेन कार्य्यसामान्ये दिक्सामान्यस्य कारणता कल्पनीयेत्याशयेनाह दिगिति । अत्र कारणतावच्छ दकः सम्बन्धस्तादात्म्यम्, कार्य्यतावच्छ ेदकः सम्बन्धस्तु दैशिकविशेषणता ।
अदृष्टस्य जीवविशेषगुणत्वाज्जीवानाञ्चासंख्यत्वाज्जन्योत्पादमात्रस्य सवीजप्रयोजनकत्वादुपभोगस्यैव च प्रयोजनत्वाद् यत्काय्यं येनोपभुज्यते तत्कार्य्यस्य तददृष्टवीजकत्वं वाच्यम् । एवञ्च दानीन्तनोत्पन्नघटादेरपि भोक्त्रदृष्टजन्यत्वात् सर्व्वत्र कार्येऽदृष्टस्य कारणताभ्युपेया, कथमन्यथा चैत्र णैतत् कार्य्यमुपभुज्यते नतु मैत्रणेति दृश्यते इत्याशयेनाहादृष्टानीति । वस्तुतस्त्विदमुपलक्षणं 'सापेक्षत्वादनादित्वाद्वै -- चित्र्याद्विश्ववृत्तितः । प्रत्यात्मनियमाद् भुक्तेरस्ति हेतुरलौकिकः ॥ इत्याचाय्र्य्योक्तमप्यत्रानुसन्धेयम् । अत्र तु कालिकसम्बन्धेनैव कार्य्यकारणभावस्य सुवचत्वात् कार्य्यकारणतावच्छेदकसम्बन्धत्वं कालिकस्येति ध्येयम् ।
द्रव्योत्पत्तिप्रक्रियायाः प्रतिज्ञातत्वादुत्पत्तिनिर्व्वाहकतया कारणानि निरूप्येदानीं प्रतिज्ञातार्थमुपपादयितुमाह परमाणुद्वयसंयोगादिति । ईश्वरीयचिकीर्षाजनितपरमाणुकिययेत्यादिः । संयुक्तद्वयणुकद्वयात् त्रसरेणोरुत्पादो न सम्भवति त्रसरेणोर्म-
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127