Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ११ ] असमवायिकारणं लक्षयति समवायिकारणे सम्बद्धमिति। समवाय-स्वसमवायिसमवेतत्वान्यतरसम्बन्धेन वृत्तिमत् सदित्यर्थः। तथा च समवायसम्बन्धेन कार्याधिकरणवृत्तिप्रोक्तान्यतरसम्बन्धावच्छिन्नात्यन्ताभावप्रतियोगितानवच्छे दकधर्मवत्त्वमसमवायिकारणत्वमिति भावः । न च समवायसम्बन्धेन घटाधिकरणे प्रोक्तान्यतरसम्बन्धेन द्रव्यत्वादेरप्यभावस्यासत्त्वादतिप्रसङ्ग इति वाच्यं द्रव्यत्वत्वादिपुरष्कारेणान्यथासिद्धत्वात्। अथवात्र सर्वत्र कारणतावछेदकः सम्बन्धः समवायः, कार्य्यतावच्छेदकसम्बन्धस्तु क्वचित् समवायः क्वचिच्च स्वसमवायिसमवायः। तथा च समवायस्वसमवायिसमवायान्यतरसम्बन्धेन कार्याधिकरणवृत्तिसमवायसम्बन्धावच्छिन्नप्रतियोगिताकात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं तदिति ज्ञेयम् । अत्रापि तादृशप्रतियोगितानवच्छेदकधर्मान्तरपुरष्कारेणान्यथासिद्धत्वाददोष इति ध्येयम् । समवायसम्बन्धेन लक्ष्यमुदाहरति परमाणुद्वयेति । परम्परयोदाहरति कपालरूपमिति। समवायिकारणे सम्बद्धत्वस्यासमवायिकारणत्वघटकत्वे कपालादिसम्बद्धानां कपालचक्रसंयोगादीनामपि घटाद्यसमवायिकारणत्वापत्तिः। न चेष्टापत्तिः, तन्नाशे घटाद्यनाशादसमवायिकारणनाशस्य कार्यद्रव्यनाशकत्वनियमात् । एवं वेगादेरभिधाताद्यसमवायिकारणत्वापत्तिः । अतस्तत्तत्काऱ्यांसमवायिकारणलक्षणे तत्तभिन्नत्वं निवेशनीयन्नतु सामान्यलक्षणे तत्तद्देदो निवेश्यस्तस्य तस्य कार्यान्तरासमवायिकारणत्वात् किन्तु ज्ञानादेरिच्छाद्यसमवायिकारणत्वं वारपितु सामान्यलक्षणे ज्ञानादिभिन्नत्वं प्रवेश्यमात्मविशेषगुणानां कुत्रापि कार्येऽसमवायिकारणत्वविरहादिति संक्षेपः । निमित्तकारणं लक्षयत्येतदुभयभिन्नमिति। तत्तत् कार्य प्रति तत्तत्समवाय्यसमवायिभिन्नमित्यर्थस्तेनोभयभिन्नत्वस्य प्रत्येकं सत्त्वेऽपि समवायिकारणत्वस्य असमवायिकारणत्वस्य चानुगतस्य विरहेऽपि च न क्षतिः। यत्र च ध्वंसादिकार्थे समवायिकारणाद्यप्रसिद्धिस्तत्र भिन्नान्तमनुपादेयमेव । तत्रत्यनिमित्तकारणलक्षणन्तु कारणसामान्यलक्षणमेव लक्ष्यभेदेन लक्षणभेदस्यादोषत्वात्। अतएव वक्ष्यति ग्रन्थकारः ‘एतत् कारणत्रयं भावकार्य्यमात्रस्य' इति । केचित्त, एतदुभयभिन्नमित्यस्य स्वाश्रयसमवायित्वसम्बन्धावच्छिन्नकार्यताप्रतियोगिकाभाववत्त्वे सति स्वाश्रयासमवायित्वसम्बन्धावच्छिन्नकार्य्यताप्रतियोगिकाभाववदित्यर्थः। एवञ्च ध्वंसादिकार्थे समवाय्यसमवायिकारणयोरप्रसिद्धत्वेऽपि अन्यत्र प्रसिद्धोक्तसम्बन्धद्वयावच्छिन्नकार्य्यताप्रतियोगिकाभावद्वयवत्त्वात् प्रतियोग्यानिमित्तकारणत्वमुपपद्यत इति वदन्ति । जगन्निमित्तत्वादीश्वरस्य निमित्तकारणत्वमुदाहरति द्वयणुके ईश्वर इति। सर्गाद्यकालीनद्वयणुकारम्भकपरमाणुद्वयसंयोगजनककर्मणोऽस्मदादिप्रयत्नजन्यत्वबाधादीश्वरस्य निमित्तत्वसिद्धिरिति भावः। नित्यस्य निमित्तकारणत्वमुक्त्वाऽनित्यस्य तदुदाहरति घटे दण्ड इति । अभावस्य For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127