________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૨૦૬
३ पुष्पितास्त्र
दिलाभार्थं रूप्यादीनामधमर्णादिभ्यो नियोजनमायोगस्तस्य प्र= प्रकर्षेण योजनम् = उपायचिन्तनं प्रयोगः, यद्वा - आयोगेन द्विगुणादिलिप्सया प्रयोगः = अधमर्णानां सविधे द्रव्यस्य वितरणमायोगप्रयोगः, स संप्रयुक्तः प्रवर्तितो येन, तस्मिन् वा संप्रयुक्तः = संलग्नो यः स आयोगप्रयोगसंप्रयुक्तः = नीत्या द्रव्योपाजनप्रवृत्त इत्यर्थः । भक्तं च पानं च भक्तपाने, विपुले च ते भक्तपाने विपुलभक्तपाने, वि= विशेषेण छर्दिते= भोजनावशिष्टे भक्तपाने यस्य स विच्छर्दितविपुलभक्तपानः, दीनेभ्यो दीयमानविपुलभक्तपान इत्यर्थः । दास्यश्च दासाश्व गावश्च महिषाश्च गवेलकाः = उरभ्राश्चेति दासीदासगोमहिषगवेलकाः, बहवश्च ते दासीदासगोमहिषगवेलका इति बहुदासीदासगोमहिषगवेलकास्ते प्रभूताः = प्रचुरा यस्य स बहुदासीदासगोमहिषगवेलकप्रभूतः, अत्र गवादिपदं स्त्रीगवादीनामप्युपलक्षकं, यद्वा- गोपदस्य = स्त्रीपुंगवयोरविशेषेण वाचकत्वादविरोध एव, महिष - गवेलक - शब्दयोश्च ' पुमान् स्त्रिया ' इत्येकशेषान्महिष्यादीनामपि ग्रहणम् । बहुजनस्येति जातिविवक्षयैकवचनं, संबन्धसामान्ये च षष्ठी, (तेन ' बहुजनै ' - रित्यर्थी बोद्धव्यः, अत्र 'अपी त्यस्याध्याहाराद्बहुजनैरपीति तत्त्वम्, अपरिभूतः = तत्पराभवरहितः, यद्वा-क्त प्रत्ययार्थस्याऽविवक्षितत्वादपरिभवनीयः - बहुजनैरपि पराभवितुमशक्य इत्यर्थः ।
4
जाता था । उसके यहाँ दास दासियाँ बहुतसी थीं और थीं। तथा वह अपरिभूत- प्रभावशाली था, यानी उसका
शकता था।
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
बहुतसे गाय, भैंस, भेडें
कोई पराभव नहीं कर
આાપી દેવાતા હતા. તેને ત્યાં દાસ દાસીએ ઘણાં હતાં. તથા ગાય ભેંસ ભેડાં પશુ બહુ હતાં. વળી તે અપરિભૂત–પ્રભાવશાળી હતા અર્થાત્ તેના કાઈ પરાભવ કરી શખ્ત નહોતા.