________________ द्वितीयसर्गः सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता। अतिथित्वमनायि सा दृशोः सदसत्सशयगोचरोदरी // 40 // अन्वयः-सरसीः परिशीलितुम् गमि "वृता मया सदसत्...दरी सा दृशोः अतिथित्वम् प्रनायि। टीका-सरसोः सरोवरान् परिशीलितुम् परिशीलयितुम् , अभ्यस्तुं परिचेतुमिति यावत् गमेः गच्छतेः गमनक्रियाया इत्यर्थः कर्माणि कर्मकारकाणीति गति-कर्माणि गमनविषयीभूतानि भगमिकर्माणिः गमिकर्माणि संपद्यमानाः कृता इति गमिकर्मीकृता गता इत्यर्थः नेका अनेका नीवृतो जनपदा देशाः इत्यर्थः ( कर्मधा० ) येन तथाभूतेन (ब० ब्रो०) ( 'नोवृज्जनपदो देशविषयौ' इत्यमरः ) मया हंसेन सच्चासच्चेति सदसतो तयोः ( कर्मधा० ) अस्ति नास्तीत्येतयोः संशयः सन्देहः ( 10 तत्पु० ) तस्य गोचरः विषयः ( प० तत्पु० ) उदरं मध्यं ( कर्मधा० ) यस्यास्तथाभूता ( ब० बो० ) सा दमयन्ती दृशोनयनयोरतिथित्वं प्राधुपिकत्वं विषयत्वमित्यर्थः अनायि नीता दृष्टेत्यर्थः। तत्तद्दशस्यसरोवरान् परिचिन्वानोऽहं विदर्भेषु कृशोदरी दमयन्तीमपश्यमिति भावः / / 40 // व्याकरण-परिशीलितुम् Vशील धातु अभ्यासार्थ में चुरादि का है, अत: णिच होने से परिशीलयितुम् रूप प्राप्त है किन्तु णिच् विधि अनित्य होने से 'भक्षति' की तरह यह अण्यन्त प्रयोग है अथवा धातनामनेकार्थत्वात' के नियम से भ्वादि के समाधि-अर्थ वाले Vशील धातु को अभ्यास अर्थ में मी मानकर समाधान हो सकता है। गमिः धातु-निर्देश में /गम् +इक् ('इक्-श्तिपौ धातु-निर्देशे' ) / अनायि/नो+लुङ् ( कर्मवाच्य ) / अनुवाद-(तत्तत ) सरोवरों का परिशीलन ( परिचय, अवगाहन ) करने हेतु अनेक देशों को गये हुए मैंने कमर के विषय में 'है या नहीं इस तरह सन्देह उत्पन्न कर देने वाली वह (दमयन्ती ) मैंने आँखों की पाहुनी बनाई (= देखी ) / / 40 // टिप्पणी-गमिकर्मी० कवि की भाषा यहाँ साहित्यिक न बनकर वैयाकरणी बन गई है। संशय मी यहाँ सन्देहालंकार का विषय नहीं बन सकता है, क्योंकि सादृश्य-परक संशय हो सन्देहा. लंकार का विषय होता है, सदसत्परक नहीं। इसे आप कहने की एक तरह वक्रता ही समझिए / 'रसी:' 'रिशी' में छेक ( सशोरैक्यात् ) और अन्यत्र वृत्त्यनुपास है। अवकृत्य दिवोऽपि यौवतैनसहाधीतवतीमिमामहम् / कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् // 41 // अन्धयः-(हे राजन् ! ) अहम् इमाम् दिवः अपि यौवतैः सह न अधीतवतीम् अवधृत्य 'विधातु: आशये अस्याः कतमः तु पतिः वसति' इति अचिन्तयम् / टोका-(हे राजन् ! ) अहं हंसः इमा दमयन्ती दिवः स्वर्गस्य अपि यौवतैः युवति-समूहैः सह न अघीतवतीम् अध्ययनं न कृतवतीम् अवधृत्य निश्चित्य अध्ययनं सदृशः सहैव क्रियते न वसदृशैः, स्वाङ्गनानां दमयन्त्या सह कुतः सादृश्यम् , लक्षणया सा ताभ्योऽप्यधिक-सुन्दर्यासीदिति मावः, विधातुः ब्रह्मण प्राशये मनसि अस्या दमयन्त्याः कतमस्तु को वा पतिर्भर्ता वसति तिष्ठतीत्यचिन्तयम्