________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ६ ] संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा अष्टौ गुणा मनसः। ज्ञानेच्छाकृतिसंख्यादिपञ्चकमष्टौ गुणा ईश्वरस्य । तथाच
'वायोर्न वैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिक्कालयोः पञ्च षड़ेव चाम्बरे महेश्वरेऽष्टौ मनसस्तथैव' ॥४॥
___ - ॥ विवृतिः ॥ अथ साधर्म्यवैधम्म्यंप्रदर्शनार्थं कस्य द्रव्यस्य कियत्संख्यकगुणवत्त्वं साधर्म्यमिति निरूपयति तत्र रूपरसेत्यादि। न चात्र कथं गुणानामुद्देशव्यतिक्रम इति शङक्यं द्रव्यविचारस्यावशिष्यमानत्वादन गुणोद्देशस्य क्रियमाणत्वाच्च । आत्मन इति । जीवस्येत्यर्थः। ईश्वरस्य सुखादिविरहात् पृथग्वक्ष्यमाणत्वाच्च। स्वोक्तं तत्तद्रव्ये तत्तद्गुणवत्त्वंसाधयं प्राचीनसंवादेन द्रढ़यति वायोरित्यादि । प्राणभृतां-जीवानाम् । महेश्वरे-परमात्मनि ॥४॥
॥ तर्कामृतम् ॥ पृथिवीजलतेजोवायवो द्विविधाः परमाणवः सावयवाश्च । आकाशकालात्मदिशो विभुरूपाः। मनः परमाणुरूपम् । तत्र सावयवा अनित्या इतराणि नित्यानि । सावयवा अपि त्रिविधाः शरीरेन्द्रियविषयभेदात्। मानुषं शरीरं पार्थिवम् । जलीयं शरीरं वरुणलोके प्रसिद्धम् । तैजसं शरीरमादित्यलोके । वायवीयं शरीरं वायुलोके । घ्राणेन्द्रियं पार्थिवम् । रसनेन्द्रियं जलीयम् । चक्षुरिन्द्रियं तैजसम् । त्वगिन्द्रियं वायवीयम् । श्रोत्र न्द्रियं कर्णशष्कुल्यवछिन्नं नभ प्रदेशः। एतानि पञ्च बहिरिन्द्रियाणि। मनोऽन्तरिन्द्रियम् । तेन षडिन्द्रियाणि। विषयाश्च शब्दादिरूपेण प्रसिद्धाः। आत्मा द्विविधो जीवात्मा परमात्मा च । तत्र जीवात्मानः प्रतिशरीरं भिन्ना बन्धमोक्षयोग्याः। परमात्मा ईश्वरः ॥५॥
॥विवृतिः॥ अथोद्दिष्टद्रव्याणि विचारयितुमुपक्रमते तत्र पृथिवीजलेत्यादि । परमाणवइति एतेषां येऽविभाज्याः परमसूक्ष्मतमाश्चरमोपादानभूतास्तइत्यर्थः । सावयवा इति । अवयवाः समवायिकारणं तत्र समवेता दू यणुकाद्या अन्त्यावयव्यन्ता इत्यर्थः। आकाशादोनामवयवावयविभावासिद्ध राह विभुरूपा इति। परममहत्परिमाणविशिष्टा इत्यर्थः । सर्वत्र शब्दोत्पत्तेराकाशस्य, मूर्त्तमात्रे ज्येष्ठत्वकनिष्ठत्वोत्पत्तः कालस्य, सर्वत्र ज्ञानीत्पत्तेरात्मनः, सर्वमूर्ते दूरत्वसामीप्योत्पत्तेश्च दिशो विभुत्वमभ्युपेयमिति भावः । मनसो विभुत्वे विभुद्वयसंयोगानुपगमे आत्ममनःसंयोगासिद्धयाऽसमवायि
For Private And Personal Use Only For Private And Personal Use Only