SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ २४ ] प्रयोज्यं कर्मत्वादादिशरीरप्रक्रियावदित्याद्यनुमानस्यापीश्वरसिद्धौ प्रमाणत्वं वेदितव्यम् । अतएव "कार्यायोजन धृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदम्यः" इत्याचार्याः। हेतुमाह कार्यत्वादिति । भावत्वे सति प्रागभावप्रतियोगित्वादित्यर्थः। तेन ध्वंसे न व्यभिचारः। ईश्वरें चानुमानमित्यत्रानुमानमित्युपलक्षणम् । तेन "अज्ञो जन्तुरनीशोऽयमात्मनः सुख दुःखयो। ईश्वर प्रेरितो गच्छत् स्वर्ग वा श्वभूमेव वा" इत्यादिश्रुतेः "ईश्वरः सर्वभूतानां हृद्देशेऽज्जुन। तिष्ठति" इत्यादि स्मृतेश्चेश्वरसिद्धि ईष्टव्या। स्वोक्तानुमानस्य फलमाह तेनेति। क्षितिपक्षकोक्तानुमानेनेत्यर्थः। उक्तानुमानेनेश्वरस्प सिद्धौ साध्यतावच्छे दकघटकीभूतकत्त त्वघटकविधया तदीयनित्यज्ञानादेरपि सिद्धिरित्याहू तद्वत्तीति । ईश्वरवृत्तीर्थः। ईश्वरीयज्ञानेच्छाकृतीनां ध्वंसप्रागभावादिकल्पनायां गौरवादाह नित्येति। ईश्वरज्ञानस्य कारणानियम्यस्वाद्विनिगमनाविरहेण सर्वविषयकत्वसिद्ध येश्वरस्य सर्वज्ञत्वसिद्धिरित्याहु . तत्सार्वग्यस्येति । . अतीन्द्रियस्य मनसः प्रत्यक्षप्रमाणप्रमेयत्ववाधादनुमानसाध्यत्वं प्रतिपादपितुमाह मनसि प्रमाणमिति । तदनुमानमभिनीय दर्शयति सुखादोति । विनिगमनाविरह. दिपदम् । तेन दुःखादेः परिग्रहः । प्रत्यक्षसामान्यस्य पक्षत्वे सिद्धसाधनान्भनसोऽ. सिद्धश्च सुखादिविषयकत्वेन प्रत्यक्षस्य पक्षतया प्रवेशः। जन्यत्वमात्रस्य साध्यत्वे सिद्धसाधनादर्थान्तराच्चेन्द्रियेति। तथा च मनसोऽपीन्द्रियत्वाददोषः। ईश्वरीय प्रत्यक्षे.व्यभिचारवारणाय हेतुतावच्छेदकघटकतया जन्यत्वप्रवेशः। घटादौ व्यभिचारवारणाय प्रत्यक्षेति। नन्विन्द्रियजन्यत्वसिद्धावपि चक्षुरादीनामेव कुतो न सिद्धि रिन्द्रियवादित्यत आह इन्द्रियान्तरवाधादिति। सुखादेरात्मगुणत्वेन वहिरिन्द्रिय ग्राह्यत्वासम्भवातू साध्यतावच्छेदकघटकेन्द्रियत्वे मनसः सिद्धिरिति भावः ॥१२॥ ॥ तर्कामृतम् ॥ - अर्थ द्रव्यनाशप्रक्रिया । द्रव्यनाशो द्विविधः। क्वचिदसमवायिकारणनाशात् क्वचित् समवायिकारणनाशाच्च । तत्राद्यो यथा परमाणुद्वयसंयोगनाशायणुकनाशः । द्वितीयो यथा कपाल नाशाद् घटनाशः । घटनाश उभयतः सम्भवति ॥१३॥ ॥ विवृतिः ॥ द्रव्याणामुत्पत्ति प्रक्रियायाः प्रागभिहितत्वान्नाशप्रक्रियाया अनभिधाने न्यूनत्वं स्यादत आह–अथद्रव्यनाशेति ।। जन्यद्रव्यनाशेत्यर्थः। तेन द्रव्यत्वावच्छेदेन For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy