Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
भावाश्रितानां द्रव्यत्वादीनां षण्णामसाधारणधर्माणामेकरूपत्वविरहाद् भेदं प्रदर्शयितुमाह तत्र द्रव्यत्वेत्यादि । जातय इति । जातित्वन्तावन्नित्यानेकसमवेतत्वरूपम्। तत्र द्रव्यत्वस्य संयोगादिसमवायिकारणतावच्छेदकतया गुणत्वस्य कर्मत्वस्य च गुणकर्मनिष्ठकारणतावच्छेदकतयानुगतप्रत्यक्षविषयतया वा जातित्वमवसेयम् । न हि तत्तनिष्ठस्य कारणत्वस्य निरवच्छिन्नत्वमन्यधर्मावच्छिन्नत्वम्वा निरवच्छिन्नकारणत्वस्य तत्रासिद्धत्वादन्यधर्मस्य च न्यूनातिरिक्तवृत्तित्वेनानवच्छेदकत्वात्। सामान्यत्वादीनीति । आदिना विशेषत्वादेरुपग्रहः। उपाधय इति । अखण्डधर्मा इत्यर्थः। न च सामान्यत्वादेन कथं जातित्वमिति वाच्यम् बाधकषट्काभावस्य जातित्वनियामकत्वादत्र त्वनवस्थादेबर्बाधकस्य सत्त्वात् । तदुक्तं 'व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसंग्रहः' ॥ इति ॥ ___भावेषु द्रव्यं विभजते द्रव्याणि नवेत्यादि। पृथिव्याद्याश्रितेषु साधारणधर्मेषु जातीनामुपाध्यपेक्षया बाहुल्याल्लाघवत आदावुपाधीनेव विशिष्य निर्दिशत्याका शत्वेत्यादि । एतेनोद्देशक्रममङ्ग इति निरस्तम्। उपाधय इति । अखण्डधर्मा इत्यर्थः। एकव्यक्तिवृत्तिकत्वेन जातित्वविरहादिति भावः। अन्यानोति । आकाशस्वादिभ्यो भिन्नानि पृथिवीत्वादीनीत्यर्थः । तेषाञ्च गन्धादिसमवायिकारणतावच्छेदकतया जातित्वं सिद्धम् । आत्मत्वजातिस्तु सुखादिसमवायिकारणतावच्छेदकतया सिद्धापीश्वरे न वर्तते सुखाद्य तपादप्रसङ्गान्नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियमादित्येके । अन्ये तुक्तनियमस्याप्रयोयकत्वाददृष्टादिरूपकारणविरहादेव सुखाद्यनुत्पादोपपत्तेरीश्वरेऽप्यात्मन्वं विद्यत एव । अतएव 'आत्मा वाऽरेद्रष्टव्यः' इत्यादिश्रुतौ 'अहमात्मा गुड़ाकेशः सर्वभूताशयस्थितः' इति भगवद्वाक्ये चेश्वरमभिप्रेत्यात्मशब्दप्रयोगः सङ्गच्छत इति प्राहुः ॥३॥
॥ तर्कामृतम् ॥ तत्र रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्काराश्चतुर्दशगुणाः पृथिव्याम् । तत्रैव गन्धं विहाय स्नेहं विनियोज्य चतुर्दशगुणा जलस्य। रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारा एकादश गुणास्तेजसः। स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारा नव गुणा वायोः। शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागाः षडू गुणा आकाशस्य । संख्यापरिमाणपृथक्त्वसंयोगविभागाः पञ्च गुणाः कालदिशोः। संख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्दश गुणा आत्मनः।
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127