Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ३ . धाने अप्यार्थक्रमस्यान्यथाकन्तु मशक्यत्वाच्छन्दक्रमोऽकिंचित्कर इति भावः । इममेवार्थमनुरूपदृष्टान्तेन द्रढयति अग्निहोत्रमित्यादि । यवागूपचनाभिधायकवाक्यस्याक्रमतः पश्चादभिहितत्वेऽपि अग्निहोत्रहवने होमद्रव्य-यवागूपाकानन्तरभाविताया अव्यभिचारादार्थक्रम उपपन्न इति तात्पर्य्यम् । श्रुतेःपर्यवसितार्थमाह श्रवणेत्यादि । तत्त्वज्ञानजनकानीति । तत्त्वज्ञानं देहादिभिन्नत्वेनात्मसाक्षात्कारस्तज्जनकानीत्यर्थः । तत्र निदिध्यासनस्य साक्षाज्जनकत्वमितरयोस्तु परम्परयेति बोध्यम् । श्रुतित इति । अत्र श्रुतिपदं स्मृतीतिहासादेरप्युपलक्षकम् । तदुक्तमाचार्यैः 'श्रतो हि भगवान् वहुशः श्रुतिस्मृतीतिहासपुराणादिषु' इति । कृतात्मश्रवणस्येति । कृतमात्मश्रवणमात्मविषयकशाब्दबोधरूपं येनेत्यर्थः। श्रुतौ यो मननपदार्थस्तमाह मननं चेति। अनुमितेः पक्षप्रदर्शनायाहात्मन इति । तथा चात्मा इतरेभ्यो भिद्यते आत्मत्वात्, य इतरेभ्यो न भिद्यते स न आत्मा यथा घटादिः, न तथा चायम्, तस्मान्न तथेति व्यतिरेकिप्रयोगो वेदितव्यो य आत्मा स इतरेभ्यो भिद्यते इत्याद्यन्वयिप्रयोगो न सम्भवत्यात्ममात्त्रस्य पक्षत्वात्। पदार्थज्ञानं विना तादृशानुमानस्यासम्भवादाह तच्चेति। उक्तानुमानं चेत्यर्थः। पदार्थज्ञानस्य साध्यज्ञानसाधकत्वादाह इतरज्ञानसाध्यमिति । अभाववोधमात्रस्यैव विशिष्टवैशिष्ट्यावगाहिबोधात्मकत्वात् सुतरां विशिष्टज्ञानत्वाच्च प्रतियोगिज्ञानस्य विशेषणतावच्छे दकप्रकारकनिर्णयत्वेन वा विशेषणज्ञानत्वेन वा प्रतियोगिज्ञानत्वेन वाऽभावबुद्धौ कारणतायाः कल्पनादिनि भावः । विषयतया ज्ञानं प्रति तादात्म्येन विषयत्वेन हेतुत्वादितरज्ञानस्य विषयं दर्शयितुमाह तथाचेत्यादि । इतरदेव कियदित्येतदर्थमिति । इतरदेव कियदितिजिज्ञासाविनिवृत्त्यर्थमित्यर्थः। शिष्यावधानाय प्रतिजानीते पदार्थनिरूपणमिति । क्रियत इति शेषः । पदार्थाः-वक्ष्यमाणभावादिपदप्रतिपाद्या अर्थास्तेषां निरूपणं-प्रतिपत्त्यनुकूलव्यापार इत्यर्थः । ननु कथमेतत् संगच्छतेऽग्रे 'आत्मा द्विविधो जीवात्मा परमात्मा च' इत्यनेनात्मनो निरूपणादर्थान्तरादिति चेन्न अनात्मपदार्थानामनिरूपणे साध्यज्ञानाभावादिवात्मनोऽनिरूपणे पक्षज्ञा. नविरहादपि मननानुपपत्तेरात्मन आकांक्षितत्वात् । तथा च साध्यघटकत्वेनानात्मनां पक्षत्वेन चात्मनो निरूपणमिति हृदयम् ॥२॥ ॥ तर्कामृतम् । . सामान्यतः पदार्थो द्विविधो भावोऽभावश्च । भावः षडूविधो द्रव्यगुणकर्मसामान्यविशेषसमवायभेदात् । तत्र द्रव्यत्वगुणत्वकर्मत्वानि जातयः, सामान्यत्वादीनि उपाधयः। द्रव्याणि नव पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि । आकाशत्वकालत्वदिक्त्वान्युपाधयः, अन्यानि जातयः ॥ ३॥ For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 127