Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २ ] ॥ तर्कामृतम् ॥
अतः 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति । अस्यार्थः- मुमुक्षुणा आत्मा द्रष्टव्यः, मुमुक्षोरात्मदर्शनमिष्टसाधनमिति यावत् । आत्मदर्शनोपायः क इत्यत्राह श्रोतव्य इत्यादि । तेनार्थ क्रमेण शाब्दक्रमस्त्यक्तो भवति 'अग्निहोत्र ं जुहोति' 'यवागूं पचति' इत्यादिवत् । तथा च श्रवणमनन निदिध्यासनानि तत्त्वज्ञानजनकानीत्युक्तं भवति । अत्र श्रुतितः कृतात्मश्रवणस्य मननेऽधिकारः मननञ्च आत्मन इतरभिन्नत्वेनानुमानं तच्च भेदप्रतियोगीतरज्ञानसाध्यम्, तथाचेतरदेव कियदित्येतदर्थं पदार्थ निरूपणम् ॥२॥
॥ विवृतिः ॥
धर्मार्थकामानामखिलदुःखनिदानानिवर्त्तकत्वेन परमपुरुषार्थत्वाभावानिःश्रयसस्य च सर्वानर्थोपरमस्यात्मतत्त्वसाक्षात् कार साध्यत्वादात्मतत्त्वसाक्षात्कारस्य च श्रवणादिसाध्यस्य निखिलप्रपंचधम्मिकानात्मत्वनिश्चयं विनाऽसम्भवात् पदार्थ - निरूपणद्वारा मननोपयोगित्वेन प्रपंचं प्रपञ्चयिष्यन् वृहदारण्यकश्रु त्योपयातं प्रक्रमते अथ श्रुतिरिति । द्रष्टव्य इति । मानससाक्षात् कारविषयीभूतः कर्तव्य इत्यर्थः । आत्ममानससाक्षात्कारे आत्मश्रवणादीनां कारणत्वादाह श्रोतव्य इत्यादि । श्रोतव्यःशाब्दबोधविषयीभूतः कर्त्तव्यः । मन्तव्यः - इतरभिन्नत्वेनानुमातव्यः । ननु कथमेतत् संगच्छते शाब्दसिद्ध रनुमितिप्रति बन्धिकायाः सत्त्वादिति चेन्न सिसाधयिषाविरहविशिटाया एव सिद्धेरनुमितिप्रतिबन्धकत्वात । अत्र तु मुमुक्षोः सिसाधयिषासत्त्वेनानुपपत्तिविरहात् । निदिध्यासितव्य इति । सततं ध्यानविषयोभूतः कर्त्तव्य इत्यर्थः । तथाचोक्त ं 'श्रोतव्यः श्रुतिवाक्येभ्यः मन्तव्यश्चोपपत्तिभिः । मत्त्वा च सततंध्येय एते दर्शनहेतवः ' ॥ इति ॥ द्रष्टव्य इत्यत्र तव्यप्रत्ययार्थं विवृणोति इष्टसाधनमिति । श्रवणादीनामात्मदर्शने किंविधयोपयोगित्वमिति प्रतिपादयितुमाहात्मदर्शनोपाय इति । ननु श्रवणादीनामात्मदर्शनं प्रति हेतुत्वात् 'निदिध्यासितव्यः' इत्यस्यानन्तरमेव 'द्रष्टव्यः' इत्यस्याभिधानमुचितम् । तथा च 'ब्रीहीन प्रोक्षति' 'ब्रीहीन् अवहन्ति' इत्यादिवच्छब्दार्थकमयोरव्यभिचार उपपद्यते । उक्तश्रुतौ तु तथानभिधानात् शब्दार्थ क्रमयोर्व्यभिचार इत्याशङ्कामपनेतुमाहार्थ कमेणेत्यादि । अयम्भावः - अर्थाः - आत्मदर्शनन्तद्धे तवः श्रवणादयश्च तत्सम्बन्धी यः क्रमः – पौर्वापर्यम् - कार्यस्य कारणोत्तरभावित्वं, तेनार्थ क्रमेण, शब्दाः - द्रष्टव्यः श्रोतव्य इत्यादयः, तत्सम्बन्धी यः क्रमः द्रष्टव्यशब्दस्य पश्चादभिधीयत्वमानत्रूपः शाब्दक्रमः परित्यक्तो भवतीति । तथाचाक्रमतः शब्दाभि
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 127