Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६ ] संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अष्टौ गुणा मनसः। ज्ञानेच्छाकृतिसंख्यादिपञ्चकमष्टौ गुणा ईश्वरस्य । तथाच 'वायोर्न वैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिक्कालयोः पञ्च षड़ेव चाम्बरे महेश्वरेऽष्टौ मनसस्तथैव' ॥४॥ ___ - ॥ विवृतिः ॥ अथ साधर्म्यवैधम्म्यंप्रदर्शनार्थं कस्य द्रव्यस्य कियत्संख्यकगुणवत्त्वं साधर्म्यमिति निरूपयति तत्र रूपरसेत्यादि। न चात्र कथं गुणानामुद्देशव्यतिक्रम इति शङक्यं द्रव्यविचारस्यावशिष्यमानत्वादन गुणोद्देशस्य क्रियमाणत्वाच्च । आत्मन इति । जीवस्येत्यर्थः। ईश्वरस्य सुखादिविरहात् पृथग्वक्ष्यमाणत्वाच्च। स्वोक्तं तत्तद्रव्ये तत्तद्गुणवत्त्वंसाधयं प्राचीनसंवादेन द्रढ़यति वायोरित्यादि । प्राणभृतां-जीवानाम् । महेश्वरे-परमात्मनि ॥४॥ ॥ तर्कामृतम् ॥ पृथिवीजलतेजोवायवो द्विविधाः परमाणवः सावयवाश्च । आकाशकालात्मदिशो विभुरूपाः। मनः परमाणुरूपम् । तत्र सावयवा अनित्या इतराणि नित्यानि । सावयवा अपि त्रिविधाः शरीरेन्द्रियविषयभेदात्। मानुषं शरीरं पार्थिवम् । जलीयं शरीरं वरुणलोके प्रसिद्धम् । तैजसं शरीरमादित्यलोके । वायवीयं शरीरं वायुलोके । घ्राणेन्द्रियं पार्थिवम् । रसनेन्द्रियं जलीयम् । चक्षुरिन्द्रियं तैजसम् । त्वगिन्द्रियं वायवीयम् । श्रोत्र न्द्रियं कर्णशष्कुल्यवछिन्नं नभ प्रदेशः। एतानि पञ्च बहिरिन्द्रियाणि। मनोऽन्तरिन्द्रियम् । तेन षडिन्द्रियाणि। विषयाश्च शब्दादिरूपेण प्रसिद्धाः। आत्मा द्विविधो जीवात्मा परमात्मा च । तत्र जीवात्मानः प्रतिशरीरं भिन्ना बन्धमोक्षयोग्याः। परमात्मा ईश्वरः ॥५॥ ॥विवृतिः॥ अथोद्दिष्टद्रव्याणि विचारयितुमुपक्रमते तत्र पृथिवीजलेत्यादि । परमाणवइति एतेषां येऽविभाज्याः परमसूक्ष्मतमाश्चरमोपादानभूतास्तइत्यर्थः । सावयवा इति । अवयवाः समवायिकारणं तत्र समवेता दू यणुकाद्या अन्त्यावयव्यन्ता इत्यर्थः। आकाशादोनामवयवावयविभावासिद्ध राह विभुरूपा इति। परममहत्परिमाणविशिष्टा इत्यर्थः । सर्वत्र शब्दोत्पत्तेराकाशस्य, मूर्त्तमात्रे ज्येष्ठत्वकनिष्ठत्वोत्पत्तः कालस्य, सर्वत्र ज्ञानीत्पत्तेरात्मनः, सर्वमूर्ते दूरत्वसामीप्योत्पत्तेश्च दिशो विभुत्वमभ्युपेयमिति भावः । मनसो विभुत्वे विभुद्वयसंयोगानुपगमे आत्ममनःसंयोगासिद्धयाऽसमवायि For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127