Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[८] त्वात् । नापि विम्वन्यद्रव्यग्राहकत्वं परमाण्वादेर्मनसश्च तथाविधद्रव्यत्वात्, कित्वात्मबुद्धि-सुख-दुःख-इच्छा-द्वेष-प्रयत्न-तत्तन्मात्रवृत्तिजात्यन्यपदार्थलौकिकप्रत्यक्षकरणत्वरूपं बोध्यम् । तथा च परमाणुद यणुकगगनादिपञ्चकगुरुत्वादीनामतीन्द्रियत्वाल्लौकिकप्रत्यक्षाविषयतया न काचिदनुपपत्तिः। अथ वा घ्राणादिपञ्चकान्यतमत्वमेव लाघवाद्वहिष्ट्वं वाच्यम् । मनस इन्द्रियत्वेऽप्युक्तपञ्चकभिन्नत्वादाह मनोऽन्तरिन्द्रिय मिति । अत्रान्तस्त्वं नामोक्तभेदप्रतियोगिपदार्थलौकिकप्रत्यक्षकरणत्वं प्राणाद्यन्यत्वे सतीन्द्रियत्वम्वा। .
निरवयवत्वेनाकाशादीनां तुल्यत्वेऽपि तेष्वात्मन एव प्रत्यक्षविषयत्वात् प्रत्यक्षकरणेन्द्रियनिरूपणप्रसङ्गे नाहात्मा द्विविध इति। जीवानां प्रतिदेहं भिन्नत्वाभावे चैत्रमैत्रादेर्भोगादिवैचित्र्यं बन्धमोक्षव्यवस्थादिश्च नोपपद्यतेऽत आह प्रतिशरीरं भिन्ना इति । वन्धमोक्षयोग्या इति । बन्धो मिथ्याज्ञानमनात्मन्यात्मत्वप्रकारकमात्मन्यनात्मत्वप्रकारकम्वा। मोक्षस्त्वात्यन्तिकीदुःखनिवृत्तिरिति बोध्यम् । परमात्माईश्वर इति । ईश्वरात्मनः परमत्वञ्च सुखदुःखादिराहित्यम् । तथा चेश्वराज्जीवो भिद्यते सुखादिमत्त्वादिति भावः। अत्रै कवचननिर्देशादीश्वरस्यैकत्वं बोध्यमन्यथा वैफल्यापत्तिः सृष्टाद्यनुपपत्तिश्च द्रष्टव्या ॥५॥
॥ तर्कामृतम् ॥ अथ प्रत्यक्षाप्रत्यक्षद्रव्याणि । परमाणुद यणु के प्रत्यक्षे। महदुद्भूतरूपवत्त्वं यत्र तानि पृथिवीजलतेजांसि प्रत्यक्षाणि। आत्मा च प्रत्यक्षः। वाय्वाकाशकालदिङ मनांसि तु अप्रत्यक्षाणि। वहिर्द्रव्यशप्रत्यक्षं प्रति महत्त्वे सत्युद्भूतरूपवन्त्वं प्रयोजकम् ॥६॥
॥ विवृतिः ॥ अथ विशेषप्रतिपत्त्यर्थं पुनर्द्रव्यं विचारयितुमुपक्रमते प्रत्यक्षाप्रत्यक्षेति। अप्रत्यक्षे इति। लौकिकप्रत्यक्षायोग्ये इत्यर्थो योगिनामलौकिकप्रत्यक्षगोचरत्वादिति भावः। बहिलौकिकप्रत्यक्षकारणमाह महदुद्भूतेत्यादि। अणुद्व यप्णुकयोरतिव्याप्तिवारणाय महदिति । प्राणादावनतिप्रसक्तये उद्भूतेति । वायावतिप्रसङ्गनिरासार्थमाह रूपेति । वस्तुतस्तु अत्र 'तानि पृथिवीजलतेजांसि' इत्युक्तेर्वायोरलक्ष्यत्वमेवातो महत्त्वमात्रस्य प्रयोजकत्वामिधानेऽपि न दोषस्त्र्यणुकादारभ्यान्त्यावयविपर्य्यन्तानां सर्वेषामेव पृथिव्यादित्रयाणां महत्त्ववत्त्वादिति ध्येयम् । वहिरिन्द्रियजन्यप्रत्यक्षाविषयत्वेऽपि आत्मनः 'अहं सुखी' इत्यादिरीत्या प्रत्यक्षत्वादाहात्मा चेति । प्रत्यक्ष इति । स्वशरीरावच्छेदेन
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127