Book Title: Tarkamrutam
Author(s): Jagdish Tarkalankar, Jivankrishna Tarktirth
Publisher: Asiatic Society

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ७ ] कारणामावाज्ज्ञानानुत्पादप्रसङ्गेन सुषुप्त्युच्छेदापत्तिश्च स्यादत आह मनःपरमाणुरूपमिति। न चोक्तदूषनान्मनसो विभुत्वं न स्यात् किन्तु घटादिवन्मध्यमपरिमाणे का क्षतिरिति वाच्यम्, तथा सति तस्मिन् युगपन्नानेन्द्रियसन्निकर्षसम्भवाचाक्षुषादिविजातीयज्ञानानां साङ्कयंप्रसङ्गात्। न च चाक्षुषाद्य कजातीयज्ञानं प्रति तद्विजातीयज्ञानसामग्याः प्रतिबन्धकत्वकल्पनान्नैष दोष इति वाच्यं कारणतावच्छेदकगौरवापत्तेः। सावयवा अनित्या इति । कारणनाशजन्यनाशप्रतियोगित्वादित्यर्थः। इतराणि-निरवयवानि । नित्यानीति । कारणासत्त्वादिति भावः। पुनविभजते सावयवा अपीत्यादि। विधात्रयमाह शरीरेत्यादि । तत्र शरीरत्वं चेष्टेन्द्रियार्थाश्रयत्वं प्रयत्नवदात्मसंयोगासमवायिकारणकक्रियावदन्त्यावयवित्वञ्चेष्टावदन्त्यावयवित्वम्वा न जातिः पृथिवीत्वादिना सह साङ्कर्यप्रसङ्गात् । इन्द्रियत्वं स्मृत्यजनकज्ञानजनकमनःसंयोगाश्रयत्वं शब्देनरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वम्वा न जातिः पृथिवीत्वादिना सह साङ्कर्यप्रसङ्गात् । विषयत्वन्तु देहेन्द्रियभिन्नत्वम् । सावयवभेदं शरीरं निर्दिशति मानुषशरीरमिति । मानुषादीनां शरीरमित्यर्थः। पार्थिवमिति । पृथिवीमात्रोपादानकमित्यर्थः । प्रत्यक्षसिद्धमिति शेषः। पार्थिवत्वे प्रमाणन्तु गन्धादिमत्त्वमितिभावः । - यद्यपि मानुषादिशरीरे स्नेहोष्णस्पर्शादेः सत्त्वाज्जलीयत्वादेरप्यापत्तिः सम्भवति तथापि पृथिव्या एव तत्रोपादानत्वमपरचतुर्भूतानान्तूपभोगसाधकतया निमित्तत्वमेकत्र विजातीयानेकद्रव्योपादानकत्वबाधादित्यदोषः । एवमेव जलीयादिशरीराण्यपि व्याख्येयानि । पार्थिवादिभेदेन शरीरस्य चतुविधत्वाज्जलीयादिशरीराणि निद्दिशति जलीयमित्यादिना। वरुणलोके प्रसिद्धमिति । आगमादिप्रसिद्ध रिति शेषः। वायुलोके इति । तथाचैतच्चतुविधशरीरेषु 'द्विधा विधाय चैकैकं चतुर्दा प्रथमं पुनः। स्वस्वे. तरद्वितीयांशैर्योजनात् पञ्च पञ्च ते॥ इति पञ्चदशोकारोक्तमविरुद्धमित्ति मन्तव्यम् । सावयवभेदान्तरमिन्द्रियं निरूपयति घ्राणेन्द्रियमित्यादि। पार्थिवमिति । गन्धमात्राभिव्यञ्जकद्रव्यत्वादिति शेषः। जलीयमिति । रसमात्राभिव्यञ्जकत्वादिति शेषः। तेजसमिति। स्पर्शाद्यव्यञ्जकत्वे सति रूपव्यञ्जकद्रव्यत्वादिति शेषः। वायवीयमिति । विजातीयस्पर्शाभिव्यञ्जकद्रव्यत्वादिति शेषः। श्रवणेन्द्रियस्य स्वरूपप्रदर्शनेन तस्याकाशत्वमाह कर्णशष्कुल्येत्यादि । तथा च कर्णशष्कुल्यवच्छेदेनैव शब्दग्रहाच्छब्दाश्रयत्वस्यैव आकाशत्वाच्छोत्रस्याकाशात्मकत्वं स्पष्टमिति भावः। उपसंहर्त्त माह एतानीत्यादि । वहिरिन्द्रियाणीति । अत्र वहिष्ट न तावन्महद्ग्राहकत्वमात्मनोऽपि महत्त्वात्, नाप्यात्मभिन्नद्रव्यग्राहकत्वमाकाशादेरपि तादृशद्रव्य For Private And Personal Use Only For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127