Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[१] मानसलौकिकप्रत्यक्षविषय इत्यर्थः। परकीयशरीरावच्छेदेन तु प्रवृत्त्यादिनानुमेयत्वं तस्य बोध्यम् । प्रत्यक्षद्रव्याण्युक्त्वाऽप्रत्यक्षद्रव्याणि निरूपयति वाय्वाकाशेति । यद्यप्यणुद यणुकयोरप्रत्यक्षत्वाभिधानेनैव बायवीयपरमाण्वादेरप्रत्यक्षत्वमुक्तमेव तथापि सर्वेषामेवान्त्यावयव्यन्तानां वायूनामप्रत्यक्षत्वसूचनायात्र वायोः प्रवेशः। अप्रत्यक्षाणोति । बहिरिन्द्रियकरणकलौकिकप्रत्यक्षाविषयीभूतानीत्यर्थः। तेन निखिलपदार्थेषु योगिनामलौकिकप्रत्यक्षविषयत्वसत्त्वेऽपि न क्षतिः। इदमत्र भाव्यं 'चक्षुषा रूपेण घटं पश्यामि' 'त्वचा स्पर्शेन वायुगृह्णामि' इत्यादिव्यवहारात् स्वतन्त्रान्वयव्यतिरेकाभ्यां चाक्षुषप्रत्यक्ष रूपस्य, त्वाचप्रत्यक्षे स्पर्शस्य कारणत्वमुपेतव्यन्न तु वहिरिन्द्रियजद्रव्यप्रत्यक्षमात्र रूपस्य हेतुत्वं मानाभावात्। तथा च वायोरपि प्रत्यक्षत्वमेवेति नव्याः। इत्थञ्च तन्मते वायुरप्रत्यक्षो नीरूपवहिव्यत्वादित्यत्र हेतोर्बाधितत्वमुक्तरीत्या वायोः प्रत्यक्षत्वस्य सिद्धत्वात् । यत्त द्वितीयाध्याये कणादेन 'स्पर्शश्च वायोः' इतिसूत्रण वायोरनुमेयत्वमुपपादितं तच्च वायुप्रत्यक्षे विप्रतिपन्नं वोधयितुमिति दिक् । पृथिव्यादित्रयाणामात्मनश्च प्रत्यक्षत्वेऽपि कार्यकारणतावच्छेदकभेदस्य तत्रावश्यकत्वात्तथैवोपसंहरति बहिर्द्रव्येत्यादि। वहि व्वत्वं आत्मान्यद्रव्यत्वम् । आत्मप्रत्यक्षे व्यभिचारवारणाय कार्यतावच्छेदककुक्षौ वहिष्ट्र निवेशितम् । गुणादिप्रत्यक्षेऽव्यभिचारार्थ । तत्र व द्रव्यपदम्। न च प्रत्यक्षस्यात्मनि जायमानत्वात्तत्र च रूपवत्त्वविरहान्न कार्यकारणसामानाधिकरण्यमिति वाच्यं लौकिकविषयत्वस्यैव कार्य्यतावच्छेदकसम्बन्धत्वात् ॥६॥
॥तर्कामृतम् ।। अथ द्रव्योत्पत्तिप्रक्रिया। तत्रोत्पत्तिः कारणवतः। अनन्यथासिद्धनियतपूर्ववत्तिकारणम्। तत्त्वं कारणत्वम् । त्रिविधानि कारणानि-समवायिकारणासमवायिकारणनिमित्तकारणानि । यत् समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्, यथा परमाणुद्वर्यणुकस्य, कपालं घटस्य । समवायिकारणे सम्बद्ध कारणमसमवायिकारणम्, यथा परमाणुद्वयसंयोगो द्व यणुकस्य, कपालरूपं घटरूपस्य । एतदुभयभिन्नं यत् कारणं तन्निमित्तकारणम्, यथा दू यणुके ईश्वरः, घटे दण्डः। एतत् कारणत्रयं भावकार्यमात्रस्य। तत्र समवायिकारणं सर्वत्र द्रव्यमेव । असमवायिकारणं द्रव्ये गुणो गुणे गुणः कर्म च। कार्यमात्र प्रति साधारणकारणानि-ईश्वरस्तज्ज्ञानेच्छाकृतयः प्रागभावकालदिगदृष्टानि। तत्र परमाणुद्वयसंयोगाद् र् यणुकमुत्पद्यते, संयुक्तद्व यणुकत्रयात्रसरेणुः । एवं चतुरणुकादिकपालान्तं, कपालद्वयसंयोगेन घटो जायते, घटस्त्वन्त्यावयवी ॥७॥
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127