Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ १६ ] व्यसंयोगस्यैवतदसमवायिकारणत्वं वाच्यम् । तच्चद्रव्यं न मार्तण्डरूपं नवा पृथिव्याद्यारमकं भवितुमहुति भूतत्वात् । न चाकाशमात्मा वा तदृव्यमरित्वतिवाच्यं तयोविशेषगुणवत्त्वात्। नापि दिक् तथा सम्भवति, तस्या दैशिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयत्वेन सिद्धः । अतः पारिशेष्यात् कालिकपरत्वापरत्वाश्रयीभूतेन शरीरेण सह संयुक्तस्य कालस्यैव तथाविध ( मार्तण्डपरिपस्न्दावच्छिन्न-) द्रव्यत्वं सिद्धमित्येतावदर्थजातं मनसिकृत्य कालसाधकानुभानप्रकारं दर्शयति परत्वजनकमित्यादि। अवधिमनपेक्ष्यजायमाने सामान्यतो बहुतररविक्रियाविशिष्टशरीरज्ञाने बाधासिध्यो वारणाय पक्षे परत्वजनकमिति विशेषणम् । स्वल्पतररविक्रियावच्छिन्नशरीरज्ञाने आश्रयासिअिवारणाय बहुतरक्रियान्तरावच्छिन्नशरीरज्ञानेआश्रयासिद्ध वारपितु रवीति । यद्यपि मूर्त्तमात्र एव परत्वमुत्पद्यते तथापि शरीर एव मुख्यतया ज्येष्ठत्वव्यवहाराच्छरोरेति। तादृशशरीरविषयकद्वेषादाश्रयासिद्ध याहे रिणायज्ञानेति । विशिष्टज्ञानत्वमात्रस्य घटज्ञानादौ सत्त्वाद्वयभिचारः स्यादतो विशेष्यदलम् । ज्येष्ठत्वस्याननुगतस्य तत्तच्छरीर निष्ठत्वादिदमित्यनेन पक्षनिर्देशोज्ञाज्ञानमित्त्यत्तन्तु परिचायकमितिबोध्यम्। साध्यमाहपरम्परेत्यादि। साक्षात्सम्बधत्वं नाम संयोगाद्यन्यतमत्वम्, तदभाववत्त्वेसति सम्बन्धत्वं परम्परासम्बन्धत्वम्। न च स्वसमवायिसंयुक्तसंयोगस्य वक्ष्यमाणस्य कथं परम्परासम्बन्धत्वं घटते तत्रसंयोगे संयोगाद्यन्यतमत्वसत्त्वेन साक्षत्सम्बन्धत्वसत्त्वादितिवाच्यं तत्रसंयोगत्वेन न संसर्गता किन्तु स्वसममवायिसंयोगत्वरूपविलक्षणधर्मेणेत्यदोषात्। घटकसापेक्षमिनि । तत्त्वञ्च तादृशघटकं विनाऽतुपपद्यमानत्वम् । हेतुमाह साक्षादिव्यादि। साक्षात सम्बन्धेन विशिष्टज्ञाने व्यभिचारवारणाय सत्यनम् । निविकल्पके व्यभिचारवारणाय विशिष्टज्ञानत्वादिति । किञ्चिनिष्ठप्रकारतानिरूपितकिञ्चिन्निष्ठविशेष्यता शालिज्ञानत्वादित्यर्थः। दृष्टान्तं दर्शयति लोहितेत्यादि। अत्र स्फटिके लौहित्यस्य साक्षात् सम्बन्धाभावात् स्वसमवायिसंयोगात्मकः परम्परासम्बन्धो वाच्यः। ततश्च स्वसमवायित्वेन जवाकुसुमादेः सिद्धिरितिभावः । परम्परासम्बन्धघटकसापेक्षमित्युक्तम्, तत्र कस्तावत् परम्परासम्बन्धो वाच्य इत्याकांक्षायामाह परम्परासम्बन्धश्चेत्यादि । स्वसमवायीत्यादि। स्वं-तथाविधमान्नुपरिस्पन्दः, तत्समवायी मार्ताण्डः, तत्संयुक्तःकालः, तत्संयोगस्तथाविधभावः। वस्तुतस्तु ज्येष्ठत्वकनिष्ठत्वरूपपरत्वापरत्वेऽसमवायिकारणजन्ये भावकार्य्यत्वाद्रपादिवदित्याद्यनुमानतोऽपि कालपिण्ड ( शरीर ) संयोगरत्र तदसमवायिकारणत्वाधात् कालस्य सिद्धिरिति ध्येयम् ।
कालत्वस्योपाधित्वमुक्त, तस्य जातित्वाभावे एकव्यक्तिवृत्तिकत्वं हेतुाच्यस्तत्राशङ्कते नन्विति। भूतेनि। तत्र तदवच्छिन्नकालत्वं तद्वर्त्तमानकालत्वम् । तत्प्राग
For Private And Personal Use Only For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127