Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
________________
प्रकाशिका टीका द्वि० वक्षस्कार सू. २३ कल्पवृक्षस्वरूप निरूपणम् २१३ त्वात् चित्रांगा नाम द्रुमगणाः प्रज्ञप्ताः । तान् द्रुमान् वर्णयितुं दृष्टान्तमुपन्यस्यति-'जहासे' इत्यादि । यथा-येन प्रकारेण तत् - प्रसिद्ध प्रेक्षागृहं नाटयशाला, विचित्रं-नानाविधचिजोपशोभितम् अतएव रम्यं रमणीयं तथा वरकुसुमदाममालोज्ज्वलं-वराणि-उत्तमानि यानि कुसुमानि येषां यानि दामानि-माल्यानि तेषां यों: मालाः श्रेणयस्ताभिरुज्ज्वलं मण्डितं-देदोप्यमानम्, तथा-भासमानमुक्तपुष्पपुञ्जोपचारकलितं भासमानः-देदीप्यमानो यः मुक्तपुष्पपुञ्जोपचारः मुक्तो विकीर्णों यः पुष्पपुञ्जः पुष्पसमूहः तत्कृतो उपचारः-रचना तेन कलितं युक्तम्, तथा विततविचित्रमाल्यश्रोसमुदायप्रगल्भं विततानि विस्तृतानि विवित्राणि-नानाप्रकाराणि यानि माल्यानि-गुम्फितपुष्पमालाः, तेषां यः श्रीसमुदायः शोभासमूहः तेन प्रगल्भम्-अतिपरिपुष्टं तथा-ग्रन्थिमं ग्रन्थिमवेष्टिमपूरिमसङ्घातिमेनग्रन्थिमं ग्रन्थेन निर्वृत्तं, नैपुण्यातिशयात् ग्रन्थि ग्रन्थिसमुदायनिष्पादितं वेष्टने न सूत्रवे. टनक्रमेण निष्पन्नं पूरिमम् पूरणेन -भरणेननिष्पन्नं संचातिमम्-संवातेन समूहेण निष्पन्नम्, एषां समाहारे ग्रन्थिमवेष्टिम पूरिमसङ्घातिमं तेन तथा प्रकारेण माल्येन मालया, पुनः कीदृशेन माल्येन ? इत्याह छेकशिल्पिविभागचितेन छेकः निपुणो य; शिल्पी तेन विभागरचितं विभागेन विभक्त्या विच्छित्त्या रचितं निष्पादितं तेन तथाभूतेन माल्येन सर्वतः सर्वदिक्षु समनुबद्धं संयुक्तम् तथा-प्रविरल लम्बमानविप्रकृष्टपञ्चवर्णैः-प्रविरलानि अमिलितानि लम्बमानानि दोर्पाणि विप्रकृष्टानि-परस्परतःसुदूरवर्तीनि यानि पञ्चव
र्णानि नीलकृष्णहारिद्र लोहितशुक्लवर्णात्मकानि तानि प्रविरललम्बमानविप्रकृष्टपञ्चवर्णानि तैस्तथाभूतैः कुसुमदामभिः-पुष्पमाल्यैः शोभमानं प्रविरलत्वम् अल्पावकाशे सत्यपि स्यादत उक्तं विप्रकृष्टेति । पुनः कीदृशम् ? इत्याह-वनमालाकृताग्रं वनमाला-वन्द नमाला सा कृता अग्रे-अग्रभागे यस्य तत्तथाअग्रभागे कृतवन्दनमालमित्यर्थः,एव-निश्चयेन तथाभूत सत् दीप्यमानं शोभमानं भवति, तथैव ते पूर्वोक्ताः चित्राङ्गाः अपि द्रमगणाः अनेकबहु विविधविस्रसापरिण तेन अनेको व्यक्ति भेदात् बहुप्रचुरं यथा स्यात्तथा विविधः अनेकविधो जातिभेदात् स चासौ विस्रसापरिणतः-स्वभावेन परिणतस्तेन तथाविधेन माल्यविधिना उपपेता:-युक्ता भवन्ति, तथा कुशविकुश यावत् तिष्ठन्तीति प्राग्वत् ।। हैं जगह २ में स्थान २ पर ये वहां उस काल में पाये जाते हैं । भोगभूमि में इनका अब भी सद्भाव है। इस भरतक्षेत्र में प्रथमकाल में भोगभूमि थी । अतः उस समय ये यहां प्रत्येक स्थानों पर वर्तमान थे । ये चित्रांग जाति के कल्पवृक्ष उन भोग भूमिया जनों को तथाविध
છઠ્ઠા કલ્પવૃક્ષનું સ્વરૂપ:
'तीसेणं समाए भरहे वासे तत्थ २ देसे तहिं तहिं बहवे चित्तंगा णाम दुमगणा पण्ण त्ता" इत्यादि ।
છઠ્ઠા કલ્પવૃક્ષનું નામ ચિત્રાંગ છે. તે કાળે એ કલ્પવૃક્ષે ત્યાં પુષ્કળ સંખ્યામાં થતા હતાં ઠેકઠેકાણે એ ક૯૫ વૃક્ષે તે કાળે ત્યાં પુષ્કળ સંખ્યામાં પ્રાપ્ત થતા હતા ભંગ ભૂમિમાં એમને અત્યારે પણ સદ્ભાવ છે. આ ભરત ક્ષેત્રમાં પ્રથમ કાળમાં ભેગ ભૂમિ હતી. એથી તે
જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર