________________
Shri Mahavir Jain Aradhana Kendra
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir
[ २५ । नाशप्रतियोगित्वविरहेऽपि न क्षतिः। यद्यपि जन्यद्रव्यसामान्यस्यैवासमवायिकारणनाशनाश्यत्वकल्पने लाघवान्न नाश विध्यं सम्भवति तथापि पटादौ तन्तुसंयोगनाशस्येव विनिगमकाभावात्तन्तुनाशस्यापि नाशकत्वमित्याशयेन वैविध्यमुक्तम् । विधाद्वयं दर्शयति क्वचिदसमवायीत्यादि । ननु समवाय्यसमवायोति क्रमेण पूर्व कारणनिर्देशादत्र कथं वैपरीत्यमिति चेन्न परमाण्वात्मकसमवायिकरणस्य नित्यत्वेऽपिद्वयणुकनाशे समवायिकारणनाशनाश्यत्वस्य वक्तुमशक्यत्वात् जन्यद्रव्यनाशकतया प्राधान्यादसमवायिकारणनाशस्य पूवं निर्देशात् । नवीनास्तु लाघवतः सर्वत्र वासमवायिकारणनाशत्वेन कार्य्यद्रव्यनाशत्वेन कार्यकारणभावं मन्यन्ते। असमवायिकारणनाशजकार्य्यद्रव्यनाशमुदाहरति परमामुद्वयेत्यादि । अत्र समवायिकारणस्य नित्यत्वादिति भावः। द्वयपदं स्वरूपकीर्तनमात्रम् । समवायिकारणनाशजकार्य्यद्रव्यनाशमुदाहुरति कपालनाशादिति । ननु यत्र समवायिकारणमप्यनित्यं तत्र कार्यद्रव्यनाशे बिनिगमकाभावादुभयनाशयोरेव कारणत्वं वाच्यमित्याह घटनाश उभयत इति । समवायिकारणनाशादसमवायिकारणनाशाच्चेत्यर्थः । न चैवं मिथोव्यभिचारादनुगमासम्भवाच्च प्रत्येकमपि कारणं न स्यादिति वाच्यं निमित्तेतरकारणनाशत्वेन कारणत्वस्य वक्तव्यत्वात् तत्तन्नाशं प्रति तत्तन्नाशस्य करणत्वमिति रीत्या विशेषस्य कल्पयितु शक्यत्वाच्च ।।१३॥
॥ तामृतम् ॥ आकाशकालदिगात्मपरमाणवोऽवृत्तयः समवायश्च । पृथिव्यादिपञ्चानां भूतत्वम् । पृथिवीजलतेजोवायुमनसां क्रियावत्त्वमूर्तत्वे । पृथिव्यप्तेजोवायवोद्गव्यसमवायिकारणानि । कालस्य कालिकसम्बन्धेन सर्वाधिकरणत्वम् । दिशो दैशिकसम्बन्धेन सर्वाधिकरणत्वम् ॥ १४॥
॥॥ इतिव्यनिरूपणम् ।।१।। . . ॥ विवृतिः ।। अथ साधर्म्य निरूपणेन द्रव्यविचारमुपसहर्तुमाह-आकाशेत्यादि। समपरिमाणयो वस्तुनो मिथो वैशिष्ट्यधियः प्रमात्वेऽपि तत्राधाराधेयभावस्याननुभवा. दाधाराधेयभावं प्रत्याधाराधेययोः परिमाणतारतम्यस्य नियामकत्वमुपेयम् । एवञ्चाकासकालात्मदिशां परममहुत्परिमाणवत्त्वेन परमाणुनाञ्चानुपरिमाणवत्त्वेन तौल्या. दाधेयत्वं न सम्भवतीत्याहावृत्तय इति। . संयोगसमवायान्यतरसम्बन्धावच्छिन्नाधेयत्वसामान्याभाववन्त इत्यर्थः। तेन महाकालस्य कालिकसम्बन्धेनाकाशादिमत्वेऽपि न क्षतिः। समवायश्चेति । अवृत्तिरिति विभक्ति विपरिणामेनान्वयः । तथा चैतेषामवृत्तित्वं साधर्म्यमितिभावः । एवं परत्रापि।
For Private And Personal Use Only For Private And Personal Use Only