________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुन्दरबोधिनी टोका वर्ग ३ अभ्य. ४ बहुपुत्रिका देवी स्थितिनिर्जरणेन भवक्षयेण-देवभवकारणभूतकर्मणां गत्यादीनां निर्जरणेन क-कुत्र उत्पत्स्यते ?=जनिष्यते ? गौतम ! अस्मिन्नेव जम्बूद्वीपे तन्नामके द्वीपे-मध्यजम्बूद्वीपे भारते तन्नामके वर्षे विन्ध्यगिरिपादमूले विन्ध्याचलाधस्तले विमेलसंनिवेशे विभेलनामकग्रामविशेषे ब्राह्मणकुले ब्राह्मणवंशे दारिकातया-पुत्रीत्वेन प्रजनिष्यते-समुत्पत्स्यते । ततः जननानन्तरं खलु तस्या दारिकाया अम्बापितरौ-मातापितरौ एकादशे दिवसे दिने व्यतिक्रान्ते व्यतीते यावत् द्वादशभिर्दिवसः इदमेतद्रूपं वक्ष्यमाणलक्षणं नामधेयं कुरुतः, अस्माकमस्याः दारिकायाः पुत्र्याः ‘सोमा' इति नामधेयं नाम भवतु । ततः तदनन्तरम् खलु-निश्चयेन सोमा उन्मुक्तबालभावा-व्यतीतवाल्यावस्था, विज्ञकपरिणतमात्रा-विषयमुखाभिज्ञा यौवनम्-युवतिदशाम् अनुप्राप्ता अनु-बाल्यात् पश्चात् प्राप्ता, रूपेण आकृत्या, च=पुनः, यौवनेन-तारुण्येन, च= पुनः लावण्येन-मुक्ताफलगतच्छायातरलतासदृशशरीरावयवान्तःप्रविष्टचाकचिक्येनउक्तं च -
हे गौतम ! यह बहुपुत्रिकादेवी जम्बूद्वीप नामक द्वीपके अन्दर भरत क्षेत्रमें विन्ध्यपर्वतके समीप विभेल संनिवेश ( गाम ) में ब्राह्मणकी कन्या होकर जन्म लेगी। उसके बाद उसके माता पिता ग्यारह दीन बीतनेपर बारहवे दिन अपनी लडकीका नाम सोमा रखेंगे । वह सोमा बालभाव छोडती हुई विषय सुखके परिज्ञानके साथ यौवनावस्था में प्रवेशकर रूप-यौवन-लावण्यसे उत्कृष्ट और उत्कृष्ट शरीरवाली होगी।
હે ગૌતમ! આ બહુપુત્રિકા દેવી જમ્બુદ્વીપની અંદર ભત ક્ષેત્રમાં વિધ્ય પર્વતની પાસે વિભેલ (સન્નિવેશ) ગામમાં બ્રાહ્મણની કન્યા થઈને જન્મ લેશે. ત્યાર પછી તેનાં માતાપિતા અગીયાર દિવસ વીતી ગયા પછી બારમે દિવસે પિતાની છોકરીનું નામ સેમા રાખશે. તે માં બાલભાવ છેડી વિષય સુખનાં પરિજ્ઞાનવાળી યૌવન અવસ્થામાં પ્રવેશ કરશે ત્યારે રૂપયૌવન-લાવણ્યથી ઉત્કૃષ્ટ અને ઉત્કૃષ્ટ શરીરવાળી થશે.
For Private and Personal Use Only