________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ ३ . धाने अप्यार्थक्रमस्यान्यथाकन्तु मशक्यत्वाच्छन्दक्रमोऽकिंचित्कर इति भावः । इममेवार्थमनुरूपदृष्टान्तेन द्रढयति अग्निहोत्रमित्यादि । यवागूपचनाभिधायकवाक्यस्याक्रमतः पश्चादभिहितत्वेऽपि अग्निहोत्रहवने होमद्रव्य-यवागूपाकानन्तरभाविताया अव्यभिचारादार्थक्रम उपपन्न इति तात्पर्य्यम् । श्रुतेःपर्यवसितार्थमाह श्रवणेत्यादि । तत्त्वज्ञानजनकानीति । तत्त्वज्ञानं देहादिभिन्नत्वेनात्मसाक्षात्कारस्तज्जनकानीत्यर्थः । तत्र निदिध्यासनस्य साक्षाज्जनकत्वमितरयोस्तु परम्परयेति बोध्यम् । श्रुतित इति । अत्र श्रुतिपदं स्मृतीतिहासादेरप्युपलक्षकम् । तदुक्तमाचार्यैः 'श्रतो हि भगवान् वहुशः श्रुतिस्मृतीतिहासपुराणादिषु' इति । कृतात्मश्रवणस्येति । कृतमात्मश्रवणमात्मविषयकशाब्दबोधरूपं येनेत्यर्थः। श्रुतौ यो मननपदार्थस्तमाह मननं चेति। अनुमितेः पक्षप्रदर्शनायाहात्मन इति । तथा चात्मा इतरेभ्यो भिद्यते आत्मत्वात्, य इतरेभ्यो न भिद्यते स न आत्मा यथा घटादिः, न तथा चायम्, तस्मान्न तथेति व्यतिरेकिप्रयोगो वेदितव्यो य आत्मा स इतरेभ्यो भिद्यते इत्याद्यन्वयिप्रयोगो न सम्भवत्यात्ममात्त्रस्य पक्षत्वात्। पदार्थज्ञानं विना तादृशानुमानस्यासम्भवादाह तच्चेति। उक्तानुमानं चेत्यर्थः। पदार्थज्ञानस्य साध्यज्ञानसाधकत्वादाह इतरज्ञानसाध्यमिति । अभाववोधमात्रस्यैव विशिष्टवैशिष्ट्यावगाहिबोधात्मकत्वात् सुतरां विशिष्टज्ञानत्वाच्च प्रतियोगिज्ञानस्य विशेषणतावच्छे दकप्रकारकनिर्णयत्वेन वा विशेषणज्ञानत्वेन वा प्रतियोगिज्ञानत्वेन वाऽभावबुद्धौ कारणतायाः कल्पनादिनि भावः । विषयतया ज्ञानं प्रति तादात्म्येन विषयत्वेन हेतुत्वादितरज्ञानस्य विषयं दर्शयितुमाह तथाचेत्यादि । इतरदेव कियदित्येतदर्थमिति । इतरदेव कियदितिजिज्ञासाविनिवृत्त्यर्थमित्यर्थः। शिष्यावधानाय प्रतिजानीते पदार्थनिरूपणमिति । क्रियत इति शेषः । पदार्थाः-वक्ष्यमाणभावादिपदप्रतिपाद्या अर्थास्तेषां निरूपणं-प्रतिपत्त्यनुकूलव्यापार इत्यर्थः । ननु कथमेतत् संगच्छतेऽग्रे 'आत्मा द्विविधो जीवात्मा परमात्मा च' इत्यनेनात्मनो निरूपणादर्थान्तरादिति चेन्न अनात्मपदार्थानामनिरूपणे साध्यज्ञानाभावादिवात्मनोऽनिरूपणे पक्षज्ञा. नविरहादपि मननानुपपत्तेरात्मन आकांक्षितत्वात् । तथा च साध्यघटकत्वेनानात्मनां पक्षत्वेन चात्मनो निरूपणमिति हृदयम् ॥२॥
॥ तर्कामृतम् । . सामान्यतः पदार्थो द्विविधो भावोऽभावश्च । भावः षडूविधो द्रव्यगुणकर्मसामान्यविशेषसमवायभेदात् । तत्र द्रव्यत्वगुणत्वकर्मत्वानि जातयः, सामान्यत्वादीनि उपाधयः। द्रव्याणि नव पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि । आकाशत्वकालत्वदिक्त्वान्युपाधयः, अन्यानि जातयः ॥ ३॥
For Private And Personal Use Only For Private And Personal Use Only