Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः २४
वि.सं. २०६६ उत्तरायणम्
2010_04
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुर्नन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
सङ्कलनम्
कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
नन्दनवन कल्पतरुः २४
शासनसमाजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं-नन्दतात् सूचिरम् ॥
वि.सं. २०६६ उत्तरायणम्
सङ्कलनम् कीर्तित्रयी
2010_04
For Private & Personal.Use Only
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः २४ (संस्कृतभाषामयं अयन-पत्रम् ॥)
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०६६, ई.सं. २०१०
मूल्यम् : रू. १००/
जालपुटसङ्केत्तः
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष : 079-26622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष : 079-26574981 M. 9979852135
email:
sheelchandrasuri_darshan@yahoo.com
मुद्रणम् : 'क्रिष्ना ग्राफिक्स'
नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079-27494393
2010_04
Page #4
--------------------------------------------------------------------------
________________
2
प्रास्ताविकम्
SEASE
सम्प्रति शिक्षणं प्रति जागृतिर्वृद्धि गताऽस्ति । 'साक्षरता अभियान'-इत्यभिधानेन सर्वत्र निरक्षरतामपाकर्तुं पुरुषार्थः क्रियते । विविधरीत्या प्रचारः क्रियते । जनाश्च शिक्षणं प्रति यथोद्युक्ता उत्सुकाश्च स्युस्तथोपाया अप्युपयुज्यन्ते । उत्तमं प्रशंसाहँ चेदं कार्यम् । किन्तु नैतावन्मात्रेण किमपि सिद्ध्यति । विविधविषयेषु निबद्धं शिक्षणं यद्यपि जनं विषयाणां ज्ञातारं तु करोत्येव, स जीवविज्ञानं जानीयात् रसविज्ञानं जानीयात् तन्त्रविज्ञानमवकाशविज्ञानं भाषाविज्ञानं गणितं चाऽपि विजानीयादेव, किन्तु सर्वेभ्योऽप्येतेभ्यो महत्त्वपूर्णो विविधविषयाणां च शिक्षणस्य माध्यमेन प्राप्यमाणो यो जीवनबोधोऽस्ति, तस्य का गतिः ? जीवनं प्रकाशयतां सत्संस्काराणां चाऽपि का गतिः ? जीवनबोधः सत्संस्कारा वा किमेतस्माद् विषयाणां बोधात् प्राप्यते खलु ? जीवनमेव शिक्षणस्य मूलोद्देश इत्यत्र कदाऽप्यवधानं दत्तमेव किलाऽस्माभिः ? कः करिष्यति संस्कारदानस्य कार्यमिदम् ?
अद्यतनयुगोऽयं संस्कारोत्तेजको युगोऽस्ति । समधिकतया चाऽसत्संस्काराणामेवोत्तेजकं वातावरणमस्ति । एतादृशी स्थितिमेव चोन्नति प्रगतिं वा गणयित्वा प्रवर्त्तमानस्य समाजस्य समीचीनाया दिशो दृष्टेश्च प्रदानं यदि शिक्षणं कुर्यात् तस्येव तेनैव च तस्य सार्थक्यं स्यात् । केवलं साक्षराणामेव वृद्ध्या न हि समाजस्य राज्यस्य राष्ट्रस्य वा किमपि हितं भवति, न वा स्वस्थः समाजः स्वस्थं राज्यं स्वस्थं वा राष्ट्रं तेन निर्मितिं प्राप्नोति, किन्तु विद्यावतां वृद्ध्यैव कार्यमेतत् सिद्ध्यति ।
पुरा हि गुरवो न सर्वा अपि विद्याः स्वकीयेभ्योऽनुयायिभ्यो ददति स्म किन्तु कतिपयविद्या हि गुप्ततया संरक्षन्ति स्म । गाम्भीर्यादिगुणोपेताय सुयोग्याय पात्रायैव ता दीयमाना आसन् येन तासां सदुपयोग एव स्यात् । अत्र तासां सदुपयोग एव नाऽऽसीदाशयः किन्तु येन केनाऽपि यद्वा तद्वा प्रयोगेण जायमानादहिताद् रक्षणार्थमेव तत्र जागरूकताऽऽसीत् । यदि न लभ्येत तादृशं पात्रं तर्हि गुरुजनेन सहैव ता विद्या अपि विलयं प्राप्नुवन्ति स्म । एष आसीद् विवेकः ।
वर्तमानकाले तु सर्वं विपरीतं दृश्यते । वैज्ञानिका अन्वेषणेन यदप्युपलभन्ते तत्सर्वमपि चालनीमनुपयुज्यैव जगत्समक्ष प्रस्तुवन्ति । हिताहितविवेको नाऽत्र परिदृश्यते । अस्या उपलब्धेः कीदृश उपयोगो वा भविष्यति ? अनेन च सत्तत्वं बलवद् भविष्यत्युताऽसत्तत्वम् ? - इत्याद्यविचार्यैव सर्वं लोकभोग्यं क्रियते । फलतश्च
SASURA
2010_04
Page #5
--------------------------------------------------------------------------
________________
तदुष्परिणामानि व्यक्त्या कुटुम्बेन परिवारेण समाजेन ग्रामेण नगरेण राज्येन राष्ट्रेण चाऽप्युपभोक्तव्यानि भवन्ति ।
किमत्र करणीयम् ? कोऽत्रोपायः ? - ननु एक एव - जनमानस एव यदि हिताहितविवेकः सदसतोर्भानं वा जागृयात् तद्देव दुष्परिणामेभ्यो रक्षणं स्यात् । एतस्य दायित्वमस्ति शिक्षणजगतः शिक्षकजगतश्च ।
रुग्णस्य रोगनिवारणायैव केवलं न यतते सुचिकित्सकः किन्तु रोगप्रतिकारिकां तस्य शक्तिं स वर्धयति । तस्यां वृद्धिं गतायां रोगस्त्वपगच्छत्येव सहैव भविष्यति रोगसम्भावनाऽपि व्यपगच्छति । औषधेन रोग एव निराक्रियते चेन्न तेन लाभविशेषः कश्चिज्जायते । यतो रोगोत्थानं पुनस्तत्र सम्भवत्येव । अतो रोगप्रतिकारिकायाः शक्तेर्वृद्धिरेवाऽत्रोपायः । तथैव शिक्षणमपि यदि विविधविषयाणां बोधे ज्ञाने वैव पर्यवसितं भवेत् तदा तच्छिक्षणमेव न भवति । किन्तु तेन विविधानां विषयाणां माध्यमेन विद्यार्थिनां विवेकशक्तिहिताहितबुद्धिश्च प्रकटितव्या येन यत्र कुत्राऽपि ते गच्छन्तु न कदापि ते स्वाहितं समाचरिष्यन्ति । विवेक एव चक्षुः खलु ? "एको हि चक्षुरमलं सहजो विवेकः" इति ।
गुरुर्ज्ञानप्रदानेन न केवलं प्रकाशं वितनोति किन्तु नेत्रमप्युद्घाटयति । नेत्रोद्घाटन एव प्रकाश उपयोगी भवति नाऽन्यथा ।
अज्ञानतिमिरान्धानां, ज्ञानाञ्जनशलाकया ।
नेत्रमुन्मीलितं येन, तस्मै श्रीगुरवे नमः ॥
यथार्थगुरोर्लक्षणमत्र प्रदत्तमस्ति । नेत्रोन्मीलनमेव गुरोः कार्यं दायित्वं च । तन्माध्यममस्ति ज्ञानाञ्जनशलाका । केवलं ज्ञानदायक एव न गुरुर्भवति किन्तु ज्ञानाञ्जनेन नेत्रं-दृष्टिं च य उद्घाटयति स गुरुः । अञ्जनं नाम प्राणप्रतिष्ठा । यः प्राणवान् भवति स तेजस्वी भवति । यः प्राणवन्तं करोति स गुरुः । शिक्षकोऽपि गुरुरेव । तेन वा तथैव भवितव्यम् । एतादृशं शिक्षकं यदा समाजः प्राप्स्यति तदनन्तरमेव व्यक्तिर्वा राज्यं वा राष्ट्र वाऽपि यथार्थां प्रगति साधयिष्यति । एतादृशः शिक्षक एव सत्संस्काराणां सिञ्चनं करिष्यति।
अतः 'साक्षरता अभियान' - इत्यतोऽपि 'शिक्षकता अभियान' इत्येतदधिकमावश्यकमस्ति । एतादृशां शिक्षकाणां निर्माणमेवाऽस्माकं प्रथमं कर्तव्यम् । एकस्मिन्नेवाऽस्मिन् पुरुषार्थे बह्वीनां समस्यानां समाधानं निहितमस्ति । करिष्यामः खलु वयमेनं पुरुषार्थम् ?
कीर्तित्रयी
2010_04
Page #6
--------------------------------------------------------------------------
________________
वाचकानांप्रतिभावः
पादलिप्तपुरम् पूज्या कीर्तित्रयी, प.पू. आ.राजयशसूरीश्वराणां आज्ञया विश्रुतयशविजयस्य अनुवन्दना ।
नन्दनवनकल्पतरोः शाखा त्रयोविंशतिः प्राप्ता सानन्दं पठिता। भवतां श्रमस्य बुद्धेश्च अनुमोदना जाता । अनेके रुचिकरा विषयाः पठिताः । 'पशु-पक्षिणां संवेदनशीलता' नाम्ना (शोध)लेखः (मुनिकल्याणकीर्तिविजयस्य) अतीव महत्त्वं अर्हति । पशु-पक्षिणां जीवनं परोपकाराय भवति । येन केनाऽपि कार्येण तेषां हिंसा नैव कार्या इति आगतमिति तात्पर्य फलतः सर्वेषां विदितं भवेत् ।
सर्वे लेखाः कथाश्च स्वस्वस्थाने शोभन्ते, प्राकृतविभागस्त अतीव शोभतेतराम्।
वाचकानांप्रतिभावः
आश्विनस्य कृष्णा त्रयोदशी
कीर्तित्रयीं सादरं वन्दे ।
नन्दनवनकल्पतरु:-२३ प्राप्तः । अङ्केऽस्मिन् मुनित्रैलोक्यमण्डनविजयस्य सरलाः स्याद्वादसिद्धान्ताः इत्ययं स्तम्भोऽतीवाऽरोचत् । तदर्थं धन्यवादानर्हति स । अन्येऽपि विभागाः सर्वे प्रशंसनार्हाः । भवतां प्रयासोऽयं वाग्देवतायाः तुष्टयै भविष्यतीति आशासे ।
मुनिवैराग्यरतिविजयः।
2010_04
Page #7
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
परमवन्दनीयेषु, श्रीविजयशीलचन्द्रसूरीमहोदयेषु, 'सादरं प्रणमामि'
नन्दनवनकल्पतरुः-२३ प्राप्य नितरां प्रमुदितोऽस्मि ।
महावीरवाणी- पार्श्वनाथस्तोत्रम्-जिनेश्वरप्रार्थनाप्रभृतिभिः पारम्परिकवन्दनाभिः सह राजेन्द्रमिश्रा गलज्जलिकाः, ताराशङ्करशर्मणां त्रिरङ्ग, रामकिशोरमिश्राणां कविकवयित्रीगीतानि चेतो हरन्ति । अस्मिन्न आस्वादे स्थिताः प्रौढाः विचाराः चिन्तनधाराश्च संवेदनामतिक्रम्य स्याद्वादजिनसेनकाव्यविचार-उपमानप्रमाणेषु संक्रान्ताः सन्ति । अनूदितकाव्यानि, कथा, नाटकं, प्राकृतलेखाश्च सहृदयहृदयसंवादं साधयन्ति । रोचकं मुखपृष्ठम्, उत्तमकर्गजं, शोभनमुद्रणं बन्धनं च पत्रिकायाः उत्तरोत्तरमभिवृद्धि प्रस्तुवन्ति ।
And hand
वाचकानां प्रतिभावः
परमादरणीयाः श्रीविजयशीलचन्द्रसूरिमहाराजा:, आदरणीया कीर्तित्रयी,
2010_04
Loren
०१-११-०९
डॉ.
नारायणदाशः
कथासरित् पत्रिकायाः सम्पादकः
Kolkata
नन्दनवनकल्पतरोः २३ तमोऽङ्कः सम्प्राप्तः । सम्प्रति प्रतिदिनं महाविद्यालये अस्योपयोगो भवति । तृतीयवर्षे पठन्त्यः सर्वाः विद्यार्थिन्यः इममङ्कमवलोकितवत्यः । ताभिः प्रसन्नता प्रकटिता । ता अपठितसंस्कृतस्य प्रश्नपत्रं पाठयामि । तत्र नन्दनवनकल्पतरुस्थं संस्कृतमनुवदामो वयम् ।
6
दि. १३-११-०९
अनिलः र. द्विवेदी जामनगरम्
wlaun
Page #8
--------------------------------------------------------------------------
________________
वाचकानांप्रतिभावः
डॉ. रूपनारायणपाण्डेयः
प्रयागः
मान्याः, सादरं प्रणामाः ।।
त्रयोविंशे'नन्दनकल्पतरौ' प्रा. अभिराजराजेन्द्रमिश्रस्य गलज्जलिका नितरां हृदयं स्पृशति । भारतीयसंस्कृतिः साम्प्रतं सततं निहन्यते सर्वैः स्वजनैरेव, किमुत परजनैः । तस्याः समुद्धरणाय भगवतो रामस्य नवावतारोऽपेक्ष्यते । मूर्तयो मिथ्या न वदन्ति 'राघवं रामभद्रं प्रतीक्षामहे ।' (पृ. १५) । प्रो. ताराशङ्करशर्मणः 'त्रिरङ्गः' इति कविता राष्ट्रभक्तिभावमुद्भावयति । श्रीएच्. वि. नाग-राजरावस्य लेखो मन्तव्यः । श्रीरामचरितमानसे कविकुलमौलिः गो. तुलसीदासोऽपि श्रीरामचरितयुतां कवितामेवोत्तमां मन्यते । या कविता लोकस्य शिवत्वं न सम्पादयति, सा रम्याऽपि सुजनैर्नाऽभिनन्द्यते । 'गृह्णन्तु' इत्यादिका रचना अपि नीतिमार्गमुपदिशन्ति । 'अद्भुतो विजयः' इति कथा हिंसाया उपर्यहिंसाया विजयमभिव्यनक्ति । अत्र बालराश्या अमिताया नैतिकं साहसं सर्वथा समादरणीयमस्ति । एतादृश्याः कथा: नैतिकगुणान् संवर्धयन्ति, समाजे शान्ति स्थापयन्ति, हिंसामातङ्कं चोपशमयन्ति । 'बुद्धिः सर्वार्थसाधिका' इति कथायां मन्त्रीश्वरस्य जिनचैत्यनिर्माणार्थं सर्वे प्रयासाः प्रशंसनीयाः सन्ति, किन्तु कपटेन वारिणि लवणस्य निक्षेपो न युज्यते-इत्यहं मन्ये । सत्साध्यस्य सम्पूतिः सत्साधनेनैव विधातव्येति मन्यते स्म राष्ट्रपिता 'महात्मा गान्धी' अपि ।* प्राकृतविभागस्य संस्कृतरूपान्तरं प्राकृत-, ज्ञानविरहितान् मादृशान् प्रसादयेत् । जयतु संस्कृतं संस्कृतिश्च ।
* मनुष्येण कदाचित् शठे शाठ्यमिति नीतिवचनमवलम्बय सत्साधन ( एवाऽऽस्थावताऽपि स्वयमनिच्छताऽपि च तादृशो व्यवहारः करणीयो भवेत् । न तत्राऽनन्यगतिकस्य तस्य दोषो वक्तुं पार्यते । -सं.
2010_04
Page #9
--------------------------------------------------------------------------
________________
वाचकाना प्रतिभावः
डॉ. वासुदेव वि. पाठकः 'वागर्थः' सम्पूज्याः विजयशीलचन्द्रसूरिगुरुवर्याः, पूज्या कीर्तित्रयी, मुनयश्च संस्कृतसेवारताः, प्रणतयः ॥ भुक्तिमुक्तिप्रदाः पुण्याः आशिषस्सर्वदा गुरोः । सपर्या च समर्चा च सद्गुरोस्सर्वसारदा ।।। आशीर्वादैश्च गुरुवर्याणां, नन्दनवनकल्पतरुः, संस्कृतसामयिकेषु स्वकीयेन वैशिष्ट्येन सह विकसतीति परोक्षं संस्कृताभिमुखानाम् । गौरवं गुजरातस्य, भारतस्य च गौरवम् । विदेशेष्वपि वैशिष्ट्यं, प्रसन्नास्तेन संस्कृताः ॥ प्राप्ते अङ्के प्रसीदति चेतः, प्रतीक्षते तावन्मे चेतः । इत्येवाऽलं प्रतिभावत्वे, किंबहुना शाब्दिके पटुत्वे ।।
अस्माकमयनपत्रस्याऽस्य स-रसत्वं, विषयवैविध्यं, प्ररूपणायाः वैशिष्ट्यं, समृद्धत्वं च, उत्तरोत्तरं वृद्धिमेति इति प्रशस्यमेव । वाचकानां रुचिवैचित्र्यात् एतादृशी जागृतिः, सत्यं सूचयति संकलन-संपादनसुज्ञताम् ।
२३तमशाखायाः प्रास्ताविके, व्यापकस्य उदारस्य च दृष्टिकोणस्य स्वागतं विधीयते । सत्त्वपूर्वं सर्वर सर्वेषां कृते स्यादिति सद्भावनैव साधुवादार्हा । चरितार्था एषा भावना अस्माकं सामयिके, इत्युपक्रमः, अन्येषां कृतेऽपि प्रेरकः भवेत् ॥ सर्वेषामुपकारार्थं ज्ञानदानप्रधानता । सर्वत्रैव प्रशस्या स्यात्, ज्ञानं गोप्यं कथं भवेत् ? || चञ्चले जीविते पुण्ये प्राप्ते ज्ञाने प्रयत्नतः । यथाशक्यं यथाशीघ्रं ज्ञानदातैव धार्मिकः ।। साम्प्रतानामाविष्काराणां ज्ञानप्रचारकार्यार्थं विनियोगः सत्कार्यः । सामयिकमस्माकं वैश्विकेन माध्यमेन समेषां कृते सुलभं भविष्यति, तेन मोमुद्यते चेतः ॥ अभिनन्दनानि ॥
२५तमा शाखा, विशिष्टाशाखा कार्या इति प्रार्थ्यते । कस्याऽपि विशिष्ट-विषयस्य प्ररूपणा केन्द्रत्वेनाऽत्र स्यादित्याशास्यते । पुनः सादरं निवेदनम्
अत्रभवतां भवतां, लेखकानां, वाचकानां प्रकाशनसमित्याः सर्वेषां संयोगिनां च, द्वादशवार्षिकं तपः, 'नन्दनवनकल्पतरुः' इत्यस्य प्रकाशनेन, सारस्वतसेवायाम् । एतन्निमित्तं, विशिष्टे समारोहे सरस्वतीपूजनरूपेण, आयोजनमपि शोभास्पदं प्रेरकं च भविष्यति ॥
नम्रत्वेन निवेदकः
वासुदेवः
2010_04
Page #10
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
मान्याः ! सादरं नमः ।
श्रीविजयशीलचन्द्रसूरिणा निर्दिष्टस्य कीर्तित्रय्या च सम्पादितस्य नन्दनवन - कल्पतरोस्त्रयोविंशी शाखा प्राप्ता । अत्र प्रकाशितां सत्यवतीकथां कविकवयित्रीगीतं च दृष्ट्वा प्रसीदति मम मनः । मुनीनामन्यलेखकानां च लेखाः कथाः कविताच सरला: सरसा मनोहराश्च सन्ति । षाण्मासिकीयं संस्कृतपत्रिका सततं प्रकाशिता स्यादिति कामये ।
वाचकानां प्रतिभावः
सम्पूज्याः,
a
2010_04
पालक्काडु
नन्दनवनकल्पतरोः त्रयोविंशतितमा शाखा अत्र प्राप्ता अस्ति । समग्रं पुस्तकं वीक्षितम् । एकाग्रमनसा सर्वम् आस्वादयितुम् उत्सुकः अस्मि । अयनपत्रस्यास्य प्राप्त्या पठनेन च अहम् अत्यन्तम् आनन्दं अनुभवामि ।
धन्यवादाः ॥
भवदीयः रामकिशोर मिश्रः खेकड़ा (बागपत) उ.प्र. 480
वाचकानां प्रतिभावः
पूज्यानां चरणारविन्दयोः प्रणामाः
नन्दनवनकल्पतरोः शाखाः क्रमशः प्राप्यन्ते । तासां पठनेन मोदमनुभवामि । प्रतिशाखं वाचनीयता वर्धमानाऽस्ति इत्येतत् महते सन्तोषाय ।
डॉ. विश्वास: मङ्गलूरुः
9
इति भवदीय, रवीन्द्रः
Page #11
--------------------------------------------------------------------------
________________
2010_04
निवेदनम्
नन्दनवनकल्पतरोरागामिनी शाखा पञ्चविंशतितमी भविष्यति । तां च वयं विशिष्टतया प्रकाशयितुमिच्छामः । अतः सहृदयवाचकेषु निवेद्यते यदस्याः शाखायाः कृते संस्कृतं प्राकृतं वा गद्यं पद्यं वा च सुरुचिपूर्णं साहित्यं प्रेषणीयम् ।
अथ च विशिष्टायाः शाखायाः कृते विषयविशेषोऽपि निर्णीतोऽस्त्यस्माभिः । " मम हृदयस्पर्शिनी घटना" इत्येनं विषयमधिकृत्य प्रेम-नीति करुणादिविषयिकीं मर्मस्पृशं काचित् सत्यकथां विलिख्य प्रेषयन्तु कथा हि भवद्भिर्हष्श श्रुताऽनुभूता पठिता वाऽपि च स्यात् तस्याः परिवेश: आधुनिकः स्यात् तत्परिमाणं चद्वि-पुटान्नाऽतिक्रमेत् ।
कथाप्रेषणस्याऽन्तिमो दिनाङ्क: ३०-६-२०१०
प्रेषणसङ्केतः
-
नन्दनवनकल्पतरुः २५
विजयशीलचन्द्रसूरिः
C/o Atul H. Kapadia A-9, Jagruti Flats,
Behind Mahaveer tower, Paladi, Ahmedabad-380007
10
Page #12
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
कर्ता महावीरवाणी चित्रकाव्यानि
स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपार्श्वनाथस्तोत्रम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपार्श्वेश्वरस्तोत्रम्
स्व. प्रवर्तकमुनिश्रीयशोविजयः धर्माभासकुलकम्
विजयशीलचन्द्रसूरिः गीतम् - न विधिरपि दयते
प्रा. अभिराजराजेन्द्रमिश्रः - उत्तरायणं स्वागतं कुरु
विद्वान् महाबलेश्वरशास्त्री गङ्गाष्टकम्
विद्वान् महाबलेश्वरशास्त्री ग्रामजीवनम्
डॉ. वासुदेव वि. पाठकः ऐक्यमेव
डॉ. वासुदेव वि. पाठकः आस्वादः - चिन्तनधारा
मुनिरत्नकीतिविजयः - किं दुःखस्य मूलम् ?
मुनिधर्मकीर्तिविजयः - प्राणानप्यविगणय्य परोपकारं कुर्वाणा जीविनः मुनिकल्याणकीर्तिविजयः - सरलाः स्याद्वादसिद्धान्ताः
मुनित्रैलोक्यमण्डनविजयः जैनदर्शनसत्कतत्त्वविभावना: - मुक्तिः
मुनित्रैलोक्यमण्डनविजयः सोमदेवस्य कृतिरत्नं यशस्तिलकम्
एच्. वि. नागराजराव् पत्रम्
मुनिधर्मकीर्तिविजयः सुभाषितानि कुंग-फु-त्झेवर्यस्य
मुनित्रैलोक्यमण्डनविजयः काव्यानुवादः - दुनिया(जगत्)
मुनिकल्याणकीर्तिविजयः - मूर्खः
मुनिकल्याणकीर्तिविजयः माता
डॉ. वासुदेव वि. पाठकः
2010_04
Page #13
--------------------------------------------------------------------------
________________
AUSES
अनुक्रमः
5A
कृतिः
कर्ता
पृष्ठम्
मुनिकल्याणकीर्तिविजयः
डॉ. रूपनारायणपाण्डेयः डॉ. रूपनारायणपाण्डेयः
मुनिकल्याणकीर्तिविजयः
अनुवादः
- जैनदर्शनपरिचयः ग्रन्थसमीक्षा
- आचार्ययुगलस्मृतिग्रन्थः ___- सुरभारतीसपर्याकुसुमाञ्जलिः सादरं स्वीकृतानि मर्म गभीरम् कथाः
पापिनी त्यागधर्मः मध्यमं जलम् भगवदाशिषः प्रतिपन्ननिर्वहणम् प्रायश्चित्तम् आर्याम्बा
यशोधरा मर्म-नर्म प्राकृतविभागः
पाइयविन्नाणकहा १. भवस्स असारयाए नागदत्तसेट्ठिणो कहा २. दाणविलंबोवरि जुहुट्ठिल-भीमसेणाणं कहा ३. कित्तिमनेहोवरिं वुड्डाए कहा ४. जोग्गाणं संजोगे चोरस्स कहा
मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः सा. धृतियशाश्री: सा. दीप्रयशाश्रीः प्रा. अभिराजराजेन्द्रमिश्रः डॉ. नारायणदाशः डॉ. आचार्यरामकिशोरमिश्रः कीर्तित्रयी
१०८
१०९
आ. विजयकस्तूरसूरिः
GmWW
११८
2010_04
Page #14
--------------------------------------------------------------------------
________________
le 00690066/6Qacleddoddada
महावीरवाणी (दशवैकालिक सूत्रतः)
सन्मानं धननिविशेषं परिगण्यते लोके । तत्प्राप्त्यर्थं को वा न प्रयतते, तदर्थं च का वा रीतिर्नाऽऽश्रीयते इत्येव प्रश्नः । कामं प्रयत्यतां सन्मानप्राप्त्यर्थम्, आश्रीयतां नाम तदर्थं या काऽपि रीतिः, प्राप्यतां च स्वाभीष्टं सन्मानम्; परमनुचितप्रकारेण सन्मानं लब्धवान् जनो ज्ञानिनां दृष्टौ निकृष्ट एव तिष्ठतीत्यनिच्छताऽपि स्वीकरणीयं सत्यम् । तर्हि को वा वस्तुतः सन्मानाधिकारी? को वा पारमार्थिकदृष्टौ पूज्यः ?
तज्ज्ञातुमस्माभिर्दशवैकालिकसूत्रस्य नवमाध्यायस्य तृतीय उद्देशक: परिशीलनीयो भवति । अत्र भगवता महावीरेण सार्धद्विसहस्रवर्षेभ्य पूर्वं सन्मानप्राप्तये या नियमावली प्रदर्शिता, पूज्यत्वस्य यानि लक्षणानि वर्णितानि-तत्सर्वमिदानीमपि तावदेव प्रस्तुतं भासते । पश्येम वयं ततः किञ्चित्
स पुज्जो (स पूज्यः) - आलोइयं इंगियमेव नच्चा, जो छंदमाराहयइ स पुज्जो ॥ (९.३.१) ___ (आलोचितमिङ्गितमेव ज्ञात्वा, यश्छन्दमाराधयति स पूज्य: ।)
महत्तासम्पादनार्थमिङ्गिताकारैरेव गुरुजनानामभीष्टं ज्ञात्वा तत् सम्पाद्यं भवति । (उचितानुचितविवेकोऽप्यत्राऽऽवश्यकः ।) परमनोभावावगमसामर्थ्य महापुरुषे आवश्यकं खलु ? स्वार्थं परित्यज्य परार्थो निष्पादनीयो महत्तेच्छुकैरित्यप्यत्र ध्वनिः।
- गुरुं तु नासाययइ स पुज्जो ॥ (९.३.२) __ (गुरुं तु नाऽऽशातयति स पूज्यः ।) यो गुरुजनानां मानरक्षां करोति, तस्यैव सन्मानं ग्रहीतुमधिकार इति निश्चप्रचम् ।
2010_04
Page #15
--------------------------------------------------------------------------
________________
60060/66666Todloddaddog
- अलद्धयं नो परिदेवएज्जा, लद्धं न विकत्थयइ स पुज्जो ।। (९.३.४)
(अलब्ध्वा नो परिदेवयेत्, लब्ध्वा न विकत्थयति स पूज्यः ।) इष्टं न लभ्यते चेन्न शोकविह्वलेन भवितव्यम्, उपलभ्यते चेन्न च हर्षातिरेकेण गर्वो विधातव्यः पूज्यताकाक्षिणा । महत्ताप्राप्त्यर्थमावश्यकी किल सर्वत्र स्वस्थचित्ततेतीह संसूचनम् । - संतोसपाहन्नरए स पुज्जो ॥ (९.३.५)
(सन्तोषप्राधान्यरतः स पूज्यः ।) कामनायाः पूर्ती 'ईशानुग्रह' इति, अपूर्ती च 'ईशेन दृष्टं हित'मिति विचिन्त्य, यावल्लब्धं तावतैव तृप्तीभूय यः सन्तोषेण जीवनं निर्गमयति स एव महत्तामासादयितुं प्रभवति । यतो वस्तुसम्पादनव्यग्रता निःस्पृहताबाधिका । विना नि:स्पृहत्वं सर्वत्र स्वार्थपरा दृष्टिः । तथा च सति किं वाऽन्तरं प्रकृष्ट-निकृष्टयोः? न किमपि । - अणासए जो उ सहिज्ज कंटए, वईमए कण्णसरे स पुज्जो ॥ (९.३.६)
(अनाशया यस्तु सहेत कण्टकान्, वचोमयान् कर्णशरान् स पूज्यः ।) स्खलनायां जातायां ज्येष्ठहितबुद्ध्या यानि वचांस्युच्चार्यन्ते, तानि कदाचित्तावत्तीक्ष्णानि भवन्ति यद् भासेत कर्णलग्ना निशिताः कण्टका इव ! तथापि न किञ्चिल्लालसया, अपि तु स्वदोषनिरासबुद्ध्यैव यस्तानि गृह्णाति; न च तत्राऽसहनां प्रकटयति, प्रत्युत सम्यक् सहते स एव विगतदोषो लोके पूज्यते । पावनतापेन गतमालिन्यं काञ्चनं बहुमूल्यमेव भवति खलु !
- धम्मो त्ति किच्चा परमग्गसरे, जिइंदिए जो सहइ स पुज्जो ॥ (९.३.८) __ (धर्म इति कृत्वा परमाग्रशूरः, जितेन्द्रियो यः सहते स पूज्यः ।)
शुभकार्यस्य प्रारम्भतः पूर्णाहुतिपर्यन्तं विघ्नविनायकैः स्वक्रियाकलापः प्रवर्त्यते एव । किञ्च, तत्कार्यादन्यत्र चित्ताकर्षणे निपुणानि प्रलोभनानि सम्मुखीभवन्त्येव । तथाऽपि 'कार्ये निश्चलत्वं मम धर्म' इति विचिन्त्य परमशूरो यो विघ्नपरम्परां तरति, 'कार्ये सावधानत्वं मम धर्म' इति निश्चित्य जितेन्द्रियीभूय यो नैव प्रलोभनानां वशीभवति स एव पूज्यः ।
2010_04
Page #16
--------------------------------------------------------------------------
________________
Doo0000666Dododcoldoc@@
- ओहारिणि अप्पियकारिणि च भासं न भासेज्ज सया स पुज्जो ॥ (९.३.९) (अवधारिणीमप्रियकारिणीं च भाषां न भाषेत सदा स पूज्यः ।)
(अवधारिणी = कदाग्रहयुता) सत्ये 'इदमित्थ'मिति श्रद्धाऽऽवश्यकी, न तु 'इदमित्थमेवे'ति कदाग्रहः । सत्यमपि श्रुतिसुखदं वक्तव्यं, न तु कठोरम् । स्वर्णखण्डमपि तप्तं भवति चेत् को वा तद् गृह्णीयात् ? - अकोउहल्ले य सया स पुज्जो ॥ (९.३.१०)
(अकुतूहली च सदा स पूज्यः ।) कौतुकमनवधानतासम्पादकम् । अवधानमन्तरेण सामान्यस्याऽपि कार्यस्य सम्पूर्ति१ःशका, का पुनर्वार्ता महत्तासम्पादनस्य ? किञ्च, कतकप्रियो जनोऽगम्भीरो भवति । अगम्भीरस्य पूज्यता नाऽङ्गीक्रियते एव लोके इति तु न पुनर्वक्तव्यं खलु ? - जो रागदोसेहिं समो स पुज्जो ॥ (९.३.११)
(यो रागद्वेषाभ्यां समः स पूज्यः ।) रागकलङ्केन यस्याऽन्तःकरणं न मलिनीभूतं, द्वेषज्वालया च न दग्धं, य: सर्वदा निस्तरङ्गः, सर्वत्र मध्यस्थः, स कथङ्कारं लोके पूज्यो न भवेत् ? - जिइंदिए सच्चरए स पुज्जो ॥ (९.३.१३)
(यो जितेन्द्रियः सत्यरतः स पूज्यः ।) इन्द्रियजये सति तृष्णा निवर्तते । ततश्चोपशान्तिः सम्प्राप्यते । उपशान्त एवाऽन्यान् तृष्णादुःखदग्धान् शान्त्यमृतसिञ्चनेन सान्त्वयितुमर्हति । इत्थमेव यस्य चित्तं नित्यं सत्ये एव रमते स एव लोकं सत्याभिमुखं कर्तुं, उन्मार्गात् सन्मार्ग प्रापयितुम्, असदन्धकारात् सत्तेजः प्रदर्शयितुं च शक्नोति । एवं महोपकारी स पूजनीयो भवेदेव ।
2010_04
Page #17
--------------------------------------------------------------------------
________________
2010_04
१. शक्तिबन्धः
चित्रकाव्यानि श्री वीरस्तुतयः
वरन्तत्त्वविदामीशं तं शं- सौख्यददं वरम् । वरगाम्भीर्यसम्राजं संसंध्यायामि सर्वदा ॥१॥ २. शक्तिबन्धः
स्ति
विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
भगवान् भुवनाधीशो धीशो धैर्यगुणे नग ! । गभस्तिर्मोहविध्वंसे पापाद्वीरोऽवतात् स माम् ॥२॥
४
For Private Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
३. लाङ्गलबन्धः
वा
GERek
मा /A/व/श्वे
वीरं नमामि विश्वेशं तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगबोधं सर्वज्ञं वकेवलम् ॥३॥ लाङ्गलबन्धः
वीरं धर्म प्रदातारं वारं दोषततेर्वरम् । रडोद्धारकरं देवं वन्देऽहं देवदेवनम् ॥४॥
2010_04
Page #19
--------------------------------------------------------------------------
________________
IITHLILLLLLLAALITIES
பாபாபாபாபாபாபாரார்
X*
STOTRUCHARITERIOR
IIIIIImmm
INDIFILMIRMILITY
*
H
ENA BALOS
TITIATImmi
HTTAMITIOLLLLLLITILITY
पादिबन्धाख्येन चित्रकाव्यभेदेन to|श्रीपार्श्वनाथस्तोत्रम् ||
विजयनेमिसूरीश्वरशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
पुण्यपुञ्जपरिपूरितैः परैः पूरुषैः प्रपरिपूजितः परम् ॥ पापपुञ्जपरिपेषणे पटुः पावनः परमपूरुषः परः ॥१॥ पूज्यपादपरमप्रियः प्रभुः प्रेमपाशपरिपन्थिपेषणः ॥ पद्मपङ्क्ति परिपेलवः परं पीडितप्लवपिषः प्रपाटवः ॥२॥ पादपांशपविता प्रतिश्रयः प्राणिनां प्रशमपेटकप्रदः ॥ पार्थिवप्रणतपादपद्मकः प्रार्थितप्रददपारिजातकः ॥३॥ पातु पापपटलात् परिग्रहं प्रत्यजनु परिहरन् प्रपीडनम् ॥ प्राणिनां प्रमदपूरणः पतिः पारगः प्रभवपाथसः प्रभुः ॥४॥ प्राणिनां प्रियपदप्ररोपकः पारिजातपरताप्रणोदकः ॥ पूज्यपक्तिपरिपूजितः प्रियः पार्श्वपारगतपूरुषः परः ॥५॥
॥ पञ्चभिः कुलकम् ॥ पार्श्वनाथपदपङ्कजं परं प्राणिनां परपथप्रकाशकम् ॥ पावनं परमपूरुषप्रियं पातु पापपटलप्रमोचकम् ॥६॥ पिष्टपेषणपटुत्वपूरितः पेषयेत् प्रथमतः प्रपिष्टकम् ॥ पूर्वदेवपुरुहूतपार्थिवैः पूजितं प्रभुपदं प्रपूजये ॥७॥ पूज्य: पण्डितपर्षदां परपथप्राभासकः पालकः पीयूषप्रविपातपावनपदः पूर्णप्रभः प्राणिनाम् ॥
2010_04
Page #20
--------------------------------------------------------------------------
________________
Desafios
2010_04
पायैः पूजितपादकः परपथः प्राप्तप्रकर्षः प्रभुः पार्श्वः पातु परप्रभावपरमः पापात् परं प्राणिनाम् ॥८॥
॥ अथ कविनामगर्भश्चक्रबन्धः ॥
यस्मात्प्रापुरशेषशोक कलहक्रोधव्रजा अत्ययं शोभाभासितभूघनप्रकलितो विश्वप्रपूज्य मुनिः ॥ विज्ञैर्वन्दितपूज्यपादक मलः पार्श्वः सतां बल्लभः जन्तुक्षेमकरो वरस्सकनकाभासः श्रिये स्तान्मम ॥९॥
सर्वेऽखर्वकु गर्वपर्वरहिताः प्राज्ञाः प्रियं प्राणिनाम् सर्पहरं वरं शिवकरं सारं सदा सादरम् ॥ श्री पार्श्वस्य नवन्नवन्नवनरा भक्त्या भवच्छेदनं
कण्ठाग्रे कलयन्तु कौतुककरं कौटिल्यकुण्ठा इदम् ॥१०॥
पादिप्रबन्धक लिता वचनावलीयं पार्श्वस्य पादकमले भ्रमरावलीव भूयात् सदा सुखमधुक्षरणा निविष्टा स्वाराधनैकनिपुणस्य बुधस्य चिते ॥११॥
इति श्रीविततपाण्डित्यताण्डवताण्डवितकीर्त्तिकौमोदीक श्रीमद्विजयनेमिसूरीश्वरपादपद्मनिर्यन्मकरन्दविन्दुतुन्दिलचितभ्रमस्य शोचिजयविरचितं पादिपदकदम्बमयपार्श्वाष्टकं स्तोत्रं समाप्तम् ॥
Page #21
--------------------------------------------------------------------------
________________
निर्दन्त्यबन्धाख्येन चित्रकाव्यभेदेन ॥ श्रीपार्श्वेश्वरस्तोत्रम् ।।
विजयनेमिसूरीश्वरशिष्यः
स्व. प्रवर्तकमुनिश्रीयशोविजयः श्रीपाचं प्रणमामि पापहरणं मायाविघट्ट परं गाम्भीर्ये परमर्णवं प्रभुमहं गीर्वाणपूज्यक्रमम् ॥ श्रीशुभ्रांशुमुखं परं गुणकरीं जीवे घृणां शेमुषीं कुर्वाणं जडभावचूर्णकवरं चञ्चूर्यमाणागमम् ॥१॥ आचारेशमहं कृपापरिणमज्जीवोपकारक्षमैः वाक्यैः पापघटाविघट्टकमहावेगप्रभावाकरैः ॥ जीवेषूरुगुणप्रवाहचयमाचक्राणमिष्टं भुवि विश्वव्यापियशोभरं च महये श्रीपार्श्वमीड्यं प्रभुम् ॥२॥ गीर्वाणेशकिरीटकोटिक्षणाचेक्रीयमाणारुणं विश्वश्रेष्ठगुणं क्रमप्रभवकं बिभ्राणमाढ्यं रुचा ॥ श्रीशङ्केश्वरमण्डकं भविभरप्रेमैकगेहं परं श्रीयोगीश्वरशक भूपरिवृद्धैः पूज्यं महर्षिं श्रये ॥३॥ विश्वेडपारभवार्णवप्रवहण ! श्रीशूकवारीश्वर ! विश्वे मोहमहीरुहोरुपरशो ! रोषाचरे शम्बक ! ॥ प्रौढश्रीगुणराजिपङ्कजगणेऽवश्यायराशिं विभो ! मायां मे हर विज्ञ ! पूरुषवर ! प्राणप्रियेश ! प्रभो ! ॥४॥ श्रीमोहापहरं परं प्रभुमहं पुण्येशमीशं श्रियां वाग्पीयूषविवर्षकं परशिवप्रायं परं प्राणिनाम् ॥ श्रीमारप्रविणाशमेव वपुषा श्रीहाटकश्रीहरं ईडे पार्श्वविभुं च पूरुषवरं श्रीपूरुषेड्यश्रियम् ॥५॥ श्रीकाम्यं शशिभाभमीशममरैः पूज्यक्रमाम्भोरुहं कार्याकार्यविवेचकागमवरं पुण्यप्रवाहार्णवम् ॥
2010_04
Page #22
--------------------------------------------------------------------------
________________
4
.
गेयं मेघगभीरघोषमपरं भव्याम्बुजाहर्मणिं श्रीपाचं प्रणमामि भीभरहरं वाचंयमेशं परम् ॥६॥ मां मायापरिमोहरोहभयकं कम्प्रं रुजारौरवैः कष्टव्यूहविशारणैकपटुकश्रेयोभरभ्राजक ! ॥ वामामव्रजपशोषकरणप्रौढार्कबिम्बोपम ! प्रज्ञापाटवमीश ! यच्छ परमब्रहौकरूप ! प्रभो ! ॥७॥ ज्ञेयाज्ञेयविवेचकं प्रभुमहं पाद्यप्रपूज्यं परं । बिभ्राणं गुणराजिगौरववरं क्षीणाष्टकर्मव्रजम् ॥ श्रीपाच परिबृंहणं शमयमश्रेण्याश्च वाण्याश्चयैः ईडे विश्वविभुं विवेकिशरणं कर्मव्रजाच्छोटकम् ॥८॥ श्रीनेमीश्वरसूरिराज्यसमये प्रौढप्रभावाकरे तेषां पूर्णपरप्रसादमहिमाभ्राजिष्णुनाजिष्णुना तच्छिष्येण नुतो यशोविजय इत्याख्याभृता साधुना निर्दन्त्यार्णपदैः स्तुतः प्रभुरिति श्रेयो विधत्तात् सताम् ॥७॥
॥अथ कविनामगर्भश्चक्रबन्धः ॥ यस्मान्मोहमहीरुहोरुपरशोः सञ्जायतेऽघात्ययः शोरीर्येण सुशोभितश्च परितः पापौघशैलाशनिः ॥ विद्यावैभववर्द्धकः प्रपवनः पार्श्वः श्रियां दायकः जन्माद्यार्तिमिमां प्रभिद्य परमं स्थानं विधत्तान्मम ॥१०॥ निर्दन्त्यार्णपदप्रबन्धपरमानन्दप्रदानोद्यतां पाशेिषगुणैकरत्नरचनाचित्रीकूतान्तर्मतिम् ॥ श्रीपार्श्वस्य पठन्तु संस्तुतिमिमां भव्याम्बुजाहःप्रभा निःशेषव्यसनौघनाशनकृते मात्सर्यमुक्ता बुधाः ॥११॥
इति श्रीशकलितसकलकलहकोलाहलकपटकुलकलशैलकूटप्रविघट्टनप्रकटकौशलकुलिशायमाननिःशेषशेमुषीसमुन्मेषपराजितापरापराजितनिर्जराचार्यवर्याचार्यवर्यश्रीमद्विजयनेमिसूरीश्वरपादपद्मेन्दिन्दिरायमाणविनेययशोविजयविरचितं
निर्दन्त्यपदकदम्बमयपाष्टिकं स्तोत्रं समाप्तम् ॥
2010_04
Page #23
--------------------------------------------------------------------------
________________
धर्माभासकुलकम्
विजयशीलचन्द्रसूरिः
AAD
Kanepal
अतिरेको हि धर्मस्य धर्माभासोऽभिधीयते । अध्यासो वर्धते येना-ऽभ्यासश्च क्षीयते यतः ॥१॥ अभिलाषो यशःकीर्ती, शिलालेखादिके तथा । हठो नामालेखनस्य नामाध्यासोऽभिधीयते ॥२॥ शिष्य-शिष्यापरीवार-वृद्धितृष्णापुरस्सरम् । क्रियते यदनुष्ठानं शिष्यमोहस्तदुच्यते ॥३॥ यदैहिक सुखावाप्ति-लालसागर्भमानसे । जायते धर्मकर्मेच्छा वासना सा निगद्यते ॥४॥ परेषां दोषगानाय निजोत्कर्षाय या क्रिया । क्रियते धर्ममार्गस्य क्षुद्रता सा खलूच्यते ॥५॥ सर्वोत्कटोऽहं सर्वेऽपि मत्तो निम्ना इतीह या । बुद्धिर्धर्मात्मनः सेयं परमा ह्यविवेकिता ॥६॥ दया न यत्र दीनेषु दीनानां शोषणं तथा । धर्मच्छलेन क्रियते सोऽधर्मः परमो ननु ॥७॥ उपदेशे धर्मवार्ता पालने धर्महीनता । स्वैराचारो धर्मनाम्ना मिथ्यात्वं तद्धि कथ्यते ॥८॥ मोक्ष-मोक्षेति रटना क्रियते स्वार्थसिद्धये । लोकव्यामोहनार्थं च सा वाचो व्यभिचारिता ॥९॥ धर्मो धनस्य लाभार्थं धनाध्यासो निगद्यते । स चेतु पदस्य प्राप्त्यर्थं पदाध्यासोऽभिधीयते ॥१०॥
AKA
JA
2010_04
Page #24
--------------------------------------------------------------------------
________________
A
stant
।
Kinadi
ऐहिकं दैहिकं भोग-सुखं प्राप्तुं क्रियेत यत् । धर्माचरणमेतत्तु नितान्तमात्मवञ्चना ॥११॥ 'अहं' पदाभिधेयं स-दात्मतत्त्वं विहाय तत् । देहेऽहं प्रत्ययो यस्माद् वर्धते धर्मतः खलु ॥१२॥ यद्यप्यत्राऽऽत्मरटना कामं धर्मश्च दृश्यते । तथाऽपि देहाध्यासोऽयं धर्मगन्धोऽपि नाव भोः ! ॥१३॥ (युग्मम) ब्रवीत्यसत्यं निःशङ्ख मनुजान् विप्रलम्भयन् । अन्यायं कुरुते लोके पामरान शोषयत्यलम् ॥१४॥ धूलिक्षेपं लोकनेत्रे कृत्वा चौर्यं करोति यः । पापाचरणनिःशूको भ्रष्टाचारश्च यो जनः ॥१५॥ एवंविधस्य मर्त्यस्य यद् धर्माचरणं शुभम् । नैवातिरिच्यते धर्माभासाद ज्ञानिदृशा तकत् ॥१६॥ (त्रिभिर्विशेषकम) आसेव्येह महापापं धनं सम्पाद्य भूरि च । तस्याडल्पांशं धर्मकार्ये व्यापूयेद् यो दुराशयः ॥१७॥ न केवलं मन्यतेऽसौ स्वं धर्मात्मानमुच्चकैः । गुरवोऽप्यस्य मन्यन्ते तं श्रेष्ठं धर्मिणं जने ॥१८॥ एकोऽत्र पापप्रच्छादी अन्ये भक्ताभिलाषिणः । यतोऽतस्तत्कूतो धर्मो धर्माभासत्वमर्हति ॥१९॥ (विशेषकम) नवनवतियात्रासु श्रीशत्रुञ्जयपर्वते । यतनापालनं नो चेद् यात्राभासो भवेदयम् ॥२०॥ साधर्मिकाणां वात्सल्ये रात्रौ रसवती भवेत् । यतनाशून्यमेतत्तु वात्सल्याभास उच्यते ॥२१॥ उत्कट यस्तपः कृत्वा धनोपार्जनमादरेत् । उत्सवादिमिषेणैतत् तप-आभास उच्यते ॥२२॥
A
thade
Karis
2010_04
Page #25
--------------------------------------------------------------------------
________________
di
रात्रावपि संयमिनां गमनागमनं पथि । जिनभक्त्यादिव्याजेन भक्तेराभास एव हि ॥२३॥ तपःप्रभूतिकृत्यानि कार्यन्ते यत् प्रलोभनम् । दत्त्वा, न धर्म एष स्याद् नूनं स्यादात्मवञ्चना ॥२४॥ "वयं वहामो निर्दोष-चर्यामन्ये न तादृशाः” । एवमात्मन उत्कर्ष-मपकर्षं परस्य च ॥२५॥ ये वदन्ति तथा मायाचारं नित्यं चरन्ति ये । तेषां धर्मः समग्रोऽपि धर्माभासान्न भिद्यते ॥२६॥ (युग्मम्) यतनायामेव धर्मो यतनैवाऽथवा तकः । आचारो यतनायुक्तो 'धर्मे'ति ख्यातिमर्हति ॥२७॥ यतना यत्र नो मुख्या, उपयोगेऽपि शून्यता । परिणामविहीनत्वाद् धर्माभासोऽयमुच्यते ॥२८॥ (युग्मम्) साधवश्चाऽथ साध्व्यश्च श्रावकाः श्राविकास्तथा । यदाऽऽदरन्ति यतनां धर्मोपेतास्तदा हि ते ॥२९॥ यतनोपेक्ष्यते यत्र यदा चैभिस्तदा ध्रुवम् । या क्रिया क्रियते नूनं सा धर्माभास इत्यलम् ॥३०॥
ava
SUP
REThane
श्रीर्मङ्गलात् प्रभवति प्रागल्भ्याच्च प्रवर्धते । दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति ॥
2010_04
Page #26
--------------------------------------------------------------------------
________________
न विधिरपि दयते !!
प्रा. अभिराजराजेन्द्रमिश्रः,
विधिरपि खलु विपदहनि न दयते मिलति किमपि न जगति शरणाय ! नरि-नरि, दृशि-दृशि, मनसि-मनसि, हृदि उदयति गरलममृतमपहाय !! धावति नभसि वृथा घनमाला जलकणमपि नहि गिरति कराला । ताम्यति धरणी बीजविशरणी को नु यतेत प्रकृतिहिताय ?? कृष्णसखोऽपि सुदामा दीनः । सरसि सङ्कुचति विकलो मीनः । दवदहने क्व नु वनहरीतिमा काकगृहे क्च नु सुखं पिकाय ?? ते नु शरास्तदेव गाण्डीवम् सव्यसाचिनस्तदेव वीर्यम् । सोऽपि जितो हा भिल्लकिरातैः विवशो, हरिदयिताहरणाय !! शकटीं वहति कदाचिन्नौका स्वयमुह्यते शकट्या नौका । भाति विचित्रं दैवविलसितं जन्म भवति जन्तोमरणाय !! पापरतानां सुलभा मुक्तिः शिवकृपयेति, दीयते युक्तिः । तलाऽङ्गीकुरुते स कबीरः मगहरमेति मरणवरणाय
___१. काश्यां मरणान्मुक्तिरिति ।
2010_04
Page #27
--------------------------------------------------------------------------
________________
"उत्तरायणं स्वागतं कुरु" ?
विद्वान् महाबलेश्वरशास्त्री
उत्तरायणमागतं स्वागतं कुरु सुन्दरम् । दीर्घदीर्घदिनाबूतं मानवोन्नतिसूचकम् ॥१॥
रक्तवर्णमनोहरं पश्य बालदिवाकरम् । शक्रदिग्गगनस्थितं नेत्रसुन्दरदर्शनम् ॥२॥
धेनुरक्षणतत्परा-वत्सरोदनजागृताः । ग्रासघासप्रदायकाः क्षीरदोहनसंस्थिताः ॥३॥
पुष्पिताम्रमहाद्रुमं कोकिलध्वनिमञ्जुलम् । मन्दमारुतपूरितं मानसोत्सहनेरतम् ॥४॥
क्षेत्रसंस्थितकर्षकाः मन्दहाससमन्विताः । प्रातरागमनोत्सुकाः धान्यसङ्ग्रहतत्पराः ॥५॥
सूक्तिभाषणसूचकं शर्करातिलमित्रणम् । दातुमत्र समुत्सुकाः भूषिताम्बरमानवाः ॥६॥
पैतृकं तिलमिश्रितं तर्पणं जलपूरितम् । भक्तिभावसमन्विताः कर्तुमुद्यतमानवाः ॥७॥
अम्बरे खगसकुलाः कूजितैर्मधुरैर्युताः । नैकवर्णमनोहरा: धान्यसङ्ग्रहणागताः ॥८॥
2010_04
Page #28
--------------------------------------------------------------------------
________________
गङ्गाष्टकम्
विद्वान् महाबलेश्वरशास्त्री
गङ्गे पाहि गङ्गे पाहि गङ्गे पाहि पाहि मां काशिकापुराधिवासे पापराशिनाशिनि । विष्णुपादसम्भवे गिरीशकेशवासिनि नाकलोकवासिशक्रमुख्यदेववन्दिते ॥१॥
नामकीर्तनानुरक्तभक्तरक्षणोद्यते मर्त्यलोकपावने भगीरथेप्सितप्रदे। सागरान्तु कापिलाग्निभस्मभावमागतान नाकलोकवासयोग्यताप्रदानतत्परे ॥२॥
यज्ञवाटिकाविनाशकोपिजहनुपायिते जहनुकोपशान्तये भगीरथोक्तिभाजने । स्तोत्रतुष्टजनुकर्णमध्यतो धरां गते जाह्नवीत्यभिख्यया धरातले जनैः स्तुते ॥३॥
त्वज्जलेऽस्थिभस्म यस्य तस्य मोक्षदायिके त्वं भगीरथस्य नन्दनेति ख्यातिमागते । त्वत्प्रवाहमज्जनप्रपूतपापिमानवे साधुवृन्दवर्णितप्रभावभाजनान्विते ॥४॥
पार्वतीशकेशराशिमध्यभागभूषणे त्वत्प्रवाहशीकरप्रपूतमन्दमारुते । साधुमज्जनप्रभावनष्टपापभावने मीननक्रमुख्यवारिजीविजीवनाश्रये ॥५॥
ANDE
७
2010_04
Page #29
--------------------------------------------------------------------------
________________
भीष्मजन्मकारणे पवित्रवारिपूरिते देवलोकपुण्यवाहिनीति लोकविश्रुते । स्नानपानपुण्यभावमानवैर्विराजिते भारतीयगेहगेहदेवपीठपूजिते ॥६॥
भक्तमुक्तिदायिनीति सज्जनैः प्रशंसिते देवभावपूरिताम्बुपूर्णपूतवाहिनि । तीरवासिमर्त्यपावनेति लोकविश्रुते शीतशैलसम्भवे गिरीशमस्तकस्थिते ॥७॥
वेदमध्यभागशंसितप्रभावशोभिते वाद्यमिश्ररम्यगानतत्परैर्विराजिते । वेदपाठकोविदैरनन्तभाक्तिपाठिते मानवान्त्यकालबिन्दुपानमोक्षदायिनि ॥८॥
स्नानकाले पठेद्यस्तु गङ्गाष्टकमिदं शुभम् । गङ्गास्नानफलं सोऽपि विन्दते नात्र संशयः ॥९॥
१६
2010_04
Page #30
--------------------------------------------------------------------------
________________
A
AB
STAR
ग्रामजीवनम्
डॉ. वासुदेव वि. पाठकः ‘वागर्थ'
ग्रामजीवनं स्वस्थजीवनम् सर्वजीवनं प्रकृतिप्रियम् ॥
स्वच्छं जलं चाऽत्र नैव दूषणम् सौम्यं प्रतीयते धन्यजीवनमः सौख्यं निरन्तरं भावजीवनम् ग्रामजीवनं रम्यजीवनम् ॥ सर्वजीवनं... ॥
कृषकाश्च सर्वेऽपि भद्रतायुताः हरितेषु क्षेत्रेषु, उद्यमे रताः; क्षेत्रे क्षेत्रे भाति भव्यमुपवनम् ग्रामजीवनं रम्यजीवनम् ॥ सर्वजीवनं... ॥
ब
2010_04
Page #31
--------------------------------------------------------------------------
________________
ऐक्यमेव
डॉ. वासुदेव वि. पाठकः 'वागर्थ'
यत्र सर्वं वृथाः का कथा च का व्यथा ?.....
नभसि चित्रितं यथा लिखितं चाडप्सु यथा, सर्वमेव तत्तथा,
का कथा च का व्यथा ?
लब्धमिदं लप्स्ये इदम् कूतमिदं करिष्येऽहम् । लोलुपत्वं मा कृथाः
का कथा च का व्यथा ?
सर्वं सृष्ट्यात्मकम् सर्वं ब्रह्मात्मकम् । ऐक्यमेव सर्वथा
का कथा च का व्यथा ?
DHAAR
THEMLA
SoSNAL
१८
2010_04
Page #32
--------------------------------------------------------------------------
________________
आस्वादः
2010_04
चिन्तनधारा
गङ्गा पापं शशी तापं, दैन्यं कल्पतरुस्तथा ।
पापं तापं च दैन्यं च, हरेत् साधुसमागमः ॥
व्यक्तार्थ एवाऽयं श्लोकः । साधुसमागमस्य महिमा वर्णितोऽस्त्यत्र श्लोके । सङ्गतिर्जीवनशिल्पनिर्माणस्य बीजमस्ति । उन्नतिमपि दातुं क्षमा सङ्गतिरवनतिमपि ।
साधुत्वमत्र चिन्तनीयम् ।
साधुत्वस्य मूलमस्ति वैराग्यं समाधिस्तु शिखरः । बोधस्य कश्चिदवस्थाविशेष एव वैराग्यम् । विरागत्वमेवोपास्यं न विरसत्वम् । नहि वैराग्यं कदाऽपि नीरसं भवति । यतो 'ज्ञानस्य फलं विरतिः' - वैराग्यं तु ज्ञानस्य फलमस्ति । ज्ञाने परिपक्वे सति जायमाना चित्तस्थितिरेव वैराग्यं नाम । बोधे तु जायमाने वस्तु व्यक्ति वातावरणं च विषयीकृत्य दृष्टिकोण एव परिवर्तते । बोधो न नीरसं करोति, अपि तु जागृतं करोति । अनासक्तिररुचिश्चो भयोरपि महदन्तरमस्ति । वैराग्यमनासक्तभावं जागरयति नाऽरुचिम् । अपरिपक्ववैराग्येण जायतेऽरुचिः । सर्वत्राऽसारस्य क्षतेर्वैवाऽन्वेषणं नामाऽपरिपक्वं वैराग्यं, किन्तु सर्वस्मात् सारमुद्धृत्य तत्सदुपयोगस्य वृत्तिर्हि परिपक्वं वैराग्यम् । 'असारात् सारमुद्धरेद्' इत्यस्त्युक्तिः खलु ! वैराग्यस्य भाषा नाऽनादरं द्योतयति किन्त्वनासक्तिमेव व्यनक्ति ।
मुनिरत्नकीर्तिविजयः
परिपक्वं वैराग्यं नामेक्षुयष्टे रसमास्वाद्याऽवशिष्टस्याऽसारभागस्य त्यजनं किन्तु, असारभागं मनसिकृत्येक्षोस्त्यजनं हि वैराग्यस्याऽपरिपक्वतां प्रकटयति । यतो वैराग्यं यदि परिपक्वं स्यान्न नीरसं स्यात् ।
अपरिपक्वं वैराग्यं वस्त्वादीनां त्याग एव स्वकीयं सार्थक्यं परिकल्प्य तिष्ठति । किन्तु परिपक्वं वैराग्यं हि ततोऽप्यग्रे ममत्वत्यागपर्यन्तं गच्छति । एतादृशं वैराग्यं हि स्वभावत्वेन परिणमति ।
नहि चित्ते वैराग्ये समुत्पन्ने सर्वं वस्त्वादिकं विसृज्यते किन्तु तत्प्रत्यवस्थितो रागभावो ममत्वं वा क्षीयते । अपगते रागभावे वस्त्वादीनामस्तित्वं नास्तित्वं वा न तावन्महत्त्वपूर्णं भवति । भगवदुमास्वातिमहाराजेन विरचिते श्रीतत्त्वार्थसूत्रे सूत्रमेकं विद्यते- 'मूर्च्छा परिग्रहः' इति । किं नाम परिग्रहः ? मूच्छैव ! आसक्तो
१९
For Private Personal Use Only
Page #33
--------------------------------------------------------------------------
________________
| भिक्षुकोऽपि परिग्रह्येव, अनासक्तश्च भूमिपतिरप्यपरिग्रह्येव ।
वैराग्याभावे यश्चित्तभावो भवति स हि शरीरे त्वगिव वस्त्वादिषु संसक्तो 4 भवति । त्वगुच्छेदे पीडा जायत एव । किन्तु वैराग्ये समुत्पन्ने चित्तभावः शरीरे
वस्त्रमिवाऽसंसक्तो जायते । वस्त्रापनयनं न पीडादायकं भवति । अतो वस्त्रापनयनं न वैराग्यं किन्तु शरीरे वस्त्रमिव पदार्थादिष्वसंश्लिष्टा चित्तवृत्तिरेव वैराग्यम् ।
वैराग्ये जागृते न परिस्थितेराश्रितो भवति जनः । यत्र कुत्राऽपि स सानन्दं वस्तुं प्रभवति । स महालयेऽप्युटज इव निराडम्बरं स्थातुमर्हति, एवमुटजेऽपि महालय इवैश्वर्यमनुभवितुं प्रभवति । उटजो वा स्यान्महालयो वा तस्याऽऽनन्दमयी चित्तवृत्तिः स्थान-पदार्थादीन् नाऽवलम्बते । एतदेव ह्यनलङ्कारविभूषणत्वं निर्द्रव्यपरमेश्वरत्वं च।
कस्मिंश्चिद् ग्रामे महात्मा कश्चित् समागतः । नित्यं च जनान् सन्मार्गमुपदिशति स्म सः । तस्याऽऽनन्दमयेन स्वभावेन प्रसन्नया च मुखमुद्रया, निःस्पृहत्वेन, त्यागवृत्त्या च ग्रामजनाः प्रभाविता जाताः । सर्वत्र प्रसृता तस्य कीर्तिः । राजाऽपि तत्रत्यस्तत्कीर्ति श्रुतवान् । अहोभावेन प्रेरितः सोऽपि तद्दर्शनाय गतवान् । प्रथमदर्शनेनैव राजाऽपि तस्य भक्त इव सञ्जातः । 'मम राजमहालये पादाववधारयतु भवान्, तत्र स्थित्वा च मामप्युपदेशेनाऽनुगृह्णातु'- इति विज्ञप्तवांश्च । महात्माऽपि सोऽङ्गीकृतवांस्तद्वचनम् । अपरस्मिन् दिने च समागतवान् महात्मा । प्रसन्नो जातो नरपतिः । महालयस्य परिसर एवैकस्मिन्नावासे तद्वासाय व्यवस्थां कल्पितवान् । राजमहालय इवैव सर्वाऽपि तत्र व्यवस्थाऽऽसीत् । उपदेशश्रवणादिना दिनानि सुखेन व्यतियन्ति । राजाऽपि प्रसन्नोऽस्ति महात्माऽपि ।
कदाचिद् राज्ञश्चेतसि कश्चित् प्रश्नः समुत्थितः । एकदा नित्यमिवोपदेशश्रवणादिना निवृत्य स एकान्तं ज्ञात्वा स्वजिज्ञासां व्यक्तवान् - 'महात्मन् ! यथाऽहं महालये वसामि तथा भवानपि महालय एव वसति । यदपि भोज्यादिकमहमुपयुनज्मि तदेव भवानप्यपयुनक्ति । यच्च वैभवमहमुपभुजे तदेव हि भवानप्यूपभुङ्क्ते । तहि किमन्तरमावयोर्मध्ये ?' महात्मा हि स्मितमद्रया सर्वं तत्कथनं श्रुतवान् । उक्तवांश्च - 'प्रश्नस्याऽस्य प्रत्युत्तरं श्वः प्रातभ्रमणसमयेऽहं दास्यामि ।' तथेति स्वीकृतवान् राजा ।
अपरस्मिन् दिने समयात् पूर्वमेव सज्जीभूय राजा समागतः । जिज्ञासा
२०
2010_04
Page #34
--------------------------------------------------------------------------
________________
शमनायैषोऽद्याऽचिरमागत इति महात्मा बुद्धवान् । उभावपि निर्गतौ । मार्गे महात्मा मौनमेव चलति । किन्तु जिज्ञासातुरो राजा पुनः पुनर्महात्मनो मुखमवलोकयति । किमप्यकथयन्तं महात्मानमवलोक्य पृष्टवान् - 'महात्मन् ! मम प्रश्न....' ! 'हम्... जानाम्येवाऽहम् । किञ्चिदग्रे गत्वा समाधास्यामि' - महात्मोक्तवान् । पुनरग्रे चलितौ । इदानीं बहुदूरं तौ समागतावास्ताम् । सहसा महात्मा दृष्टिमुन्नीयोक्तवान् - 'राजन् ! चलतु, आवामितो निर्गच्छावः । न पुनर्गन्तव्यं गृहे' इति । 'अरे भगवन् ! कथमेवं भवेत् ? दायित्वभारं निर्वहाम्यहं समेषाम् । मां विना च मम परिवारजनानां परिचारकाणां प्रजानां सम्पदादीनां च का गतिः स्यात् ? मम कृते नैतच्छक्यम्' - स्तब्धो नृपतिः प्रत्युत्तरितवान् । ___'हम्... एतदेव भवज्जिज्ञासायाः समाधानम् । सर्वं समानं सदप्यहं सर्पः कञ्चुकमिवैतत् त्यक्त्वाऽग्रे गमिष्यामि किन्तु भवता प्रतिगन्तव्यमस्ति । एतदेवाऽन्तरं खल्वावयोर्मध्ये ? ज्ञातं किल ?' - इति महात्मा सस्मितं प्रोच्याऽग्रे गतवान् । विचारचक्रमारूढ इव राजा दिङ्मूढ इव तत्र स्थितः । स सत्यं ज्ञातवानासीत् ।
एतदेव वैराग्यस्य सत्यम् । न नीरसा मनोवृत्तिरपि तु निर्लेपा मनोवृत्तिरेव वैराग्यम् ।
आयुर्वायुतरत्तरङ्गतरलं लग्नापदः सम्पदः । सर्वेऽपीन्द्रियगोचराश्च चटुलाः सन्ध्याभ्ररागादिवत् । मित्र-स्त्री-स्वजनादिसङ्गमसखं स्वप्नेन्द्रजालोपमं
तत्कि वस्तु भवे भवेदिह मुदामालम्बनं यत् सताम् ?।। द्विविधो बोधः-स्वरूपस्य बोधः स्वभावस्य च बोधः । पदार्थादीनां स्वरूपबोधो रागद्वेषादिकं जनयति किन्तु स्वभावबोधो वैराग्यं जनयति । श्लोकेऽस्मिन् स्वभावो बोधितोऽस्ति । स्वभावबोधे जाते भ्रमनिरसनं भवति । दण्डे पादस्य बुद्धिर्मोहः । न जनो दण्डेन चलति किन्तु पादाभ्याम् । दण्डस्तु गत्यवष्टम्भ एव केवलम् । एष बोध एव वैराग्यम् ।
सरसेयमुक्तिः - "तत्कि वस्तु मुदामालम्बनम् ?' - एषैव विरक्तस्य चित्तवृत्तिः । न हि स पदार्थान् सुखस्याऽऽनन्दस्य वाऽऽलम्बनं गणयित्वा वर्तते । अतो विपरीता चित्तवृत्तिः सङ्क्लेशस्य जनयित्री अस्ति । आयुष्यल्पेऽवशिष्टे जनस्य क्रन्दनं वर्धते । यतस्तदर्थं ह्यायुः सुखमिति सत्यमासीद् न तु जीवनं
2010_04
Page #35
--------------------------------------------------------------------------
________________
सुखमिति । सम्पत्तिमेव सुखसाधनं गणयित्वा जीवन् तदभावे तदल्पत्वे वा विह्वलो जायते । इन्द्रियाणां शैथिल्ये रूपरसगन्धादिविषयाणामनुभवन्यूनतायां'किमथ कुर्याम् ? सर्वं नीरसं जात'मित्यादि विकल्पयन्, अनुभवतश्च परान् दृष्ट्वाऽन्तस्तापेन परितपति । यतस्तस्य सुखमिन्द्रियाधीनमासीत् । मित्र-स्त्रीस्वजनादीनां च दूरत्वेऽभावे विमुखत्वे वाऽपि स स्वमेकाकिनमनुभूय व्यामूढो जायते । एवमायुःसम्पत्स्वजनादिष्वेव स्वकीयं सुखमवबुध्यमानस्तेषां वैपरीत्ये यन्निराधारत्वमनुभवति स एव क्लेशः । तत एव च रागद्वेषादिभावाः समुत्पद्यन्ते । किन्तु, आयुरादीनां स्वभावबोधेन वैराग्ये समुद्भूते न ह्येतान् स सुखालम्बनत्वेन पश्यति । आनन्दनिर्झरस्तु तदन्तरेव प्रादुर्भवति । तदनु च तच्चित्तं सदैवाऽऽनन्देन प्लावितं तिष्ठति ।
अन्यच्च वैराग्यतेजो न परान् सम्मोहितान् करोति किन्तु प्रकाशितान् करोति । सम्मोहित आश्रितो जायते प्रकाशितश्च स्वतन्त्रः । विचार-वाणी-वर्तनादीनां स्वातन्त्र्यं यद्यपि तत्र विद्यते किन्तु सहजविवेकनियमितं तत् स्वातन्त्र्यं भवति । विवेक एव प्रकाशः खलु ?।
यत्र चैतादृशं वैराग्यं सिध्यति तत्र साधुत्वं प्रकटीभवति । तादृशस्य च साधोः समागम: पापादीन् हरति ।
त्रीण्यपि कार्याण्येकेनैव साधुसमागमेन सिद्धयति । साधुसमागमो न केवलं पापमपि तु पापमूलां पापबुद्धिमपि नाशयति । पापबुद्ध्यपगमे हि पापं न तिष्ठति न च पुनर्जायतेऽपि । तदनु, सन्तापनाशं करोति साधुसमागमः । विविधाः सन्तापा विद्यन्ते संसारे - सम्पत्त्यभावः सन्तापः, सन्तत्यभावः सन्तापः, पुत्रपुत्र्यादीनामुन्मार्गगमनं सन्तापः, परिवारे परस्परं स्नेहाभावः सन्तापः, व्यापारनियोगादिष्वभीष्टलाभाभावः सन्तापः, सम्बन्धानामस्थैर्य सन्तापः-इत्यादयः । किन्त्वेते एतादृशश्चाऽन्ये सर्वेऽपि सन्तापा एकेनैव शब्देन परिचेतुं शक्यन्ते - मोहसन्तापः । मोह एव सन्तापः । अत्र सर्वत्र मोहबुद्धिरेव सन्तापं जनयति । साधुसमागमो मोहं नाशयति सम्यग्दृष्टिं चोद्घाटयति । सत्ये लब्धे मोहो विनश्यत्येव । मोहे नष्टे कुतः सन्तापः?
अनिष्टस्योद्वेगो यथा सन्तापः परिगण्यते तथैवेष्टस्योन्मादोऽपि सन्ताप एव । साधुसमागमः समदृष्टिं विवेकदृष्टिं च प्रकटयति । विवेकः सत्यमेव पश्यति ।
2010_04
Page #36
--------------------------------------------------------------------------
________________
2010_04
पदार्थानां सत्यमस्ति क्षणनश्वरत्वं सम्बन्धानां च सत्यमस्ति स्वार्थः । सत्यं नाम स्वभावः । स्वभावबोधो रागद्वेषादिद्वन्द्वेभ्यः परं करोति । यथा चाकलेहस्य गलनस्वभावं जानन् जनस्तस्य माधुर्यमास्वाद्याऽऽनन्दमेवाऽनुभवति न किन्तु तस्य गलनेन सन्तापमनुभवति । यतो गलनं चाकलेहस्य स्वभाव एवेति स जानाति । एवं यदि सर्वत्र पदार्थसम्बन्धादिषु स्वभावमवबुध्य विवेकेन वर्तेत तर्हि तत आनन्दं प्राप्तुं प्रभवेज्जनः । तेषां च नाशेन वैपरीत्येन वा न सन्तापो जायेताऽपि । साधुसमागमो मोहं विनाश्यैतादृशं स्वभावबोधं विवेकं जनयति ।
तदनु चाऽस्ति दैन्यम् । किमिदं दैन्यं नाम ? इच्छा दैन्यम् । साधुसमागम इच्छां चूरयति न तु पूरयति । इच्छापूरणं दैन्यं शमयति नाऽपगमयति । इच्छाचूरणमेव दैन्यमपगमयति । इच्छाया अभावे दैन्यं न विद्यत एव ।
साधुसमागमः पाप-ताप - दैन्यानां मूलं प्रहरति । वस्तुतस्तु 'पापं तापं च दैन्यं च, हरेत् साधुसमागम:' - इत्युक्त्या सुभाषितकारः कथयति यत् साधुसमागमः साधुत्वं प्रकटयति । पापबुद्धिर्मोहसन्ताप इच्छारूपं च दैन्यं यत्र न विद्यते तत्र साधुत्वमेव भवति नाऽन्यत् किमपि । स्पर्शमणिर्लोहं सुवर्णत्वेन परिणमयति न स्पर्शमणित्वेन तथा गङ्गा शशी कल्पवृक्षश्चैते त्रयोऽपि यद्यपि पापादीन् नाशयन्ति किन्तु न स्वकीयं रूपं प्रददतेऽर्थिभ्यः । परं साधुजनस्तु परान् स्वतुल्यानेव करोति येन ते स्वाधीनाः स्युः इत्यस्ति श्लोकस्याऽस्य तात्पर्यार्थः ।
-
औचित्यमेकमेकत्र गुणानां कोटिरेकतः । विषायते गुणग्राम औचित्यपरिवर्जितः ॥
२३
For Private Personal Use Only
Page #37
--------------------------------------------------------------------------
________________
PARAN
Thate
उपम60
ASSIGRSEara
-- किं दु:खस्य मूलम् ? आस्वादः
मुनिधर्मकीर्तिविजयः विचारस्य विषय एव न भवति विधातुर्वृत्तम् । रहस्येव तिष्ठति विधेविलसितम् । न कोऽपि जनो विधातुर्विरचनं ज्ञातुं समर्थोऽस्ति न च तस्य रचितस्य कश्चित् प्रतीकारमपि कर्तुं शक्नोति । यद्यपि वैशिष्ट्यं ददात्येव विधाता सर्वेभ्यस्तथाऽपि काञ्चन न्यूनतामपि ददाति ।
विश्वस्मिन् विश्वे नैकोऽपि जनः परिपूर्णरूपेण सुख्यस्ति, नाऽपि च पूर्णतया गुण्यस्ति । येषु गृहेषु जना निर्व्यसनिनः सद्गुणिनश्च सन्ति तत्र कोऽप्येको जनो व्यसनी दुराचारी च भवति । यत्र च सर्वेऽपि सज्जनाः सन्ति तत्र धनस्याऽभावो भवति । तथाऽपि यदि जना यदपि प्राप्तं तेन सन्तोषमनुभवेयुस्तानन्दस्याऽवश्यमनुभूतिः स्यात् । किन्तु स्वभावेनैव जनाः तत्प्रत्युदासीना भूत्वा यन्नास्ति तदवाप्तुं प्रयतन्ते, ततो हस्तगतं सुखमपि नाऽनुभवन्ति । एवमतृप्तिरेव सर्वदुःखानां मूलमस्ति । सैव क्लेश-सङ्घर्षादीनामुत्पादयित्री, सैव सद्गुणानामपि विनाशिका । अद्य गृहे गृहे क्लेशाः प्रवर्तन्ते । जनकः पुत्रेण सह, श्वश्रूः वध्वा सह, पतिश्च पन्या सह क्लेशं करोति । 'मया यत् कथितं तत् त्वया न स्वीकृतम्, एतद्वस्त्वेतस्मै दत्तं मह्यं च न दत्तम्, एतान् प्रेम्णाऽऽह्वयन्ति किन्तु मां तु न कदाऽप्याह्वयन्ति' - इत्याद्यतृप्तिरेव तत्र कारणम् ।
एषाऽतृप्तिरनेकप्रकारैः प्रकटीभवति । अतृप्तिर्वस्तुन एवाऽस्तीति न, अपि तु व्यक्तेः प्रसिद्धः सत्ताया धनस्य चाऽप्यस्ति । वस्तुनो ममत्वत्यजनं सरलं, कदाचित् व्यक्तेर्ममत्वत्यजनमपि सुकरं, किन्तु पद-प्रतिष्ठा-प्रसिद्धीनां ममत्वत्यागस्तु सुदुर्लभोऽस्ति । अद्यत्वे वृद्धाः पदे पदे स्खलन्तोऽपि स्पष्टतया च वक्तुमशक्ता अपि स्वीकृतपदादीनां दायित्वं त्यक्त्वा निवृत्ता न भवन्ति । प्रकृतिवत् पदादिकमपि तेषां प्राणैः सहैव विलीनीभवेत्-इत्येव तेषामिच्छा । एतदेवाऽतृप्तेः परममुदाहरणम् । यत् पदादिकमपि न त्यजन्ति तत्र कारणमेतदेव यद्-अस्य पदस्य प्रभावेणैव समाजे ममाऽऽदरो भवति । यदि पदं त्यजेयं तहि समाजे कुत्राऽपि मे उन्नतं स्थानं न स्यात्, न च कोऽपि मम सन्मानमपि कुर्यादिति ।।
अद्यत्वे जना यथा प्रसिद्ध्यर्थं पदप्राप्त्यर्थं चाऽहर्निशमितस्ततोऽटन्ति, तथैव ।
रहाANTRAOSASUR2500
0
LSHANA
NSSORIALSHRECORRESS
A
2010_04
Page #38
--------------------------------------------------------------------------
________________
BANEERNAMIKA
R
AV
Wha
A
aaSHEE
धनार्थमपि निरन्तरं प्रयतन्ते । एक: श्लोकः स्मृतिपथमायाति
उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पति पतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः स्मशाने क्षपाः
प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मुञ्च माम् ॥ भग्नखट्वायां यस्य शयनं सोऽपि न सुखी यश्च पुनः प्रत्यहं सुवर्णपल्यङ्के ) स्वपिति सोऽपि न सुख्यस्ति । तथाऽपि धनप्राप्त्यर्थं जनैः किं किं न क्रियते इत्येव प्रश्नः । केनचिदुक्तं तव गृहस्य पूर्वकोणे धनमस्ति । एतच्छ्रुत्वा सर्वमप्युत्खातं किन्तु किमपि न प्राप्तम् ।।
___केनचित् कथितं-पर्वतमूलं गच्छ । तत्र विविधप्रकारा वनस्पतयो धातवश्च । TO विद्यन्ते । यदि त्वया ते प्राप्स्यन्ते तहि सुवर्णसिद्धिमवाप्स्यसि ।
____ कश्चिद् निर्दिष्टवान् - अब्धिमुल्लङ्घ्य 'अमेरिका'देशं गच्छ । तत्र ते भाग्यमस्ति ततो धनमवाप्स्यसि । एतदपि कृतं, किन्तु न रत्नं न धनं न च मौक्तिकं प्राप्तम् ।
केनचिद् मन्त्रज्ञेन गदितं - अस्य मन्त्रस्याऽऽराधनां कुरु, स्मशाने रात्रिमुषित्वा पदेनैकेनोत्थायाऽस्य देवस्यैतद्रीत्या जपं कुरु । एतदपि कृतं, किन्तु न किमपि प्राप्तम् ।
कश्चित् सूचितवान् - अस्य राज्यस्य नृपति सेवस्व । एतत् सर्वमपि कृतं, किन्तु समयव्ययं परिश्रमं च विना न किमप्युपलब्धम् ।
"इच्छा हु आगाससमा विसाला" इच्छाया अतृप्तेश्च पर्यवसानं तु नास्त्येव।। एकस्या इच्छायाः पूतिः स्यात्, पुनद्वितीयोऽभिलाषः, पुनरन्योऽभिलाषः, एवमविरतमिच्छा उत्पद्यन्ते । अद्यावधि कस्यचिदपि सर्वा अपीच्छाः परिपूर्णा न
भूता न च भविष्यन्त्यपि । यत्रेच्छाऽतृप्तिश्च तत्र दुःखमिति निश्चितमस्ति । ततो MAN यथेच्छाया अन्तो नास्ति तथैव दुःखस्याऽप्यन्तो नास्त्येव ।
___ एकदा वयं विहारं कुर्वन्तो गतवन्त आस्म । तदा पथि द्वित्राः श्वान इतस्ततोऽटन्ति स्म । पथि गच्छता सज्जनेनैकेन सर्वेभ्यः श्वभ्य एकैका रोटिका दत्ता। तदा तेभ्यो बलिष्ठः शनकोऽपरमपि रोटिकाद्वयं शुनकद्वयमुखाभ्यामाकृष्य
RANASANTOSCHOLATATEREMISTANTSHTRAVSARAN
REND
raep
मलाANTATIOETRASE
२५
2010_04
Page #39
--------------------------------------------------------------------------
________________
R
ASDaiकाजाता
SARE
a
HIPRASNETIR
5220SAADSHAHASR
स्वाधीनं कृतवान् । निर्बलौ च द्वावपि शुनको असहायौ स्थितौ । अतृप्तिरेवैषा खलु !
एकदा कश्चित् श्वा मुखेऽस्थि गृहीत्वा गच्छन्नासीत् । अष्टौ दश वा श्वानोऽस्थि गृहीत्वा गच्छन्तं श्वानं प्रति धावमाना आसन् । पुनः पुनस्ते श्वानस्तं दन्तेभ्यो दशन्ति स्म । तस्य शुनो देहाद् रक्तं निर्गच्छदासीत् । तथाऽपि स श्वा तदस्थि न मुञ्चति स्म । अन्ते च श्रान्तः सोऽस्थि त्यक्तवान् । अथ तं मुक्त्वा येन तदस्थि गृहीतं तं प्रति सर्वे श्वानो धाविताः । तमपि ते श्वानोऽपीडयन् । एवं च यः कोऽपि तदस्थि गृहीतवान् तमन्ये सर्वेऽपि मिलित्वा कदर्थितवन्तः । विहातैव सुखी जातः । ___ एतेनैव ज्ञायतेऽतृप्तिर्दुःखस्यैव मूलमस्ति । अतृप्तिरेषा साधुजनानपि पीडयति। धन-बन्धुजन-गृह-व्यापारादिकं सानन्दं विहाय साधुत्वमङ्गीकुर्वन्तो जना अपि नूतनं संसारमतृप्तिवशेन रचयन्ति । अस्मिन् स्वरचितसंसारे तेऽपि स्वकीयमात्मनो हितं विस्मृत्य केवलं प्रसिद्धि-सत्ता-महत्त्वाकाङ्क्षा-प्रतिष्ठादिष्वेव सदा रमन्ते । शासनप्रभावनाया व्याजेनाऽहनिशं 'मम निश्रायामेतत् कार्यं जातं, मदुपदेशेनैतावतां रूप्यकाणां व्ययेनतेन महालाभ उपलब्ध' इति विभावदशायामेव निमग्ना भवन्ति । 'चीकनगुनिया' सदृशेनाऽतृप्तिनामसङ्क्रान्तरोगेण वयं सर्वेऽपि ग्रस्ता जाताः । येन केन प्रकारेणाऽपि प्रसिद्धिः कथं स्यात्, तदर्थमेव सततं प्रयत्नं कुर्मः । एवमतृप्त्याऽद्य सर्वत्र गृहे समाजे देशे धर्मस्थानेषु चाऽपि क्लेशः सङ्घर्षश्च प्रवर्तन्ते ।
_ 'गुणवन्त शाह' नाम्ना गूर्जरलेखकेनैकदा कथितं-अतृप्तः कुटुम्बमुखी कदाचित् स्वकुटुम्बं, अतृप्तो देशनेता तु देशं वा विनाशयति, किन्त्वतृप्तः साधुस्तु सर्वेषामपि जनानां कृतेऽहितकरो भवति ।
अतृप्तिवशाद् जीवः किं किं न करोति? धनार्थं धनिकजनान् दुर्गुणिनश्चाऽपि प्रशंसते, ममत्वेन भक्तजनानां वृद्ध्यर्थं प्रयतते, प्रसिद्ध्यर्थं मन्दिर-मठेषु मुह्यति, कदाचित् प्रशंसार्थमन्यैः सह माया-प्रपञ्चादिकमपि करोति । मम मठे स्थाने च न कोऽप्यन्य आगच्छेत्, मम भक्तैर्नाऽन्यत्र कुत्रचिदपि गन्तव्यं, सर्वैरपि ममाऽऽज्ञायामेव वसनीयम्-एतत् सर्वमप्यतृप्तेरेव मूलमस्ति ।
ततः सर्वैस्तृप्त्या सन्तोषेण चैव वर्तितव्यम् । तृप्तिरेव परमानन्दस्य परमशान्तेश्च निदानमस्ति । एषैव चक्रवर्तिनो देवदेवेन्द्रस्य च सुखस्याऽनुभूतिं कारयति । ___"सर्वेऽपि जनास्तृप्तेः परमसुखमनुभवेयु''रित्याशासे ।
कहा CAREE
R ROREANILAANEESe
M
BHASHTAK
SARASHRIMANDAPANES
H OTTOMETROENROERESERVERE
साहारालाजालामाल
AS
VERS
२६
2010_04
Page #40
--------------------------------------------------------------------------
________________
आस्वाद:
'प्राणानप्यविगणय्य परोपकारं
कुर्वाणा जीविन:
मुनिकल्याणकीर्तिविजयः
उत्क्रान्तिवादस्य प्रणेत्रा चार्ल्स डार्विन् इत्यनेन ऐसवीये १८३५ तमे वर्षे 'ध ऑरिजिन ऑफ स्पिसिस्' (The Origin of species) नाम पुस्तकं स्वीयसिद्धान्तं प्रतिपादयितुं लिखितमासीत् । किन्तु तद्धि प्रायशस्त्रयोविंशतिर्वर्षाणि तेन न प्रकाशितम्, अथवैवं वक्तुमपि शक्येत यत् तस्य - स्वसिद्धान्तः कदाचिन्मिथ्या स्याद् - इति भीतिरासीत् । अतस्तेन तत्पुस्तकप्रकाशनं तावन्ति वर्षाणि नैव कृतम् । कुतस्तस्य 'भयमासीत् ? - किञ्चिद् विचारयामः ।
तस्य वादस्य मुख्यसिद्धान्त आसीत् - 'स- क्षमस्यैवाऽवस्थानम्' (Survival of the Fittest) । अर्थात् - प्रकृत्युत्सङ्गे सर्वेषामपि जीविनां मध्ये 'स्वीयमस्तित्वं रक्षितुं महासङ्घर्षः सदा वरीवर्ति । अतः प्रतिकूलपरिस्थितावपि यो' जीवी स्वं रक्षितुमवस्थातुं च शक्नोति तस्याऽस्तित्वमेव चिरस्थायि भवति तस्यैव च सन्तान-परम्परा वरीवृध्यते । ये जीविनो दुर्बलाः सन्तः प्रतिकूलपरिस्थितौ स्वरक्षणं कर्तुं न शक्नुवन्ति तेषामस्तित्वं विनश्यति परम्पराऽपि च नैव वर्धते । . फलतो जगति श्रेष्ठकोषीया (Genes) जीवा एवाऽवतिष्ठेयुरुत्क्रान्तौ च प्रतिसन्तानं तेऽधिकसामर्थ्यवन्तः स्फूर्तिमन्तो बोधवन्तश्च भवन्ति ।
एष सिद्धान्तस्तेन गालापागोसद्वीपप्रवासानन्तरं प्रणीत आसीत् । किन्त्वेनं. सिद्धान्तं रोधयदासीत् सूक्ष्ममेकं वस्तु । डार्विन् दृष्टवानासीद् यज्जीवजगति प्रायः सर्वेषामपि प्राणिनामेक एव नियमोऽस्ति मार्यतां वा म्रियतां वा । किन्तु • कदाचित् तेनैवमपि दृष्टमासीद् यत् केचिज्जीविन: परमारणापेक्षया परोपकार एव रसिकाः सन्ति । एते जीवा स्वार्थमुपेक्ष्याऽपि परार्थं कुर्वन्त आसन् । एवं सति तस्य 'स-क्षमस्यैवाऽवस्थानम्' (Survival of the fittest) सिद्धान्तः कथं वा . सिध्येत् ?
2010_04
-
दृष्टान्तमेकं पश्याम: । चिक्रोडानां समूहः कण-फल-बीजादिकमाहारमन्वेष्टुं ' मग्नः स्यात् कुत्रचिद् वनखण्डे, तदाऽकस्मादेव यदि कस्यचिच्चिक्रोडस्य गरुड
२७
For Private Personal Use Only
Page #41
--------------------------------------------------------------------------
________________
चिल्ल-शृगालादिकः आखेटकः प्राणी पक्षी वा दृष्टिपथमागच्छेत् तहि स चिक्रोड:* कोलाहलं कृत्वाऽन्यान् सर्वानपि चिक्रोडान् सावधानीकरोति । आखेटकं पश्यन् । CD चिक्रोडो यः कश्चिदपि स्यात् स स्वकर्तव्यं निर्वहत्येव ।।
ईदृशं वर्तनं कथमुत्क्रान्तिसिद्धान्तस्याऽनुरूपं भवेत् ? यतो ह्याखेटकं दृष्ट्वा . तु चिक्रोडेन स्वोपस्थितिमप्रकटय्यैव ततः शीघ्रतया नंष्टव्यम् । आखेटकस्तस्यैव Chp दृष्टिपथं प्रथममागत इति तु तस्य महत् सद्भाग्यं खलु ! ततश्च तत्स्थानात् पलायितु- 40
र मन्यचिक्रोडेभ्यः सकाशात् तस्यैवाऽधिकः समयः प्राप्येत, स्वरक्षणेऽपि च तस्यैव - प्रथमोऽवसरः प्राप्येत । एतद्विपरीततया कोलाहलकरणे तु स आखेटकस्तमेव प्रथमं
पश्येत्; ततश्च क्रोधेन तमेव प्रथममाक्राम्येत् । एषा तु तस्यैव महती हानिः खलु ! - Vaa भयं प्रति सर्वदा सावधानश्चिक्रोडो ह्युत्क्रान्तिसिद्धान्तानुसारमवस्थानाय
(Survival) सर्वथा योग्यस्तथाऽपि स्वीयं स्वार्थमदृष्ट्वा परमार्थं कर्तुं कोलाहलं A कुर्वन् सोऽवस्थानाय (Survival) सर्वथाऽयोग्य एव ननु ! ___ एवं च स्वसिद्धान्ताद् विपरीतं वर्तनं बहुषु जीविषु दृष्ट्वा व्यामोहं प्राप्तो
विन् स्वीयं पुस्तकं त्रयोविंशतिवर्षाणि नैव प्रकाशितवान्, किन्तु १८५८ तमे वर्षे in यदाऽऽङ्ग्लसंशोधक: आल्फ्रेड वॉलेस्-इत्याह्वोऽपि तादृशमेव सिद्धान्तं प्रति
पादितवान् । तदा भीतभीतो डार्विन् झटिति स्वपुस्तकं The origin of species / प्रकाशितवान्, उत्क्रान्तिवादस्याऽपि च प्रणेतृतया स एव प्रसिद्धोऽभवत्, न तु आल्फ्रेड्-वॉलेस्। ___अस्तु, उत्क्रान्तिवादस्तु सर्वत्राऽपि जगति प्रसिद्धो जनैश्च स्वीकृतो जात
किन्तु यो लघुप्रश्नस्तस्य सिद्धान्तं खलीकुर्वन् आसीत् तत्समाधानं तु डार्विन् न । • कदाऽपि प्राप्तुं समर्थोऽभवत् । किं वयं तत् प्राप्तुं शक्ताः किल ? Coo पूर्वं यथोक्तं तथा सजीवसृष्टौ सर्वदा मार्यतां वा म्रियतां वेति रीत्यैव सर्वोऽपि )
व्यवहारः प्रचलति । भक्षकजीवी स्वभक्ष्यं निग्रहीतुं विविधानुपायान् योजयति, * प्रतिपक्षे च भक्ष्यजीवोऽपि स्वरक्षणं कर्तुं नैकान् प्रयोगान् करोति । ऐदम्प्राथम्येन ChD तु तस्यैतदेव लक्ष्यं भवति यत् कथमपि स आखेटकस्य दृष्टिपथं नाऽऽयात् । यदि Cal
कथमप्यायात् तदा सर्वमपि त्यक्त्वा ततः पलायनमेव स करोति, न तु तत्र तिष्ठति ।
यतो हि सा तस्य मूर्खतैव स्यात् । तथाऽपि चिक्रोडः कथं तामाचरति ? do परोपकारकरणेन स्वोपकारो भवतीत्यादिसूत्राणि तु मनुष्यजातेोग्यानि किन्त्वन्येषां -
२८
2010_04
Page #42
--------------------------------------------------------------------------
________________
जीविनां कृते तु तानि सर्वथाऽनुचितानि । चिक्रोडसदृशो जीवी यदि परोपकारं कर्तुं । " समुद्यतो भवेत् तदा तस्य स्वस्य त्वपकार एव स्यात्, प्रायशश्च कुमरणमेव स्यात् । Com यद्युत्क्रान्तिवादस्य सिद्धान्तः सत्यः स्यात् तदा भोजनमग्नानामपायेभ्योऽसाव- 4
धानानां च चिक्रोडानामन्यतम एवाऽऽखेटकस्य भक्ष्यं स्यात् । किन्तु तथा न.. * भवति, यतो रक्षकचिक्रोडस्य सूचनानन्तरमन्ये सर्वेऽपि चिक्रोडा: पलायन्त एव Cop तत्स्थानात् । अत: प्रश्नस्त्वत्राऽन्योऽप्युत्तिष्ठते यत् स रक्षकचिक्रोड केन वा हेतुनेदं 40
* करोति ?
- अन्यमपि दृष्टान्तं पश्यामः । पिपीलिकानां प्रायशः पञ्चदशसहस्रं जातयः Chd सन्ति । तासु काश्चन जातयः सौचिकपिपीलिकाः (Weaver ant) इति कथ्यन्ते । Cab
T: स्वनिवासार्थं वल्मीकं विवरादि वाऽनिर्माय सौचिकवत् सीवनं कृत्वा पर्णानां गृहं निर्मान्ति । तदर्थं च ता द्वित्राणि बृहत्पर्णानि समन्वित्य तत्प्रान्तेषु कौशेयसूत्रेण सीवनं कुर्वन्ति । बाधस्त्वत्राऽयमेव यत् परिणतवयाः पिपीलिकाः कौशेय
मुत्पादयितुमसमर्था भवन्ति, केवलं तस्याः डिम्भ(larva)रूपमेव स्वस्य कोशकरचने या उपयुक्तं कौशेयमुत्पादयितुं शक्तः । किञ्च, अण्डानां रक्षणार्थं राज्याश्च सुखनिवासार्थं
पर्णगृहरचनमावश्यकमेव । अतः सौचिकपिपीलिकानां सैन्यं तन्निर्माणार्थं प्रवर्तते 4 एव ।
एतदर्थं सर्वप्रथमं तु ताश्छिद्ररहितानि पर्णानि शोधयित्वा उपदशाः पिपीलिकाः परस्परमभिमुखीभूय पर्णप्रान्तयोः पङ्क्तिशस्तिष्ठन्ति । ततस्तौ प्रान्तौ मुखेन गृहीत्वा CEP परस्परं निकटं समानयन्ति । एतावता काश्चन पिपीलिकाः यैरधुनाऽपि कोशकरचनं पता
* नैव समारब्धं तादृशानि कानिचन कीटडिम्भानि मुखेन गृहीत्वा तत्रोपस्थिता * भवन्ति । ततस्तास्तानि कीटडिम्भानि द्वयोः प्रान्तयोर्मध्ये इतस्ततः सञ्चारयन्त्यः C) सीवनं कुर्वन्ति कौशेयसूत्रेण ।
अत्रेदं चिन्तनीयं यत् कीटडिम्भशरीरे कौशेयमतिसीमितं, केवलं तत्कोशकरचनयोग्यमेव भवति नाऽधिकम् । यदि तेन स्वीयमस्तित्वमवस्थापनीयं तदा तेन । स्वीयं कौशेयं कोशकरचनार्थमेवोपयोक्तव्यम् । एवं सत्यपि समग्रस्य पिपीलिकासमाजस्य कृते स कीटडिम्भो निजं सर्वमपि कौशेयं विश्राणयति । तथा च स कीटडिम्भः पिपीलिकावतारं नैव प्राप्स्यति । तस्याऽऽयुर्जीवनं वा केवलं निवासनिर्माण ★ पतङ्गस्येव पिपीलिकाया अपि अण्डं, कीटडिम्भः, कोशकः, पिपीलिका चेति अवस्थाः
भवन्ति ।
2010_04
Page #43
--------------------------------------------------------------------------
________________
o
0
एव समाप्नोति । किन्तु तस्य तच्चिन्ता न भवति । 'सहर्षं निवसन्तु मम " बान्धवाः ! अहं तु गच्छामि' इति कथयन्निव स जीवनदानं करोति ।
__अथाऽपि स प्रश्नस्त्वनुत्तरित एव वर्तते यद् जीवनदाने कीटडिम्भस्य किं वा
प्रयोजनम् ? किं पुण्यार्जनं कर्तुं तेन परोपकारः कृतो वा? किञ्च स कीटडिम्भः । a कोशकं ग्रथित्वा स्वजीवनं पूर्णीकर्तुं सक्षम एव (Fit) । तथाऽपि तस्य दशा Cop अक्षमस्येव (unfit) कथं भवति? किमेतदर्थं – यत् पिपीलिका हि सामाजिकजीवः, Mia सा संयुक्तपरिवारे वसति । सम्पूर्ण परिवारं, राज्ञी च रक्षितुं केषाञ्चित् कीटडिम्भानां
जीवनदानं नाऽधिकं महत्त्वमावहति । यतो राज्येवाऽण्डोत्पादने समर्था, तस्या CA रक्षणेन समग्रः परिवारोऽपि रक्ष्यते । तां शत्रुभ्यो रक्षितुं तदानुकूल्यं च सन्धारयितु-45 Non मावासकरणमनिवार्यमेव । तदावासकरणे च कैश्चित् कौटुम्बिकैः स्वबलिदानं यदि क्रियेत तदा न तदाश्चर्यावहमिति ?
अथ च दैनन्दिने जीवनेऽपि पिपीलिकाः परोपकारं कुर्वन्त्येव । एवं Va चोत्क्रान्तिवादस्य सिद्धान्तमपि भञ्जन्त्येव । सिद्धान्तानुसारं तु यत्र परस्परं स्वार्थः ।
'सिद्धो भवति तत्रैव सहकारः परोपकारो वा क्रियते जीविभिः । किन्त्वमुका पर जीविनो हि प्रत्युपकार-निरपेक्षा एव परोपकारं कुर्वन्ति ।
यथा- आहारगवेषकाभिः स्पशपिपीलिकाभिर्यदि कुत्रचित् शर्करारसादिकं प्राप्येत तदा ताः सर्वास्तं रसमाकण्ठं पिबन्ति । ततस्ताः स्वनिवासं प्रति पङ्क्तिशो र गच्छन्ति । तदा निवासाद् निर्गच्छन्त्यः क्षुधिताः पिपीलिकास्तासां पुरतो यदा पर मिलन्ति तदैताः पूर्णोदराः पिपीलिकाः क्षुधितपिपीलिकानां मुखे रसं प्रक्षिपन्ति;
एतत् तु तावत् प्रवर्तते यावत् पूर्णोदरायाः पिपीलिकाया भागे तु केवलं सूक्ष्म एको " रसबिन्दुरवशिष्येत ।
एवमेव रणप्रदेशे निवसन्त्यः पिपीलिका अपि परोपकारकरणप्रवणा भवन्ति । ता हि स्वीयमस्तित्वमपि पणीकृत्य परोपकारं कुर्वन्ति । वस्तुतस्तु प्रत्येकं जीवी.
स्वार्थमेव साधयेत् । अन्येषामुत्तरदायित्वं तेन किमर्थं निर्वोढव्यम् ? किं व्याघ्रः । Chp कदाऽपि स्वक्षेत्रेऽन्यं व्याघ्र प्रवेष्टुमाखेटयितुं वाऽनुमन्यते ? किं गवयवृन्दं स्वप्रदेशेऽन्यद् Cab
वृन्दं प्रवेष्टुं चरितुं वाऽनुजानाति ? सर्वेऽपि स्वार्थपरा एव । किन्तु पिपीलिकास्तथा । न सन्ति । रणप्रदेशे हि प्रत्यूष एव पर्णाग्रस्थिता अवश्याय-बिन्दवः प्राप्यन्ते । र्योदयानन्तरं त्वत्यल्पकालेनैव ते बिन्दवः शुष्यन्ति । ततोऽन्यस्मिन् दिन एव ते
३०
2010_04
Page #44
--------------------------------------------------------------------------
________________
बिन्दवः प्राप्तुं शक्याः । एवंस्थितेऽपि पिपीलिका एता एकं वा बिन्दुं स्वतुण्डेनो
त्पाट्य शीघ्रतया स्वनिवासं गच्छन्ति, तत्र स्थितानामन्येषां परिवारसभ्यानां च Chp तमर्पयन्ति । ते यावत् तं बिन्दुं पिबेयुस्तावदेएता अन्यबिन्द्वानयनार्थं धावन्ति । )
फलतः तत्परिवारो न कदाऽपि तृषातुरोऽवतिष्ठति । राज्याः कीटडिम्भानां च कृते * निवासस्थानमपि सदा शीतलं वातानुकूलितं चैव भवति । Cop ईदृशं परोपकारं ह्यन्येऽपि बहवो जीविनः कुर्वन्ति । तेषां चेतिवृत्तमागामिV, शाखायां विचारयिष्यामः । इति ।।
सौजन्यम् : गूर्जरभाषायां प्रकाश्यमाना विज्ञानविषयिकी 40
सफारी-मासपत्रिका ।
जीवनं हि शिक्षकातु सर्वथा भिन्नमस्ति । शिक्षकः किल प्रथमं पाठयति ततः परीक्षते, एतद्वैपरीत्येन जीवनं तु प्रथमं परीक्षते ततः पाठयति ॥ 555555555555555555555555
2010_04
Page #45
--------------------------------------------------------------------------
________________
सरला: स्याद्वादसिद्धान्ता: २
मुनित्रैलोक्यमण्डनविजयः ।
पूर्वस्मिन्नङ्केऽस्माभिरधिगतमेतत्कार्यं स्वोपादानद्रव्यरूपेणोत्पत्तेः पूर्वमपि सद भवति पर्यायरूपेण चोत्पत्तेः पश्चाद् । अयमेवोच्यते कथञ्चित्-सदसत्कार्यवादः । (अयमंशोऽङ्केऽस्मिन् विस्तृततया विवेचितः ।) द्रव्यार्थिकनये - उत्पादात्पूर्वं द्रव्यस्य पर्यायविशेषेणाऽवस्थानम्, उत्पादानन्तरं च तदन्यपर्यायेण । अस्मिन् नये द्रव्यस्याऽप्युत्पत्तौ सहभागिता । पर्यायार्थिकनये - उत्पादात्पूर्वं द्रव्ये पर्यायविशेषस्य सत्त्वम्, उत्पादानन्तरं च VI
तदन्यपर्यायस्य । अस्मिन् नये द्रव्यस्योत्पत्तौ न घटकता । ३. नाशविभागः
नाशः
प्रायोगिक:
वैस्रसिकः
समुदयनितः
ऐकत्विकः
समुदयविभागजन्यः
समुदयसंयोगजन्यः (अर्थान्तरगमनलक्षणः)
स्वप्रतियोगिप्रतीतिबाधकः
स्वप्रतियोगिप्रतीत्यबाधकः
अस्मिन्नङ्केऽप्युत्पादविनाशावेवाऽधिकृतौ । विषयोऽयं श्रीहरिभद्रसूरिरचितशास्त्रवार्तासमुच्चयग्रन्थोपरि महामहोपाध्यायश्रीयशोविजयविनिर्मित-स्याद्वादकल्पIY लताटीकातो (स्त. ७ का. १) गृहीतः ।
३२
2010_04
Page #46
--------------------------------------------------------------------------
________________
(१)
शिष्यः- मत्थएण वंदामि भंते ! किञ्चित् प्रष्टव्यमस्ति । गुरु:- अवश्यं पृच्छतु । किमर्थं सङ्कोच: ? शिष्यः-प्रभो ! स्याद्वादे उत्पाद एव कथं घटेत ? गुरुः- कथमर्थात् ? कस्तत्राऽवरोधः ? शिष्यः- उत्पादो नाम विवक्षितक्षणे विद्यमानस्य तत्पूर्वं चाऽविद्यमानस्य तत्क्षणेन
सह सम्बन्धः । अत्रोत्पादनिर्वचने 'पूर्वमविद्यमानत्वं' प्रविष्टमस्ति । वयं च न नैयायिकवत् कार्यस्योत्पत्तेः प्रागसत्त्वं स्वीकुर्मः, प्रत्युत सत्त्वमङ्गी
कुर्मः । ततः स्याद्वादे उत्पादोत्पादनं दुःशकमिति मे मतिः । - गुरु:- वत्स ! किञ्चिद् भ्रान्तोऽस्ति भवान् । सावधानं श्रूयताम् । वयं
वस्तुनस्तदुत्पत्तेः पूर्वमपि सत्त्वं यद्यप्युररीकुर्मः, तथाऽपि येन रूपेण प्राक् सत्त्वं तेनैव रूपेण पश्चादुत्पत्तिरिति न ब्रूमः । किं तर्हि ? तदुपादानद्रव्यरूपेण । वस्तुनः पूर्वास्तित्वस्य स्वीकारोऽस्माकं, न पुनस्तद्व्यक्तित्वेन, तेन रूपेण तृत्पत्तेः पश्चादेव तत्सत्त्वमभ्युपगतमस्माभिः । कथञ्चित्सदसत्कार्यवाद
स्याऽत्रैव तात्पर्यम् । शिष्यः-निदर्शनेन साकं प्रदर्श्यते चेत्... । गुरु:- प्रदर्शयामि । प्रथमं भवान् वदतु यद् घटो नाम किम् ? शिष्यः- जलधारणादि कर्तुं क्षमं विशिष्टं द्रव्यम् ।
गुरु:- तद् द्रव्यं मृत्तिकातो भिन्नमभिन्नं वा ? NV शिष्यः- 'पार्थिवो घट' इत्युच्यते लोकेऽतोऽभिन्नं स्यात् ।
गुरुः- एवं सति घटे इव मृत्तिकायामपि जलधारणं कथं न भवति ? NY शिष्यः- तर्हि भिन्नमेव मन्तव्यम् । गुरुः- अरे ! तदा यथा घटो मृत्तिकातो भिन्न एव, तथा तन्तुभ्योऽपि भिन्न एवेति
यथा मृत्तिकातो घटोत्पादस्तथा तन्तुभ्योऽपि घटः कथं नोत्पद्यते ? शिष्यः-नोत्पद्यते इति नोत्पद्यते । सर्वजनप्रसिद्धमेतत् ।। गुरु:- मम प्रश्नो न तस्य प्रसिद्धताविषये, किन्तु तद्धेतुताविषये । शिष्यः- तयेवमस्तु-मृत्तिकायां घटोत्पादस्वभाव इति ततो घटोत्पत्तिः, तन्तुषु
पुनर्न स स्वभाव इति ततो न तदुत्पत्तिः ।
३३
2010_04
Page #47
--------------------------------------------------------------------------
________________
2010_04
गुरु: - सत्यमुक्तं भवता । परं कथितस्य तात्पर्यं किं भवेत् तदपि चिन्त्यताम् । शिष्य :- तन्नाऽहं जानामि । भवानेव कृपया दर्शयतु ।
गुरुः- शृणु । मृत्तिकायां घटोत्पादस्वभावः, न पुनस्तन्त्वादिष्वित्येतदेवं सूचयति यद् मृत्तिकायां घटस्य किञ्चिद्रूपेण सत्त्वं, तन्तुषु पुनर्न तथा सत्त्वम् । अथ च मृत्तिकायां घटस्य सत्त्वमित्थमेव - मृत्तिकैव कुलालप्रयत्नादिनिमित्तेन घटरूपेण परिणमते इति मृत्तिका घटस्योपादानम् । स्वोपादानद्रव्यत्वेन च घटस्य मृत्तिकाकाले सत्त्वमिति । घटव्यक्तित्वेन च घटस्योपत्तिः कुलालप्रयत्नादिनैव ।
शिष्य :- ननु स्वोपादानद्रव्यत्वेन सत्त्वमित्यस्य किं तात्पर्यम् ?
गुरु: - चिन्त्यतामेतत् । वयं हस्तौ ऊर्ध्वकृतवन्तं मनुष्यम् 'ऊर्ध्वहस्त' इति, हस्तावधः कृतवन्तं मनुष्यम् 'अधोहस्त' इति निर्दिशाम: । अथ यदा देवदत्तो हस्तावूर्वीकरोति तदा 'ऊर्ध्वहस्त' नामा नूत्न: पुरुष: समुद्भूतः, देवदत्तो विनष्ट इति मननं समीचीनं भवेत् ? पुनः स हस्तावध: करोति चेद् नूतनतयोद्भूतम् ‘अधोहस्त' पुरुषं देवदत्तस्य माता स्वपुत्रत्वेन न परिचिनुयात् ?
शिष्य :- ऊर्ध्वहस्तता, अधोहस्ततेत्यादयो देवदत्तस्याऽवस्थाविशेषा एव । तास्ववस्थास्वन्वीयमानो देवदत्तः कथञ्चिदेक एव । अतः पूर्वं समहस्तो देवदत्तो यदा हस्तावूर्वीकरोति तदा यद्यपि ऊर्ध्वहस्त उद्भूतः, समहस्तो विनष्टः, तथापि देवदत्तस्तु स्थित एव । एवमधोहस्ततावस्थामापन्नो देवदत्त एवाऽधोहस्त इति निर्दिश्यते । अधोहस्तः सर्वथा भिन्नः पुरुषस्तु नाऽस्ति, येन तन्माता तं न परिचिनुयात् ।
गुरुः- सम्यक् चिन्तितं भवता । परमेषैव वार्ता घटविषये कथं न योज्यते ?
घटत्वं (= पृथुबुध्नोदराद्याकारता-जलधारणक्षमतेत्यादि) अपि मृदोऽवस्थाविशेष एव । तामवस्थामापन्ना मृदेव 'घट' पदवाच्या भवति । अर्थाद् घटः = मृत्तिका अवस्थाविशेषः (= घटत्वम्) । तत्रैकांशेन घट: स्वोत्पत्तेः पूर्वमपि आसीत्, नाऽऽसीच्चाऽपरांशेन । येनांऽशेन पूर्वमासीत् तत्तस्योपादानमेव । अतः स्याद्वादिभिः कार्यात् पूर्वमपि तदुपादानत्वेन वस्तुनोऽस्तित्वं गीयते । कुलालकृत्यादिनाऽपरांशेनाऽपि सम्पन्नत्वे 'घट उत्पन्न' इति व्यवहारोपपत्तिरपि निराबाधा | शिष्यः- एवं स्थिते घटो न मृत्तिकातो भिन्नं द्रव्यं भवेत् ।
३४
+
For Private Personal Use Only
Page #48
--------------------------------------------------------------------------
________________
2010_04
गुरुः- तत्त्विष्टमेव । घटो मृत्तिकातो कथंचिद्भिन्नाभिन्न एव स्याद्वादिभिरभ्युपगत: । मृदेव घटरूपेण परिणमते इति नाऽस्ति सर्वथा भिन्नत्वम् । मृत्तिकाया: कुशूलपरिणामकाले नाऽस्ति घट इति सर्वथाऽभिन्नत्वमपि
न ।
शिष्यः- तर्हि स्याद्वादे उत्पादो नाम तत्तत्परिणामकृतस्य तत्तदवस्थाविशेषस्य द्रव्येण सम्प्राप्तिरिति स्यात् ।
गुरु: - युक्तमुक्तं भवता । स्थितिविनाशावप्येवमेव निर्वाच्यौ । तथाहि तत्तदवस्थाविशेषेण द्रव्यस्याऽवस्थानं स्थितिः । तत्तत्परिणामकाले उत्तरावस्थासम्प्राप्तौ पूर्वावस्थाया द्रव्येण कृतस्त्याग एव विनाशः । अत्रेदमधिकम्-घटोऽपि रक्तता - खण्डघटतेत्याद्यवस्थाविशेषानवाप्नोति, श्यामतापूर्णघटतेत्याद्यवस्थाविशेषान् जहाति च; तथापि यावन्न शुद्ध‘घट’व्यक्तिभेदः, तावन्न 'घट' पदवाच्यतापरित्यागः । प्रकारान्तरेणोच्यते चेद् रक्तघटता-खण्डघटतेत्यादयो घटत्वावस्थाया एवाऽवस्थाविशेषाः । तत्र यावन्न मूलावस्थात्यागस्तावन्न 'घट' पदवाच्यताविरहः । अत एव घटं लक्ष्यीकृत्याऽपि 'इयं मृत्तिके' ति कादाचित्को लोकव्यवहारः शुद्ध'मृद्’व्यक्तिभेदाभावाद् द्रव्येण घटत्वावस्थाप्राप्तावपि मूलमृत्तिकावस्थाऽपरित्यागाद् वेति ।
तत्र
शिष्य :- तर्हि किं मृत्तिका मूलद्रव्यं न ?
गुरुः- नैव । मूलद्रव्यं तु पुद्गलाः । तेषां परम्परया मृत्तिकारूपेण परिणामः । तेषां घटरूपेण । तेषां घटखण्डरूपेण । तत: पुनर्मृत्तिकारूपेण । एवं चक्रं प्रचलति । मृद्रूपेण परिणताः पुद्गला जलत्वेनाऽपि परिणमितुमर्हन्ति । शिष्यः- ननु घटविनाशे मृत्पिण्ड एव कथं न प्रादुर्भवति ? मृत्तिका यदवस्थया परिणता तदवस्थानाशे तया पुनः स्वस्वरूपेणैव भवितव्यं खलु ? गुरुः- इत्थं च तदा स्याद् यदा यैव घटपूर्वावस्था सैव घटोत्तरावस्थेति स्वीक्रियेत । न चैवम् । यतो यत्र विवक्षितावस्थाविशेषादेकमेवाऽवस्थान्तरं सम्भवति तत्रैव पूर्वोत्तरावस्थयोः सङ्कीर्णता भवति - चक्षुरुन्मीलननिमीलनवत् । प्रकृते मृदस्तु बहवोऽवस्थाविशेषा इति घटनाशे मृदैव भवितव्यमित्यापादनमशक्यमिति ।
शिष्यः - भवता तत्त्वं बोधयित्वाऽनुगृहीतोऽस्मि ।
३५
For Private Personal Use Only
Page #49
--------------------------------------------------------------------------
________________
2010_04
(२)
शिष्य:- प्रभो ! पूर्वं कदाचिद् भवता नाशप्रकारा बोधिता आसन् । अथोत्पादस्य विभजनं किं तथैव सम्भवति ?
गुरु: अथ किम् ? य एव पूर्वावस्थानाशः स एव उत्तरावस्थोत्पादः । उत्पादविनाशयोर्नान्तरीयकत्वमेव । एकैव क्रिया द्विधा व्यवह्रियते । 'तेजो नष्ट' मित्युच्यमाने 'तम उद्भूत' मिति कथ्यमाने वा लोके तत्तात्पर्यमेकमेवाऽवधार्यते । अतो नाशविभागतुल्य एवोत्पादविभागः । पश्यत्वेतत्पत्रम् । उत्पाद:
प्रायोगिक : (पुरुषप्रयत्नजन्य:)
समुदयजनितः (मूर्तावयवनियत:)
अवयवसंयोगजन्यः (घट-मेघादिः)
वैस्रसिक: (पुरुषव्यापाराजन्य:)
एकत्विक: (धर्मादौ)
३६
अवयवविभागजन्यः
(भस्म-परमाण्वादिः)
शिष्य :- प्रभो ! धर्माधर्माकाशेष्वनैकत्विकनामोत्पाद: सम्भवतीति मया श्रुतमस्ति । भवता त्वैकत्विक इत्युच्यते ।
I
गुरुः- नाऽस्ति तत्र विरोध: । धर्माधर्माकाशास्तिकायेषु गन्तृ-स्थात्र-वगाहकद्रव्यसन्निधानतो गति-स्थित्य - वगाहनोपकारिताधिकरणतोत्पादो भवति । अयमुत्पादो गन्तृ-स्थात्र- वगाहकद्रव्याणां विरहे न भवतीतिकृत्वा तानि द्रव्याण्येव कारणमिति चिन्त्यते तर्ह्यत्पादोऽयम् 'एकमेव कारणमस्ये'तिकृत्वा ‘ऐकत्विक' इत्युच्यते । परं स्वनिष्ठगत्याद्युपकरणक्रियां प्रति यदि धर्मादयो न व्यापारवन्तो भवेयुस्तर्ह्यपकारो नैव भवेदितिकृत्वा तेष्वपि कारणत्वविवक्षा क्रियते चेदयमेव 'अनैकत्विक' इत्यपि कथ्यते ।
For Private Personal Use Only
Page #50
--------------------------------------------------------------------------
________________
शिष्यः-नन्वाकाशादयः स्वनिष्ठ-विवक्षितद्रव्य-गत्याद्युपकारक्रियां प्रति कात्स्न्र्येन
व्याप्नुयुर्देशेन वा ? न कात्स्येन-उपकारक्रियायाः सर्वतोऽभावात् । नाऽपि देशेन-तेषां निरवयवत्वादिति गगनादयः कारणं भवितुं नाऽर्हन्तीति
चेत् ? गुरु:- निरवयवा गगनादय इति केन कथितम् ? सावयवत्वप्रतिपादकः प्रदेशाS दिव्यवहारो गगनेऽपि भवति किल ! IY शिष्यः- आरोपजन्यः स प्रत्ययः । वस्तुतस्तु मिथ्यैव । M गुरु:- एतादृशस्याऽऽरोपस्य निमित्तमपि दर्शयतु ।
शिष्यः- गगनादौ याऽव्याप्यवृत्तिसंयोगस्याऽऽधारता सैवाऽत्राऽऽरोपनिमित्तीभूता। । - गुरु:- अहो भवतो वैदग्धी ! अव्याप्यवृत्तिसंयोगो नाम किम् ? अवयविन्यवयवे
वर्तमानोऽवयवान्तरे चाऽवृत्तिमान् संयोग एवाऽव्याप्यवृत्तिसंयोग उच्यते ।
निरवयवेऽव्याप्यवृत्तिसंयोगाधिकरणतैव न सम्भवेत् । V शिष्यः- नन्वेकस्य निरंशस्य परमाणोः षड्भिर्दिग्भिः सह संयोगः शास्त्रे कथितः ।
स च संयोगोऽव्याप्यवृत्तिरेव । उक्तरीत्या चेदानीं परमाणोरपि सांशता
ऽभ्युपगम्या भवेदिति चेत् ? गुरुः- अभ्युपगतैवेतादृग्विचारणया। ‘परमाणुनिरंश' इति वचनं द्रव्यतः परमाणो
विभागा न सम्भवन्तीत्यधिकृत्यैवेति ध्येयम् । किञ्च, गगनं हिमवत्पर्वत-विन्ध्याचलाभ्यां भिन्नदेशेनाऽवरुद्धम् । यच्च देशभेदेनाऽवरुद्धं तत् सावयवमिति नियमः । निरवयवत्वे देशभेद एव न
स्यात् । शिष्यः- तर्हि लोके किमर्थमाकाशादि निरवयवं स्वीक्रियते ? गुरु:- सन्नप्यवयवः पृथग् न भवतीति स्थूलदर्शिनां तथाव्यवहारः । शिष्यः-अवगतं खलु तत्त्वं भवत्कृपया ।
१. यः संयोगो यत्र वर्त्तते तत्र तस्याऽभावोऽपि वर्तते चेत्स संयोगोऽव्याप्यवृत्तिरुच्यते । यथा
वृक्षे कपिसंयोगः ।
३७
2010_04
Page #51
--------------------------------------------------------------------------
________________
मुर:
जैनदर्शनसत्कतत्त्वविभावना: - १
मुक्तिः
मुनित्रैलोक्यमण्डनविजयः भारतवर्षे यानि यानि दर्शनानि सन्ति, तेषु सर्वेषु परमलक्ष्यतया मुक्तेरेव स्वीकारः । यत्र शब्दशास्त्र-सङ्गीतकलादीनामपि फलश्रुतेर्मुक्तावेव पर्यवसानत्वं भवेत्तत्र दर्शनानां प्रस्थापनं तु मुक्त्यर्थमेव स्यादिति स्वाभाविकम् । 'विविधतायामेकते'ति सूत्रं सार्थकीकुर्वतः, परस्परं सङ्घट्टमानेष्वपि दर्शनेषु समानतया परमपुरुषार्थत्वेन मुक्तिस्वीकारस्य कारणं नाऽन्यत् किञ्चित्, परं सकलदर्शनेषु प्रामुख्यमावहमानाऽऽध्यात्मिकतैव । आध्यात्मिकतायाः साक्षात् सम्बन्ध आत्मोन्नत्या सह, आत्मोन्नतिपराकाष्ठा तु मुक्तिरेवेति यत्राऽऽत्मवादस्तत्राऽवश्यं मुक्तिचर्चा । आत्मा तु सर्वैरङ्गीकृतः, नाऽङ्गीकृतश्चेद् ज्ञानसन्तत्यादि तत्स्थानेऽभिषिक्तमिति मुक्त्यर्थमेव प्रयतन्ते सर्वधर्मसम्प्रदायानुसारिणः ।
अथ सकलदर्शनेषु तदवस्थाविशेषार्थं प्रयुज्यमानो 'मुक्ति'शब्द एव सूचयति तत्रस्थात्मनो बन्धनग्रस्तताऽभावः । तस्मात् स्थानात् प्रच्यवनं नाऽस्तीत्यपि कांश्चन मुक्त्वा सर्वैरङ्गीकृतम् । मुक्तौ नित्यं निरतिशयं सुखमनुभूयते इति यद्यपि सर्वेषां न सम्मतं, तथाऽपि तत्र दुःखलेशस्याऽप्यभाव इत्यत्र न कस्याऽपि विप्रतिप्रत्तिः । मुक्तिः संसारावस्थातो भिन्नोत्कृष्टा चाऽवस्थेत्यत्र तु सर्वेषामैकमत्यम् । इत्थं यद्यपि समाना सर्वदर्शनस्थमुक्तिविभावना, तथाऽपि तत्तद्दर्शनानां मूलतत्त्वेषु मान्यताभेदतस्तत्राऽपि समागताऽस्ति विभिन्नता । जैनदर्शने त्वात्मस्वरूपे एव दर्शनान्तरतो महदन्तरमिति मुक्तिवादेऽपि महत्येव भिन्नता । का सा ? तद् दर्शयितुमेवाऽत्र प्रवृत्तम् ।
तत्र प्रथमं कतिचिददर्शनान्तराणां मतानि सङक्षेपतो विचारयामः, येन जैनदर्शन
१. चार्वाकादयोऽत्राऽपवादीभूताः, तथाऽपि ते तत्त्वचर्चायां प्रायो नाऽधिक्रियन्ते इति अत्र
'सर्वेषु' इति लिखितम् । २. ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।
गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ आजीवकाः ।
३८
2010_04
Page #52
--------------------------------------------------------------------------
________________
स्थमुक्तिस्वरूपे कुत्र समानता, कुत्र विभिन्नतेति स्पष्टं भवेत् । ___ नैयायिक-वैशेषिकाः - एतैर्मुक्तौ सुखानुभूतिर्नाऽङ्गीकृता । धर्मजन्यमेव सुखमिति तैः स्वीकृतत्वाद् मुक्तौ धर्माभावे सुखमपि न स्यादिति तेषां मतिः । मुक्त्यवस्थायां विशिष्टं ज्ञानं भवतीत्यपि तै!ररीकृतं, तत्र विशेषगुणमात्रोच्छेदस्वीकारात् । केवलं दुःखजिहासयैव मुक्त्यर्थं प्रयत्न इति तन्मतम् । मुक्तिलक्षणमपि तैरेतदनुसारमेव निर्दिष्टम् -
१. समानाधिकरण-दुःखप्रागभावासहवृत्ति-दुःखध्वंसो मुक्तिः ।
अस्मदीयवर्तमानदुःखस्य ध्वंसोऽस्मदीयभाविदुःखप्रागभावस्य सहवृत्तिर्भवतीति स न मुक्तिः । मुक्तस्य तु यः संसार्यवस्थान्तिमदुःखस्य ध्वंसः स भाविदुःखस्याऽभावाद् न दुःखप्रागभावसमानाधिकरण इति स ध्वंस एव मुक्तिः ।
२. दुःखध्वंसस्तोमो मुक्तिः । सर्वेषां दुःखाणां मुक्तावेव नाशादिदं लक्षणं तत्रैव गच्छेत् ।
अतीतदुःखानां पूर्वमेव नष्टवाद्, वर्तमानदुःखानां स्वत एव नाशाद्, भाविदुःखानां चाऽनुत्पन्नत्वात् कस्य दुःखस्य ध्वंसः परमपुरुषार्थतयाऽभिमतो भवेदित्यापत्तौ, 'भविष्यति काले दुःखानुत्पाद एवाऽस्माकमभिप्रेतः, स च दुःखसाधनाधर्मध्वंससाध्य' इति वदन्त एवं लक्षणं प्रथयन्ति -
३. विशिष्टदुःखसाधनध्वंसो मुक्तिः । समानाधिकरण-दुःखसाधनाधर्म-सहवृत्तित्वमेवाऽत्र वैशिष्ट्यम् ।
अत्राऽधर्मध्वंसो दुःखानुत्पादार्थमधिक्रियते । तथा च स परमपुरुषार्थो न भवेत् - अन्येच्छानधीनेच्छाविषयस्यैव परमपुरुषार्थत्वाद्, मुक्तेस्तु परमपुरुषार्थत्वेनाऽभिमतत्वादिति कथ्यमाने ते लक्षणान्तरं प्रणयन्ति - ___४. दुःखानुत्पादो मुक्तिः । (अनुत्पादः प्रागभावः)
अत्र यो दोषः स प्राभाकरमतनिरूपणे कथयिष्यते ।
५. केचित्पुनः 'दुःखेनाऽत्यन्तं विमुक्तश्चरती'ति श्रुतिस्वरसाद् दुःखात्यन्ताभावमेव मुक्तिं कथयन्ति ।
६. आत्मविशेषगुणोच्छेदो मुक्तिरिति लक्षणेनाऽपि तैर्मुक्तिर्लक्ष्यते, यतो मुक्तौ
2010_04
Page #53
--------------------------------------------------------------------------
________________
2010_04
आत्मा जडकल्पो भवतीति ते मन्यन्ते । तन्मते आत्मनो विभुत्वेऽपि शरीरावच्छेदेनैव ज्ञानादीनामुत्पत्तिरिति ज्ञानादिकं प्रति शरीरं कारणमिति स्वीक्रियते । मुक्तौ शरीराभावाज्ज्ञानाभावः । सुखेच्छायाः सत्त्वे वैराग्यव्याहतिः स्यादिति 'दुःखं मा भू' दितीच्छयैव मुक्त्यर्थं प्रयत्न इति तेषां कथनम् । मुक्तौ दुःखाभाव एव सुखत्वेनोपचर्यते इति ते वदन्ति । अत एव तेषामित्थमुपहासोऽपि श्रूयते - वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् ।
न तु वैशेषिकीं मुक्ति, गोतमो गन्तुमिच्छति ॥ इति ।
मीमांसकाः - एतेषां प्रस्थानद्वयम् । एकं प्राभाकराणाम्, द्वितीयं भाट्टानाम् । तत्र प्राभाकराणां मते
काम्यनिषिद्धकर्मवर्जनपूर्वकं नित्यनैमित्तिककर्मानुष्ठानेन धर्माधर्मयोर्विनाशे सति देहेन्द्रियादिसम्बन्धस्याऽऽत्यन्तिकविच्छेद एव मोक्षः । आत्मज्ञानमपि तत्र सहकारिकारणम् । एतन्मते मोक्षदशायामानन्दस्याऽप्यत्यन्तोच्छेदो भवति । लक्षणं तुआत्यन्तिकदुःखप्रागभावो मुक्ति: ।
समानाधिकरणदुःखासहवृत्तित्वमेवाऽऽत्यन्तिकत्वम् । प्रागभावो यद्यप्यनादिः, न कृतिसाध्य:, तथाऽपि तत्प्रतियोगिजनकाधर्मनाशद्वारेण कथञ्चित्कृतिसाध्योऽपि । अत्र ‘अनादिः सान्तः प्रागभाव' इति लक्षणेन दुःखप्रागभावस्याऽन्ते मुक्तेः प्रच्यवनापत्तिः । तस्याऽनन्तत्वे पुनः सोऽत्यन्ताभाव एव भवेदिति अत्यन्ताभावस्याऽनाद्यनन्तत्वेनाऽसाध्यत्वाद् मोक्षस्याऽप्यसाध्यत्वप्रसङ्गः ।
भाट्टानां म
त्रेधा हि प्रपञ्चः पुरुषं बध्नाति - भोगायतनं शरीरम्, भोगसाधनानीन्द्रियाणि, भोग्याः शब्दादयो विषयाश्च । भोगः = सुखदुःखविषयोऽपरोक्षानुभवः । तदस्य समस्तात्मविशेषगुणोच्छेदोपलक्षिता स्वरूपस्थितिरेव (मुक्ति:) प्रशस्तपादभाष्यकन्दली
१.
२.
३.
टीका ।
यावदात्मगुणाः सर्वे, नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्तिर्नाऽवकल्पते ॥ ननु तस्यामवस्थायां कीदृगात्माऽवशिष्यते ?
स्वरूपैकप्रतिष्ठानः, परित्यक्तोऽखिलैर्गुणैः ॥ - न्यायमञ्जरी ॥
नित्यानन्दप्रतिपादिका श्रुतिरात्यन्तिके दुःखवियोगे भाक्ता न्यायवार्तिकतात्पर्यटीकायां वाचस्पतिमिश्रः ।
आत्यन्तिकस्तु देहोच्छेदो निःशेषधर्माधर्मपरिक्षयनिबन्धनो मोक्षः । - प्रकरणपञ्जिका ।
४०
For Private Personal Use Only
Page #54
--------------------------------------------------------------------------
________________
त्रिविधस्याऽपि बन्धस्याऽऽत्यन्तिको विलयो मोक्षः । मोक्षदशायां शुद्धस्वरूपोदयेन शुद्धानन्दस्याऽनुभूतिर्भवति ।
वेदान्तिनः - वस्तुमात्रे सत्त्वमिष्टत्वं ज्ञातत्वमिति रूपत्रयमनुगतं, नाम रूपं चेति द्वयमननुगतं भासते । तत्राऽऽदिमं त्रयं ब्रह्मगतमेव व्यापके ब्रह्मण्यध्यस्तत्वात् प्रपञ्चेऽपि प्रतीयते, अन्तिमं च द्वयमविद्यादोषकल्पितम् । कल्पितेन नामरूपभेदेनैव प्रपञ्चस्य परस्परं भिन्नत्वेनाऽवगतिः । अथ च 'तत्त्वमसी'त्याद्यखण्डवाक्यार्थजन्यब्रह्मबोधेनाऽविद्यादोषनिवृत्तौ तत्कल्पितरूपद्वयनिवृत्तौ रूपत्रयस्य सच्चिदानन्दरूपब्रह्मानन्यभूतस्याऽवस्थानं मुक्तिः । मुक्तानां निर्गुणब्रह्मसाक्षात्कारवतां यावत्प्रारब्धं तावदत्रैवाऽवस्थानम्, न तु लोकान्तरगमनम् । अवस्थैषा जीवन्मुक्तिरित्युच्यते । प्रारब्धं यावत् सुखदुःखान्यनुभूय पश्चादेते परममुक्तिमासादयन्तीत्यद्वैतसिद्धान्तः । ____एतन्मते मुक्तौ आनन्दावाप्तिरनर्थनिवृत्तिश्च भवतः । यद्यप्येते अनर्थनिवृत्तिसुखप्राप्ती च सादी, सादित्वे च सान्तत्वापत्तिरिति वक्तुं शक्यते एव; तथाऽपि वेदान्तिन एनं दोषमित्थं निराकुर्वन्ति - सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्याऽसिद्धत्वभ्रमेण तत्साधने प्रवृत्तिः । प्राप्तस्याऽप्यानन्दस्य प्राप्तिः, परिहृतस्याऽप्यनर्थस्य निवृत्तिर्मोक्ष इति ।
अविद्याया एकत्वेनैकमुक्तौ सर्वमुक्तिप्रसङ्गरूपो दोषोऽस्मिन् मते । एतन्निवारणार्थं तेऽविद्यानानात्वं तद्गतशक्तिनानात्वं वा स्वीकुर्वन्ति । इष्टापत्तिरूपेणाऽपि केचिदेनं मन्यन्ते ।
साङ्ख्याः - एतन्मते पङ्गकल्पः शुद्धचैतन्यस्वरूपो निष्क्रियः पुरुषोऽन्धकल्पां जडां प्रकृति सक्रियामाश्रितो बुद्ध्यध्यवसितं शब्दादिकं स्वात्मनि प्रतिबिम्बितं चेतयमानो मोदते, मोदमानश्च प्रकृतिं सुखस्वभावां मोहाद् मन्यमानः संसारमधिवसति । यदा च पञ्चविंशतितत्त्वज्ञानात् प्रकृतिपुरुषयोर्भेदज्ञानं भवति तदा प्रकृतेः प्रवृत्तिरुपरता भवति । ततश्च पुरुषस्य यत् स्वरूपेणाऽवस्थानं तदेव मुक्तिः ।
सर्वथा निर्लेपस्य निष्क्रियस्य प्रकृतिविकृत्यनात्मकस्य च पुरुषस्य बन्ध
१. न प्रपञ्चविलयो मोक्षः, किन्तु प्रपञ्चसम्बन्धविलयः । - शास्त्रदीपिका २. अतीताननुसन्धानं, भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते, जीवन्मुक्तस्य लक्षणम् ॥ - शङ्कराचार्यः आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः शोकनिवृत्तिश्च ॥ - वेदान्तपरिभाषा
2010_04
Page #55
--------------------------------------------------------------------------
________________
2010_04
मोक्षसंसारा न सम्भवन्तीति ते प्रकृतेरेवेति मन्यन्ते कापिलाः । पुरुषे तु विवेकाग्रहादुपचरिता एव - भृत्यगतजयपराजययोः स्वामिन्युपचारवत् । पञ्चविंशतितत्त्वज्ञानमेकमेव मुक्तौ कारणमिति साङ्ख्यानां मतिः । २
बौद्धाः अत्र मतचतुष्टयम्
१. नैरात्म्यभावनातो ज्ञानसन्तानोच्छेदो मुक्तिः - सौत्रान्तिकाः । २. शून्यतादृष्टितः क्लेशादिदोषदूषितचित्तसन्ततिविच्छेदो मुक्ति- माध्यमिकाः । ३. भावनाप्रकर्षपरिलब्धपरिशुद्धचित्तसन्तानं मुक्ति: - यौगाचाराः । ४. रागादिज्ञानसन्तानवासनोच्छेदो मुक्ति:- वैभाषिकाः । बौद्धमते मुक्तावात्मस्थितिर्निर्वातप्रदीपसदृशी भवति । इतरेषां केषाञ्चिन्मतानि
आनन्दमयपरमात्मनि जीवात्मलयो मोक्षः त्रिदण्डिनः । आत्महानं मुक्तिः - चार्वाकाः ।
स्वातन्त्र्यं मुक्ति: - केचित् । नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः - तौतातिताः । अक्षयशरीरादिलाभो मुक्ति:- वैष्णवाः कापालिकाश्च । (पृष्ठ ५७स्थानि नाना-मुक्तिसम्बन्धि - मतान्यपि द्रष्टव्यानि ।) अथ जैनदर्शनसत्कमुक्तिस्वरूपं सप्रपञ्चं निरूप्यते ।
-
९. तस्मान्न बध्यते नैव मुच्यते नाऽपि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ - साङ्ख्यकारिका
२. हस पिब लल मोद नित्यं विषयानुपभुञ्ज कुरु च मा शङ्काम् ।
यदि विदितं ते कपिलमतं तत्प्राप्स्यसे मोक्षसौख्यं च ॥ साङ्ख्यकारिका माठरवृत्तिः
३. दीपो यथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् ।
दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवाऽवनिं गच्छति नाऽन्तरिक्षम् । दिशं न काञ्चिद्विदिशं न काञ्चित्, स्नेहक्षयात् केवलमेति शान्तिम् ॥
४२
(क्रमश:)
For Private Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
(
सोमदेवस्य कृतिरत्नं यशस्तिलकम् ।
एच्. वि. नागराजरा
*
5555
*,,
,
,
गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते इति लाक्षणिकाः । प्राचः संस्कृतभाषायाः प्रथमं चम्पूकाव्यं जातकमालेति प्रथितमार्यशूरविरचितम् । ततः त्रिविक्रमभट्टस्य
नलचम्पूः, विदर्भराजस्य चम्पूरामायणम्, अनन्तभट्टस्य चम्पूभारतं, राजनाथस्य 05 भागवतचम्पूः, नीलकण्ठदीक्षितस्य नीलकण्ठविजयचम्पू:, वेङ्कटाध्वरिणः
विश्वगुणादर्शचम्पू इत्यादय: चम्पूकृतयो लोके प्रथिताः । किन्तु सर्वासु चम्पूषु श्रेष्ठा सौन्दर्यमाधुर्यगाम्भीर्यभूषिता नानालङ्कारपोषिता सोमदेवविरचिता यशस्तिलक
चम्पूरिति निर्मत्सराणां गुणग्राहिणां विदुषां मतम् । न सोमदेवकविः ब अयं कविर्जन्मना कर्णाटदेशमलञ्चकार । ऊस्तवे दशमशतके कविरयं
काव्यनिर्माणमग्नो बभूव । अस्य जन्मस्थलं गङ्गधारेति प्रसिद्धो ग्रामः । उच्यते खलु ग्रन्थान्ते
चालुक्यकुलजन्मनः सामन्तचूडामणेः श्रीमदरिकेसरिणः प्रथमपुत्रस्य श्रीमद्वागराज(स्य) प्रवर्धमानवसुधारायां गङ्गधारायां विनिर्मापितमिदं काव्यम्य इति । सोमदेवस्य गुरुर्नेमिदेव इति च कविना स्वयं ग्रन्थान्ते निगद्यते यथा
श्रीमानस्ति सदैव संघतिलको देवो यशःपूर्वकः शिष्यस्तस्य बभूव सद्गुणमणिः श्रीनेमिदेवाह्वयः । तस्याऽऽश्चर्यतपःस्थितेस्त्रिनवतेर्जेतुर्महावादिनां
शिष्योऽभूदिह सोमदेव इति यस्तस्यैष काव्यक्रमः ॥ सोमदेवसूरेः स्याद्वादाचलसिंह इति, तार्किकचक्रवर्तीति, वाक्कल्लोल- पयोनिधिरिति, कविकुलराजकुञ्जर इति च बिरुदान्यासन् । तर्ककाव्यशक्त्यौ अस्मिन् मिलिते आस्ताम् । यद्वदति स एव
आजन्मसमभ्यस्ताच्छुष्कात्तर्कात् तृणादिव ममाऽस्याः । मतिसुरभेरभवदिदं सूक्तिपयः सुकृतिनां पुण्यैः ।।
,
,
, ,
-
,
,
2010_04
Page #57
--------------------------------------------------------------------------
________________
[
,
इइइइइइइइड,
,
इति । काव्यविषये यशस्तिलकस्याऽऽदौ सोमदेवसरिणा कुतो विमर्शः पण्डितानामवलोकनमर्हति । यथा
वागर्थः कविसामर्थ्यं त्रयं तत्र द्वयं समम् । सर्वेषामेव वक्तृणां तृतीयं भिन्नशक्तिकम् ।। दुर्जनानां विनोदाय बुधानां मतिजन्मने । मध्यस्थानां न मौनाय मन्ये काव्यमिदं भवेत् ।। त एव कवयो लोके येषां वचनगोचरः ।
सपूर्वोऽपूर्वतामर्थो यात्यपूर्वः सपूर्वताम् ।। इति । काव्यमीमांसापद्धति सम्यग जानानः सोमदेवो वक्ति
न चैकान्तेन वक्रोक्तिः स्वभावाख्यानमेव वा ।
बुधानां प्रीतये किन्तु द्वयं कान्ताजनेष्विव । एवं चाऽस्य काव्ये वक्रोक्तिस्वभावोक्ती मिलिते भवत इति ज्ञातव्यम् अस्याऽन्यदपि पद्यं लोकप्रियं सभाषितमस्ति ।
निःसारस्य पदार्थस्य प्रायेणाऽऽडम्बरो महान् ।
न हि स्वर्णे ध्वनिस्तादृक् यादृक् कंसे प्रजायते ।। कवितां प्रति व्याजस्तुत्या सोमदेवेनेत्थं कथ्यते
निद्रां विदूरयसि शास्त्ररसं रुणत्सि सर्वेन्द्रियार्थमसमर्थविधि विधत्से । चेतश्च विभ्रमयसे कविते पिशाचि
लोकस्तथाऽपि सुकृती त्वदनुग्रहेण ॥ इति । अस्याः चम्प्वाः कथा तु लोकप्रसिद्धा । अमृतमतियशोधरयोः कथां को न, जानाति ? बहवः कवयो नानाभाषासु कथामिमामाश्रित्य काव्यानि बबन्धुः । च संक्षेपेणैवं ज्ञातुं शक्यते ।
यौधयाख्यं जनपदं मारिदत्तो नाम राजा पालयति स्म । स्वर्गाशया सः कदाचित् चण्डमा देव्यै पशून् नरयुग्मं च बलिरूपेणाऽर्पयितुमिच्छति । तत्परिजनाः तदर्थं मुनिकुमारयुगलं चण्डमारीनिलयमानयन्ति । राजा तयोः कुलं जन्मदेशं चरण पृच्छति । मुनिकुमारस्तदा स्ववृत्तान्तं वर्णयति । अवन्तयो नाम जनपदः । तत्र यशोधरो नाम राजा । तस्य सुन्दरी भार्या अमृतमतिः । सत्यपि मदनसदृशे भर्तरि -
,
, , ,
,
,
५४
2010_04
Page #58
--------------------------------------------------------------------------
________________
เSS,,
। 5
अष्टावकनाम्नि हस्तिपकेऽनुरक्ता । कदाचिद् रात्रौ पति शयानं मत्वा राज्ञी अमृतमतिः जारमष्टावकं द्रष्टुं गच्छति । तामनुगच्छन् राजा तस्याः अष्टावक्रेन मिलनं पश्यति । क्षुब्धमुदासीनं परेधुस्तं तन्माता कारणं पृच्छति । तत्र कारणं दुःस्वप्नदर्शनमिति राजा वदति । दुःस्वप्नशान्त्यै बलिं प्रदातुं प्रेरयति माता । यशोधरे अनभ्युपगच्छति पिष्टकुक्कुटं बलीकर्तुं माता तस्याऽङ्गीकारं प्राप्नोति । पिष्टकुक्कुटमेव पक्त्वा तत्र विषमिश्रणं कृत्वा अमृतमतिः पत्ये तन्मात्रे च व परिवेषयति । तद्भुक्त्वा तौ म्रियते । पुनः षट्सु जन्मसु नानापशुयोनिषु जायते। सप्तमे जन्मनि तौ मानवौ भवतः । यशोधरो भ्राता, पूर्वजन्मनि तन्माता चन्द्रमति: तस्य स्वसा । तौ सुदत्ताख्यस्य मुनेः प्रबोधनात् पूर्वजन्मवृत्तान्तान् ज्ञात्वा वैराग्यशालिनौ भवतः, भिक्षाव्रतेन चरतः । तदेव कुमारयुगलं मारिदत्तसम्मुखेऽस्ति । एवं कथायां निरूपितायां तत्र सूरिः सुदत्तः स्वयं बुध्वाऽऽगतः । राजा मारिदत्तोः ज (मारदत्तः) भगवन्तं सुदत्तं धर्मस्वरूपं वक्तुं प्रार्थयत । तेन सकलधर्माः सर्वाणि - बच दर्शनान्युपदिष्टानि । जैनधर्मस्य श्रेष्ठत्वं तथा अहिंसायाः पारम्यं च स उपदिदेश।
5 राजा चाऽन्ये च धर्मदीक्षां स्वीकुर्वन्ति । In? एषा कथा मनोज्ञतया सविस्तरं न्यरूपि सोमदेवसूरिणा । अष्टावाश्वासास्सन्ति ।
८ यशस्तिलके । चम्पूमहाकाव्यमिति वक्तुमुचितमिदम् । नानाशास्त्रपारावारपारीणः । 0 श्रुतसागरमुनिरस्य व्याख्यां रचयामास । एतां व्याख्यां विना सोमदेवाभिप्रायाणां
ज्ञानं दुर्लभं भवति । सर्वेषां शास्त्राणां रहस्यानि यशस्तिलके समुद्घाटितानि दृश्यन्ते । कवित्वस्य वैदुष्यस्य सहृदयत्वस्य च निकषायते काव्यमिदम् ।
यशस्तिलकचम्पूः सुभाषितरत्नानां खनिः । सर्वेषु विषयेषु सोमदेवस्य । सूक्तयः पीयूषायन्ते । तत्र द्वित्राणि उदाहरामोऽत्र । सेवावृत्तेविषये तावत्
सत्यं दूरे विहरति समं साधुभावेन पुंसां धर्मश्चित्तात् सह करुणया याति देशान्तराणि । पापं शापादिव च तनुते नीचवृत्तेन सार्धं सेवावृत्तेः परमिह परं पातकं नास्ति किञ्चित् ।। सौजन्यमैत्रीकरुणामणीनां व्ययं न चेद् भृत्यजनः करोति । फलं महीशादपि नैव तस्य यतोऽर्थमेवाऽर्थनिमित्तमाहुः ॥
,,,3
४५
2010_04
Page #59
--------------------------------------------------------------------------
________________
था
जब शरीरं यद्यपि हेयं, तथाऽपि रक्षणीयमेव मुक्तिसाधनायेति सेमदेवः सूक्त्यैकया सुष्ठ निरूपयति यथासंसारवार्धेस्तरणैकहेतु
मसारमप्येनमुशन्ति यस्मात् । तस्मान्निरीहैरपि रक्षणीयः
कायः परं मुक्तिलताप्रसूत्यै ॥ | पुरुषश्शक्ततरो वा, स्त्री शक्ततरा वेति विषये सोमदेवः सविमर्शमित्थं वदति
देहायत्ते कर्मण्ययं नरः स्त्रीजनोऽयमिति भवति ।
चित्तायत्ते कर्मण्यधिका नारी तु, मध्यमः पुरुषः ॥ न अनेन पुरुषस्य कायबलं स्यान्नाम, मनोबलं तु स्त्रीणामेवाऽधिकमिति स्पष्टं
ज
25.2
,
,
भवति ।
,
,
( 44444444
LS परोपदेशे सर्वे विद्वांसः, आचरणे तु न केऽपीति लोकनीतिं दृष्टान्तेन सुन्दरेण | स्पष्टीकरोति सोमदेवो यथा
विचक्षणः किन्तु परोपदेशे
न स्वस्य कार्ये सकलोऽपि लोकः । नेत्रं हि दूरेऽपि निरीक्षमाणम्
आत्मावलोके त्वसमर्थमेव ।। गृहस्य शिशव एवाऽलङ्काराः, तैरेव गृहस्य शोभा, सुतजन्मैव नराणां नितान्तं तोषकारणमिति सोमदेवो लोकस्वभावं वर्णयति यथा
तद् गेहं वनमेव यत्र शिशवः खेलन्ति न प्राङ्गणे तेषां जन्म वृथैव लोचनपथं याता न येषां सुताः । तेषामङ्गविलेपनं च नृपते पङ्कोपदेहैस्समं येषां धूलिविधूसरात्मजरजश्चर्या न वक्षःस्थले ॥ लोलालकानि बहलाञ्जनलोचनानि केलिश्रमश्वसितदुर्ललिताधराणि । आलिङ्गनोद्गतवपुःपुलकाः सुतानां चुम्बन्ति ये वदनकानि त एव धन्याः ॥ इति ।
,
,
,
४६
2010_04
Page #60
--------------------------------------------------------------------------
________________
इइइइइइइइइइइइदा
गजेषु सोमदेवस्य महानभिमान इति भाति । तान् बहधा प्रशंसति यशस्तिलके नसः । हृद्यं पद्यमेकमेव अत्रोदाहरामः ।
बलेन कायेन जवेन कर्मणा परैरतुल्याः परमेण चाऽऽयुषा । महीभुजां भाग्यबलान्महीतले
कृतावतारास्त्रिदिवान्मतङ्गजाः ।। हयस्याऽपि विषये तस्य प्रशंसाऽवधार्यताम
जयः करे तस्य रणेषु राज्ञः बाले परं वर्षति वासवञ्च । धर्मार्थकामाभ्युदयः प्रजानाम्
एकोऽपि यस्याऽस्ति हयः प्रशस्तः ।। यद्यपि यशस्तिलकस्य परमोद्देशो वैराग्यबोधनं, तथाऽपि पूर्वपक्षत्वेन तत्र तत्र शृङ्गारो वर्ण्यते । तत्र सोमदेवस्य सामर्थ्य न न्यूनम् । शृङ्गारमपि रसस्यन्दितया वर्णयितुं स समर्थः । उदाहरणम्
उक्ता वक्ति न किञ्चिदुत्तरमियं नाऽलोकिताऽऽलोकते शय्यायां विहितागमा च विवशश्वासोल्बणं वेपते । नर्मालापविधौ सकोपहृदया गन्तुं पुनर्वाञ्छति प्रीति कस्य तथाऽपि नो वितनुते बाला नवे सङ्गमे ।। विदलदलकवासे लोललीलावतंसे नदनयनविलासे मन्मनालापहासे । क्षितिरमण तव स्यात् स्फारशृङ्गारलास्ये
सरभसमबलास्ये कामकेलीरहस्ये ।। इत्यादि । एवं करुणादीनामपि रसानां वर्णनायामुत्कर्षं साधयति सोमदेवसूरिः। 5 चम्मूं रचयता कविना पद्य इव गद्येऽपि प्रावीण्यं दर्शनीयम् । गद्यं कवीनां निकषं
वदन्ति । सोमदेवस्य नैपुण्यं गद्यस्य वाक्ये वाक्ये गोचरीभवति । तस्य पदसम्पत्तिः ८ प्रकामं शोभते सर्वत्र । एकमुदाहरणम्
"पुनः करिकदलिकानिकरनिरस्तातपप्रसराः, परस्परमिलत्पताकापटप्रतानविहितवितानाडम्बराः, ससंरम्भसंचरद्रथकट्योड्डमरपांसवः, करटिकटस्यन्दमानन मदजलजनितकर्दमाः, तुरगवेगखरखुरक्षोदनिबिडभूमयः, करभक्रमसम्पातमसृणतलाः,
SEALEDESALESALESALESALEnths
४७
2010_04
Page #61
--------------------------------------------------------------------------
________________
5 पदश्रमश्रान्तसीमन्तिनीघनधर्मजलगल सृणरसप्रसाधितसंमार्जनाः, सेनाङ्गनास्तनक्षोभविभ्रश्यन्-मुक्ताभरणमणिरचितरङ्गवलयाः, पुरोपवनदेवताप्रकीर्णकुसुमो
पहाराः समजनिषत सभाकुट्टिमादपि मनोहराः प्रयाणमार्गाः" । | ८ ओजस्समासभूयस्त्वमेतद् गद्यस्य जीवितमिति लाक्षणिका वदन्ति । 5 ।
ओजस्वतीमिववाचं प्रसन्नामपि रचयितुं सोमदेवः समर्थ एव । उदाहरणम् - 6
"अहो, क्वेयं न खल चित्तस्य वचनगोचरतातिचारिणी पुरस्तात् सन्ध्याजघनस्येव रागकलुषता । क्व चेदानी क्षारजलधौतस्य वसनस्येव निर्मलभावः । क्व -
तादृशं पाशपतितस्य पक्षिण इव चक्षुषश्चापलम् । क्व चेदानी कुलिशकीलितस्येव ८ निश्चलभावः । हतविधे, किमपरः कोऽपि न तवाऽस्ति वधोपायो येनैवमुपप्रलोभ्य रे | प्राणिनः संहरति" इत्यादि ।
सोमदेवो न केवले स्याद्वादसिद्धान्ते विचक्षणः, अपि तु सकलेषु भारतीयेषु ए ज दर्शनेषु । षष्ठाश्वासे तस्य सर्वतन्त्रस्वतन्त्रतां प्रत्यक्षीकुर्मः । दृश्यतामयं भाग:व "सकलनिष्कलाप्तप्राप्तमन्त्रतन्त्रापेक्षदीक्षालक्षणात् श्रद्धामात्रानुसरणान् मोक्षय 5 इति सैद्धान्तवैशेषिकाः । द्रव्यगुणकर्मसामान्यसमवायान्त्यविशेषाभावाभिधानानां -
पदार्थानां साधर्म्यवैधावबोधतन्त्राद् ज्ञानमात्रादिति तार्किकवैशेषिकाः । त्रिकाल८ भस्मोद्धूलनेज्यागडुकप्रदानाप्रदक्षिणीकारणात्मविडम्बनादिक्रियाकाण्डमात्राधिष्ठानादनु- 5 जष्ठानादिति पाशुपताः । सर्वेषु पेयापेयभक्ष्याभक्ष्यादिषु निःशङ्कचित्ताद् वृत्तादिति जन
कुलाचार्यकाः । तथा च त्रिकमतोक्तिः 'मदिरामोदमेदुरवदनस्तरसरसप्रसन्नहृदयः सव्यपार्श्वविनिवेशितशक्तिः शक्तिमुद्रासनधरः स्वयम् उमामहेश्वरायमाणः कृष्णया सर्वाणीश्वरमाराधयेत्' इति । प्रकृतिपुरुषविवेकमतेः ख्यातेः इति सांख्याः । नैरात्म्यादिनिवेदितसम्भावनातो भावनातः इति दशबलशिष्याः । अङ्गराञ्जनादिवत् Sne स्वभावादेव कालुष्योत्कर्षप्रवृत्तस्य चित्तस्य कुतश्चिद् विशुद्धचित्तवृत्तेः इति . जैमिनीयाः । सति धर्मिणि धर्माश्चिन्त्यन्ते । ततः परलोकिनोऽभावात् परलोकाभावे
कस्याऽसौ मोक्षः इति समवाप्तसमस्तनास्तिकाधिपत्या बार्हस्पत्याः । परमजब्रह्मदर्शनवशादशेषभेदसंवेदनाविद्याविनाशाद् इति वेदान्तवादिनः ।
"नैवान्तस्तत्त्वमस्तीह न बहिस्तत्त्वमञ्जसा ।
विचारगोचरातीतेः शून्यता श्रेयसी ततः ।। 07 इति पश्यतोहराः प्रकाशितशून्यतैकान्ततिमिराः शाक्यविशेषाः । तथा
ज्ञानसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां नवसंख्यावसराणामात्मगुणानाम् hi अत्यन्तोन्मुक्तिर्मुक्तिः इति काणादाः । तदुक्तम्
बिहार
४८
2010_04
Page #62
--------------------------------------------------------------------------
________________
बहिः शरीराद् यद्रूपमात्मनः सम्प्रतीयते ।
उक्तं तदेव मुक्तस्य मुनिना कणभोजिना ।। निराश्रयचित्तोत्पत्तिलक्षणो मोक्षः इति मोक्षावसराः ताथागताः । तदुक्तम्-
दिशं न काञ्चिद् विदिशं न काञ्चिन- नैवावनिं गच्छति नान्तरिक्षम् । दीपो यथा निर्वृतिमभ्युपेतः, स्नेहक्षयात् केवलमेति शान्तिम् ॥ ज दिशं न काञ्चिद् विदिशं न काञ्चिन्- नैवावनिं गच्छति नान्तरिक्षम् ।
जीवस्तथा निर्वृतिमभ्युपेतः, क्लेशक्षयात् केवलमेति शान्तिम् ॥ इति। - बुद्धिमनोऽहङ्कारविरहाद् अखिलेन्द्रियोपशमावहात्तदा द्रष्टः स्वरूपेऽवस्थानं मुक्तिरिति कापिलाः । यथा घटविघटने घटाकाशमाकाशीभवति तथा देहोच्छेदात् सर्वः प्राणी परे ब्रह्मणि लीयते इति ब्रह्माद्वैतवादिनः ।"
अत्र सोमदेवेन कृतं मोक्षविवरणं तत्तन्मतानुसारेण कृतमिति वक्तुं न शक्य तथाऽपि तस्याऽनेकमतविचारज्ञानमासीदिति अविवादम् । सर्वेषां स्वमते श्रद्धा, त
अन्यत्राऽनादर इति तु लोके दृश्यत एव । 5 इत्थं यशस्तिलकचम्पू: अनितरसाधारणान् गुणान् बिभ्रती विपश्चिदपश्चिमानां मनांस्याकर्षति ।
श्रद्धया पठिता ह्येषा ज्ञानं जनयति ध्रुवम् ।
प्रयत्नस्तत्र कर्तव्यो विद्वद्भिः सादरं सदा । दीर्घः कालोऽपेक्ष्यते च ग्रन्थस्याऽस्य विमर्शने । महत्त्वं च बृहत्त्वं ग्रन्थेऽस्मिन् विद्यते यत उक्तं हि ग्रन्थान्ते
एतामष्टसहस्रीमजस्रमनुपूर्वशः कृती विमृशन् ।
कवितारहस्यमुद्रामवाप्नुयादासमुद्रं च यशः ॥ इति । सोमदेवादन्येन मातृकायां लिखितं च पद्यमिदम्
वर्णः पदं वाक्यविधिः समासो लिङ्गं क्रिया कारकमन्यतन्त्रम् । छन्दो रसो रीतिरलङ्क्रियार्थो
लोकस्थितिश्चात्र चतुर्दशस्युः ॥ एतेषु सर्वेषु व्युत्पत्तिं लब्धुकामैः सोमदेवस्य चम्पूकृतिरवश्याऽध्येयेति शम्। रे
|
इइइइइइइइइइइइइइ)
90, 9th Cross, Navilu raste, Kuvempunagar
MYSURE - 570023. Ph. : 0821-2542599
2010_04
Page #63
--------------------------------------------------------------------------
________________
DN
पत्रम्
नमो नमः श्रीगुरुनेमिसूरये ॥
मुनिधर्मकीर्तिविजयः
MCDos
आत्मीयबन्धो !
चेतन ! धर्मलाभोऽस्तु । वयं सर्वे कुशलाः स्मः । भवतां सर्वेषां कुशलं कामये ।
साम्प्रतं सप्तत्यधिकैः श्रमण-श्रमणीभिस्तथा द्विशताधिकैः पदयात्रिभिः सह कर्णावतीनगरतः पादलिप्त(पालिताणा)पुरं वयं सर्वेऽप्यागतवन्तः । तत्र विभिन्नस्वभावानां जनानां समागमो जातः । तदाऽन्येषां सम्पर्केणाऽस्माकं स्वभावे जीवने
च परिवर्तनं भवतीति मम प्रतिभाति, तद्विषये किञ्चिद् लिलेखिषुरहम् ।। Q. अस्माकं समीपे सम्पर्के च कीदृशा जना वसन्ति तदुपरि जीवनस्य विकासो
ऽवलम्बते । अथवा यो जीव आत्मोत्थानमभिलषति स स्वकीयपरिसरे तादृशानेव जीवान् प्रवेशयति - ये जीवा न केवलं बुद्धिमन्तोऽपि तु विवेकिनः स्युः, न केवलं । रूपवन्तोऽपि तु सदाचारिणः स्युः, न च धनिका अपि तु सद्गुणिनः स्युरिति ।' एवं भवता कैः कैः सह मैत्री क्रियते, कीदृररीत्या व्यवहारः क्रियते, मित्रवर्तुले वार्तालापे च कीदृशी भाषोच्यते इत्येतानि जीवनविकासस्याऽङ्गानि सन्ति । तत एव 'यादृशः सङ्गस्तादृशो रङ्ग' इति जनोक्तिरपि प्रवर्तते । १४४४ ग्रन्थप्रणेतृभिः पूज्यपादश्रीहरिभद्रसूरीश्वरैः कथितम्
'जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं संवसंता तिला वि तग्गंधिया हुंति ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०४) 20 त्वया सुशीलानां सज्जनानां चैव समागमः करणीयः । दुःशीलेभ्यस्तु दूरत एव नमस्कारः करणीयः । यतस्तेषां प्रतिच्छायाऽस्माकं स्वभावे जीवने चाऽऽगच्छत्येव । गर्दभैः सह वसन्नश्वः पादप्रहारं शिक्षत्येव ।
SOO.
6°१. यो यादृशेन मैत्री करोति अचिरेण तादृशो भवति ।
कुसुमैः संवसन्तस्तिला अपि तद्गन्धिका भवन्ति ।।
2010_04
Page #64
--------------------------------------------------------------------------
________________
Donc cowocowowoc
पूज्यपादश्रीहरिभद्रसूरिपुङ्गवैर्गदितम्अंबस्स य निंबस्स य दोण्हं समागयाई मूलाई । संसग्गीह विणट्ठो अंबो निबत्तणं पत्तो ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०३) मधुमधुरं जलमपि यदाऽब्धौ प्रविशेत् तदा लवणस्य समागमेन तदपि लवणत्वं प्राप्नुयात् । एवं सुशीलोऽपि कुशीलानां दुर्जनानां च समागमेन दुःशीलो भवति । भो ! बालकेभ्यः शिक्षणं सज्ज्ञानस्यैव दीयते न त्वज्ञानस्य, तथाऽप्याश्चर्य त्वेतत् शिक्षणवर्गेषु सत्स्वपि बालकानां जीवने सदाचारस्य सुसंस्कारस्य चाऽऽगमनं भवति न वा, किन्तु शिक्षणं विनाऽपि तेषां जीवने कुशीलता प्रविशत्येव । यदि कस्यचिद् दुष्कृतं दृष्ट्वाऽपि मनसि दुश्चिन्तनमुद्भवेत् तदा दुःशीलजनैः सहैव मैत्री व्यवहारं च यः कुर्यात् तस्य जीवने कुसंस्कारं दुराचारं च विना किं प्रविशेत् ? कदाचित् स दुःशीलः कुसंस्कारी वा न स्यात् तॉपि लोके समाजे च हीनोऽनादरणीयश्च तु भवत्येव । __अनुश्रुतिर्वर्तते-काष्ठेषु चन्दनकाष्ठमुत्तमं मन्यते, तदतीव महार्ण्यमप्यस्ति । । ० तदपि यदि चतुष्पथमध्ये इन्धनकाष्ठैः सह पतितं स्यात् तर्हि तस्य मूल्यमिन्धनकाष्ठ-08 सदृशं भवेत् । तथैव दुःशीलेषु मध्ये वसन्तः सुशीलाः सद्गुणिनश्चाऽपि दुःशीलसमाना
एव मन्यन्ते । अतोऽपि तेषां समागमो न करणीयः । मरणं स्वीकरणीयं किन्तु । o कुशीलैः सह वासो न करणीयः । 28 पूज्यपादश्रीहरिभद्रसूरीश्वरैकृतम्
वरं वाही वरं मच्चू वरं दारिद्दसंगमो । वरं अरण्णे वासो य मा कुसीलाण संगमो ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०१) ० बन्धो ! बाल्यकाले पितरौ सततं कथयन्तौ आस्ताम्-तुच्छजनैरसभ्यवचनवद्भिः
कुत्सिताचारैश्च बालकैः सह नाऽटनीयं क्रीडनीयं व्यवहरणीयं च । अन्यथा वयमपि तादृशा भवेम-इति । तत्पश्चाद् दीक्षागुरूणां मुखादपि बहुश एतादृशं वचनं १. आम्रस्य च निम्बस्य च द्वयोः समागतानि मूलानि ।
संसर्गाद् विनष्ट आम्रो निम्बत्वं प्राप्तः ॥ २. वरं व्याधिर्वरं मृत्युः वरं दारिद्र्यसङ्गमः ।
वरमरण्ये वासश्च मा कुशीलानां सङ्गमः ॥
2010_04
Page #65
--------------------------------------------------------------------------
________________
श्रुतम्, किन्त्वेतादृशं वचनं तदा न रोचते स्म मह्यम् । अत्र को दोषः? किं भवेत् ? Q. यदि वयं निर्मलाः स्याम तर्हि कः किं कुर्यात् ? - इत्यादयो विकल्पाः सञ्जायन्ते . 80 स्म । किन्तु यथा यथा निरीक्ष्यतेऽनुभूयते च तदा ज्ञायते यद् ‘यादृशः सङ्गस्तादृशो
रङ्गः' इति । यथा समुद्रे जलावर्ते वेष्टितो जनो यथा यथा बहिनिर्गन्तुं प्रयतते तथा तथा स तस्मिन् जलावर्तेऽधिकतया निमग्नो भवति, तथैव यद्येकदा जनो दुःशीलजनानां समागमे विलग्नो जातस्तहि तत्समागमात् तस्य प्रतिनिवर्तनं । सुदुष्करमेव जायते । यतस्तादृशानां समागमे पतितो जनो जीवने एतादृशानि निन्दनीयानि कार्याणि कुर्याद् येनाऽऽजीवनं तेषां सूचनानुसारेणैव सर्वमपि करणीयं, सदा तेषां रक्षणे दुष्टकार्ये च साहाय्यमेव करणीयम्, अन्यथा स्वीयगुह्यकार्याणि
दुःशीला बहिः प्रकटयेयुरिति सदैव भीतिः-एवं च प्रतिनिवर्तनं दुष्करं भवति । 2080 किञ्च तेषां समागमे पतितो जनो विवेकं मर्यादां लज्जां चेति सर्वमपि त्यजति । _ 'कोऽहम् ? किं मे स्थानम् ? मम कर्तव्यं किम् ? मम पूज्यजनाः के? किं मे कुलम् ?' इति सर्वमपि विस्मरति । समाजे मम निन्दां कुर्वन्ति बहवो जनाः, मम कारणतो मम तथा परिवारस्य प्रतिष्ठा कलङ्किता भवतीत्यपि बोधो न जायते ।
स स्वकीयस्य शक्तेर्बुद्धेश्चोन्मार्गे व्ययं करोति । अन्ते स्वयं तु पतत्येव किन्त्वन्यान १०) पातयति ।
एतादृशेभ्यो जनेभ्यो हितकरं शुभं च न रोचते, न च हितोपदेशकाः सज्जनाश्च रोचन्ते, किन्तु स्वकीयाशुभकार्ये यः साहाय्यं करोति, यो बाधारूपो न AX भवति, स एव रोचते । शेषाः सर्वेऽपि शत्रुरूपा एव भासन्ते । शनैः शनैरेतादृशी १७) स्थितिरापतति यत्ते पूज्यजनानामपि मानं मर्यादामादरं चोल्लङ्घन्ते, तैरपि सह
माया-प्रपञ्चमसत्याचरणं क्लेशादिकं चाऽपि कुर्वन्ति ते । स्वकीयानां दुष्टमनोवृत्तीनां
पोषणं कथं केन कदा च स्यात् तस्यैव चिन्ता तेषां चित्ते भवेत् । यदा च तासां Ka पोषणं स्यात् तदैव ते सन्तोषमानन्दं चाऽनुभवेयुः ।
बन्धो ! यो जनो मद्यपानं प्रतिदिनं कुर्यात् स यदि मद्यं नाऽवाप्नुय किं भवेत् ? तमाखु-धूम्रपानासेवी जनो यदि कदाचित् केनाऽपि कारणेन तमाखुधूम्रपानं न प्राप्नुयात् तर्हि किं स्यात् ? स जनो व्याकुलो भवेत्, कदाचित्तु
ज्वरग्रस्तोऽपि स्यात् । यदा मद्यादिकं प्राप्नुयात् तदैव स तृप्तिमनुभवेत् । एतेषां 36 व्यसनानामासेवनेन बहवो जना दुःखिता मृताश्च जाता:-इति जानात्येष जनः । 820
तथाऽप्याश्चर्यं त्वेतद् यद् मरणं निमन्त्रयेत् किन्त्वेतानि व्यसनानि न मुञ्चन्ति । तथैव
५२
2010_04
Page #66
--------------------------------------------------------------------------
________________
दुःशीलजनानां समागमे पतितो जन एषः - जीवनाद् भ्रष्टो भविष्यामि, समाजे निन्दनीयो भविष्यामि, पूज्यजनानामनादरणीयो भविष्यामि, दुर्गतौ च पतिष्यामि, तथैतेषां कुशीलानां समागमेनाऽनेके जना उन्मार्गगामिनो जाता: इति सर्वं जानाति तथाऽपि स तेषां समागमं न त्यजति ।
अत्र कोऽपि जनः प्रश्नं करोति - किं कुशीलजनानां मध्ये कलुषिते वातावरणे च वसन्तः सर्वेऽपि जना दुःशीला भवन्त्येव ? इति । तदुत्तरमस्ति - नेति । यो जीवः सात्त्विकोऽस्ति, पापभीरुश्चाऽस्ति तादृशो जनो दुष्टजनानां मध्ये वसन्नपि । पङ्कजवद् निर्लेपीभूयाऽऽत्मानमनर्थेभ्यो रक्षितुं समर्थो भवति । अस्मिन् संसारे शुभान्यशुभानि च निमित्तानि पदे पदे प्राप्यन्ते, किन्तु सात्त्विकादिगुणयुतो जीवोऽशुभनिमित्तानि विहाय शुभनिमित्तान्येव गृह्णाति । एतादृशो जीवस्तु कुत्राऽऽत्महितं वर्तते, केन चाऽऽत्मोत्थानं भवतीति विचिन्त्यैव कार्यं करोति । एवं न कुमित्रं परिस्थितिं च वशीभवति किन्तु स्वशक्तेः सदुपयोगद्वारेण तं जनं सन्मार्गे प्रस्थापयितुं तथा मलिनपरिस्थितिमपि परिवर्तयितुं प्रयतते जीव एतादृशः, अन्यथा दूरे एव वसति । एवं सर्वमपि सत्त्वमवलम्बते ।
भो ! त्वं जानास्येव यद्- अभयकुमारस्य मैत्रीं यः करोति स्म स भव्य एव भवति स्म । क्रूरस्य कालसौकरिकस्य पुत्रः सुलसोऽप्यभयकुमारस्य मैत्रीप्रभावेणाऽशुभवृत्तिं विहाय सदाचारी सञ्जातः, तथैवाऽस्माकमप्याचरणमेतादृशं स्याद् येन यस्माकं समागमे आगच्छेयुस्ते सर्वेऽपि शीलवन्त उत्तमाश्चैव भवेयुः । ) अस्माकं समागमेनाऽन्यैर्हितं प्राप्यते न वा, किन्त्वहितं तु नैव स्यात्तेषामिति चिन्ता, कार्या सदा ।
2010_04
अन्ते, बन्धो ! यदि त्वं जीवनमुन्नतं कर्तुमिच्छेस्तर्हि कुशीलानां संसर्गाद् दूरमेव वसे: । यद्यज्ञानवशेन तेषां समागमो भवेत् तर्हि यदाऽपि वास्तविकबोध: > स्यात्तदा तत्क्षणमेव तेषां समागमं त्यजेः । भो ! यथा यदा पादस्यैकस्मिन् भागे, व्रणः स्यात्तदा चिकित्सकैर्व्रणयुतस्तद्भाग उच्छिद्येताऽन्यथा गते काले सम्पूर्णपादविच्छेदः करणीयः स्यात्; तथैव यदि तव मित्रवर्तुले गृहे कार्यालये चैकमपि दुःशीलं जनं जानीया: पश्येश्च तर्हि झटिति तं जनं दूरीकुर्या:, अन्यथा स तु कलङ्कीभवेदेव किन्तु तस्यैकस्य जनस्य पापेन समस्तमपि मित्रवर्तुलं गृहं कार्यालयं च कलङ्कीभवेत्। बहुवर्षैरवाप्ता प्रतिष्ठाऽपि मलिनीभवेत् । अतस्त्वमपि जागृतिपूर्वकं जीवनं जीवेः येन जीवने सदा प्रसन्नता प्रवर्तेत, इत्याशासे ।
T
५३
For Private Personal Use Only
Page #67
--------------------------------------------------------------------------
________________
B
सुभाषितानि कुंग-फु-त्झेवर्यस्य
मुनित्रैलोक्यमण्डनविजयः BDO अहं नित्यमात्मनिरीक्षणं करोमिB) १. अन्यैः सह व्यवहारे मया द्रोहस्तु न कृतः ?
२. मित्रैः सह व्यवहारे प्रामाणिकता तु न विस्मृता ?
३. गुरोः शिक्षायाः पालने प्रमादस्तु न विहितः ? 0 किलक्षण उत्तमपुरुष: ? स उपदेशात् पूर्वं स्वयमाचरति । 0 य: परमतसहिष्णुः स उत्तमः । @ विचारविहीना विद्या व्यर्था, विद्याविहीनो विचारो विध्वंसः । • विद्यावान् यदि गम्भीरो न भवति, तर्हि लोके आदृतो न भवति, तस्य ज्ञानं
च मूल्यहीनं भवति । @ नियमत्रयम्
१. प्रामाणिकता प्रथमः सिद्धान्तोऽस्तु । २. असमानशीलो वयस्यो माऽस्तु ।
३. दोषाणां विसर्जने विलम्बो माऽस्तु । @ यो देवो नाऽस्माकम्, तस्य पूजनं नाम चाटुकारिता ।
सत्यं ज्ञात्वाऽपि तस्याऽनाचरणं नाम भीरुता । • यदा किञ्चिद् वयं जानीमस्तदा 'जानीम' इति मननम्, यदा च न जानीमस्तदा
'न जानीम' इति स्वीकरणं नाम ज्ञानम् । ॐ यः पुरुषः सञ्चिते ज्ञाने नित्यं नवीनं पूरयति, स एव अन्यान् प्रबोधयितुं
शक्नोति ।
> * चीनदेशीयो विचारक: कन्फ्यूशियस्
2010_04
Page #68
--------------------------------------------------------------------------
________________
30 मनुष्येणैवं वक्तव्यम् -
तत् पदं मया नाऽवाप्तम्, नाऽस्ति चिन्ता, तत्पदप्राप्त्यर्थं या सज्जताऽपेक्षिता तस्याः सम्पादने एव मम विमर्शः; यशो न लब्धं मया, नाऽस्ति तस्याऽपि
चिन्ता, यशःप्राप्त्यर्थं योग्यताधिगम एव मम प्रयत्नः । ® यो धर्म परिचिनोति स श्रेष्ठः,
यो लाभमेव पश्यति स कनिष्ठः । छ) श्रेष्ठः कस्याऽप्यनुरोधे विरोधे वा पूर्वग्रहं न धारयति,
स सत्यानुसरणमेव जानाति । 80 प्राच्यास्तूर्णं न जल्पन्ति स्म
ते भीता भवन्ति स्म - वचनानुरूपं जातु न भविष्यतीति चेत् ? B) उत्तमं दृष्ट्वा तथा भवितुं विचारणीयम्,
अधमं दृष्ट्वाऽन्तर्मुखीभूयाऽऽत्मा निरीक्षणीयः । @ सावधो न प्रमाद्यति । • ज्येष्ठानां विरोधो कामं भवतु, किन्तु नम्रतया; तथाऽपि ते स्वकथनानुरूपं न परिवर्तन्ते चेदप्यधिक एव आदरो विधातव्यः, किन्तु स्वमतं न परिवर्तनीयम् ।
सूचनादानार्थं यदि दण्डो भोक्तव्यो भवेत्तयपि मौनमेवाऽवलम्बनीयम् । @ राजा पवनः प्रजा तृणम्, यथा पवनगतिस्तथा तृणनतिः । • यः पुरातनान् बन्धान् निष्प्रयोजनान् मत्वा भञ्जयति,
तेनोच्छङ्कलपूरस्य कष्टानि सोढव्यानि भवन्ति । @ राज्ञा गभीरतया शासनं करणीयम्,
येन प्रजा तं सम्मानयेत् । राज्ञा सर्वैः साकं वात्सल्येन व्यवहरणीयम्, येन प्रजा तं वशीभवेत् । राज्ञा योग्या उच्चैः स्थापनीयाः
येनाऽयोग्या योग्या भवितुं प्रयतेरन् । RO धर्मी एकाकी नैव भवति,
यो धर्मं समाचरति, सहचरास्तमवश्यं मीलन्ति ।
2010_04
Page #69
--------------------------------------------------------------------------
________________
काव्यानुवादः
IE
CHOENACETONES
2010_04
दुनिया
गुर्जरभाषायां मूललेखक: गुणवंत शाह
ईजिप्तना पिरामिडमां
चार-पांच हजार वर्षोथी
ठावकाईथी पडी रहे
एक ममी
ओचितुं जागी युं
अने
पिरामिडनी बहार
लटार मारवा नीकळी पड्यु.
थोडी ज वारमां
आम तेम फरीने ए पाएं आयु
अने यथास्थाने गोठवाई गयुं, सूई जतां पलां
एक निसासो नाखी ए बोल्युं : दुनिया हवे पहेलांना जेवी रही नथी!
५६
Page #70
--------------------------------------------------------------------------
________________
जगत्
अनुवादकः मुनिकल्याणकीर्तिविजयः
maitra
SNLOAD
ईजिप्तदेशस्थपिरामिडस्याऽन्तः आचतुः-पञ्चवर्षसहस्रेभ्यः धैर्येण स्थितमेकं रक्षितं मृतशरीरं (Mummy) सहसा जागृतमभवत्, बहिश्च पिरामिडात् पर्यटितुं निर्गतम् । स्तोकेनैव कालेन इतस्ततोऽटित्वा तत् प्रत्यागतं स्वस्थाने च प्रतिष्ठितम् । शयनात् पूर्वं दीर्घ निःश्वस्य तेन कथितं'जगदिदं न वर्तते पूर्ववत् !'
16
2010_04
Page #71
--------------------------------------------------------------------------
________________
काव्यानवादः
मूर्ख
CERIAWINNE
ENABLEMENELONE
आङ्ग्लभाषायां The Fool इति काव्यस्य लेखकः
- पेट्रिक् पीअर्स (आईरिश् कविः) गुर्जरभाषायामनुवादकः गुणवंत शाह
कारण के डाह्या माणसो नथी बोलता, तेथी हुं बोलुं छु. हुँ केवळ मूर्ख छु. ओवो मूर्ख छ के मने मारी भूलो प्रत्ये प्रेम छे. जीवनमां में एक पण डायुं काम कयुं नथी. भगवाने मने आपेलां कीमती वर्षो में वेडफी मार्यां छे. जो ओ वर्षो मने पाछा मळे तो हं ते वर्षोंने फरीथी वेडफी मारं.
7
2010_04
Page #72
--------------------------------------------------------------------------
________________
मूर्ख
अनुवादकः मुनिकल्याणकीर्तिविजयः
यतः प्राज्ञम्मन्या जना नैव वदन्ति अतोऽहं वदामि । अहं केवलं मूर्योऽस्मि तादृशो मूल्ऽहं यन्मे मम स्खलनानि रोचन्ते । मज्जीवने मयैकमपि शिष्टं कार्यं न कृतम् । भगवता मह्यं प्रदत्ता-अमूल्यवत्सरा मया मुधा गमिताः । यदि ते वत्सराः (कथमपि) मया पुनः प्राप्येरन् तदाऽहं तान् पुनरपि मुधा गमयेयम् !!
ShriPASAA
।
2010_04
Page #73
--------------------------------------------------------------------------
________________
काव्यानवादः
माता
मैं माँ हूँ। सूक्ष्मातिसूक्ष्म परमा प्रकृति का अनुभवगोचर स्थूलरूप है मेरा। कहते हैं सब मुझे प्यार से 'धरा' 'वात्सल्य-धारा' ॥
धारण करती बच्चों को सब बच्चों को और अच्छों को; नाहीं कोई भेदभाव मेरे मन में पुष्टि प्यार से भर देती हूं कणकण में ||
मेरे प्यार पर सभी यहां पर पलते हैं, पांव सटाकर, मेरे पर ही चलते हैं ।
जानूं मैं - वे बच्चे हैं, माँ के मन से अच्छे हैं; सहजभाव के बच्चे, मन के सच्चे हैं ।
__हिन्दी काव्यले. प्रा. चन्द्रिका पाठक बी.डी. कोलेज, अहमदाबाद-१
2010_04
Page #74
--------------------------------------------------------------------------
________________
माता
संस्कृतभावानुवादः डॉ. वासुदेव वि. पाठक 'वागर्थ'
अहं माता । सूक्ष्मातिसूक्ष्मायाः परमाप्रकृत्याः अनुभवगोचरं स्थूलं रूपं मम ।
प्रीत्या कथयन्ति सर्वे माम् - 'धरा' 'वात्सल्य-धारा' ||
धारयामि वत्सान् शुभाशुभाश्च; नास्ति कोऽपि भेदभावो मे मनसि, प्रीत्या पोषयामि प्रतिकणम् ।।
?'
G
3.
यद्यपि, मम प्रीत्या पुष्टास्सर्वे, पादाघातेन ममोपर्येव प्रचलन्ति सर्वे ॥
AR
जानामि, ते बालकाः मातुः मनसा सरसाः, सहजभावतः बालाः मनसा तु ते सरलाः ॥
३५४, सरस्वतीनगर, अमदावाद-१५
2010_04
Page #75
--------------------------------------------------------------------------
________________
अहिंसा
अन
जैनदर्शनपरिचय: मूललेखकः (हिन्यां) पं. श्रीदलसुखमालवणिया
अनुवादक: मुनिकल्याणकीर्तिविजयः
परस्पर - सहयोग
तत्त्वविषयिकी नानाविधा जिज्ञासा तत्समाधानकरणं च नानाप्रकारेणेत्ययं व्यवस्थाक्रम आप्राच्यकालाद् वरीवति स्म । एतस्य साक्ष्यं वेदा उपनिषदः - परकालीनं च समस्तं दार्शनिकं साहित्यं प्रददते ।
ऋग्वेदे दीर्घतमा ऋषिविश्वस्य स्वरूपं मूलकारणं च जिज्ञासन् प्रश्नयति यत्- 'को जानाति कथमिदं विश्वमुत्पन्नम् ? नाऽहं जानामि किन्तु तत्समाधानार्थं यत्र तत्र विचरामि तदा नाना वचनैः सत्यदर्शनं भवति' । प्रान्ते स वदति यत् - 'एकं सत् विप्रा बहुधा वदन्ति' । अर्थात् सत्तत्त्वं त्वेकमेव किन्तु विद्वांसस्तत्
बहुधा वर्णयन्ति, एकस्यैव तत्त्वस्य विषये नानाविधा वचनप्रयोगा दृश्यन्ते इत्याशयः । न ऋषेरिदं वचनं मनुष्यस्वभावस्य समन्वयशीलतामेव स्पष्टतया बोधयति । * * एषैव समन्वयशीलता शास्त्रीयरूपेण जैनदर्शने स्याद्वादतयाऽनेकान्तवादतया वा ( परिणताऽस्ति । नासदीयेसूक्तस्यर्षिर्यदा जगतो मूलकारणरूपं परमतत्त्वं - न सत् -
नाऽप्यसत् - कथयति तदा न सोऽज्ञानी संशयवादी वा, किन्तु तत्पार्श्वे तादृशाः
शब्दा न विद्यन्ते यैः परमतत्त्वं प्रकाशितं भवेत् । वस्तुतस्तु शब्दे तावती शक्तिरेव * नाऽस्ति यया परमतत्त्वं प्रकाश्येत । अत एव ऋषिणोक्तं – 'तदा सदपि नाऽऽसीत् ॥ • असदपि च नैव' । शब्दशक्तेर्मर्यादायाः स्वीकारेणैव स्याद्वादस्य तदस्वीकारेण - चैवैकान्तवादानां जन्म भवति ।
अस्तु, प्रकृतं प्रस्तुमः । विश्वस्य मूलकारणं किम् ? सद् वाऽसद् वा तत् ? (0.3 यदि सत्, तदा पुरुषः पुरुषतरं वा तत् ? पुरुषतरं च जल-वाय्वग्न्याकाशादिभ्यः कतमं तत् ? - इत्यादीनां प्रश्नानामुत्तरमुपनिषदामृषिभिः स्वस्वप्रतिभया दत्त्वा बहवो मतवादा उपस्थापिताः सन्ति । १. ऋग्वेदः १.१६४.४, १.६४.३७, १.१६४.४६ ॥ २. ऋग्वेदः १०.१२९ ॥
2010_04
Page #76
--------------------------------------------------------------------------
________________
तत्र केचनाऽसत्कारणवादिनः सन्ति, केचित् तु 'सत्कारणवादिनः सन्ति । किन्तु तेषामपि नाऽस्त्यैकमत्यम् । इदं साधर्म्यं त्ववश्यमस्ति यत् - विश्वस्य 3 मूलकारणत्वेन तेषामात्मा पुरुषो वा सम्मतो नाऽस्ति ।।
___ एतद्विपरीततया केचनर्षयो- 'जडतत्त्वेभ्यो विश्वं नोत्पत्तुं शक्यमतस्तदुत्पत्तेमूलकारणतया चेतनतत्त्वेन भवितव्य'मिति मन्यन्ते । तच्च चेतनतत्त्वं किम् ? इति ।
विषयेऽपि बहवो मतवादा दृश्यन्ते । तत्र च मुख्यतयाऽऽत्मवाद एव राजते । . १ यतोऽन्येषु बहुषु वादेषु सत्स्वपि यो वादः सन्तानानि यावच्चिरेण संस्थितो
यश्चोपनिषदां वैशिष्ट्यं मतः स त्वात्मवाद एव । उपनिषदामृषयोऽपि प्रान्ते - 5 'विश्वस्य मूलकारणं परमतत्त्वं वाऽऽत्मैवे'ति निष्कर्ष प्राप्ताः । ऋषीणामेतादृशं पक्षपातं लक्ष्यीकृत्यैवैवं कथ्यते यत् - 'उपनिषदां तात्पर्यमात्मवादे ब्रह्मवादे वाऽस्ती'ति । तच्च परमतत्त्वमात्मानं ब्रह्म वार्षयो नित्यं शाश्वतं सनातनमजन्यं ध्रुवं च मन्यन्ते । . एनमेवाऽऽत्मतत्त्वं ब्रह्मतत्त्वं वा जगत उपादानकारणतया निमित्तकारणतयाऽधिष्ठानतया वा प्रकल्प्य दार्शनिकैः केवलाद्वैतवादो, विशिष्टाद्वैतवादो, द्वैताद्वैतवादः शद्धाद्वैतवादश्चोपस्थापिताः सन्ति । समेषामप्येतेषां वादानामनुकूलवचनान्युपनिषत्सूपलभ्यन्तेऽतः सर्वेषामप्येषां वादानां बीजमुपनिषद एवेत्यत्र नाऽस्ति संशयः । यद्यप्युपनिषत्कालीनाः केचन द्रष्टारो महाभूतान्येवाऽऽत्मन उद्भव-लय-स्थानानीत्य
मन्यन्त किन्त्वात्मवादस्य प्रचण्डप्रवाहे तेषां मतं प्रायशो विलीनम् । M प्राचीनोपनिषदां कालो विद्वद्भिः ई.पूर्वं १२०० तः ई.पूर्वं ६०० यावन्निर्णीतो- ' * ऽस्ति । कालोऽयं भगवतो महावीराद् बुद्धाच्चाऽपि प्राक्तनः । अत इदं वक्तुं शक्यं
यदेतयोर्महापुरुषयोः पूर्वतनी भारतीयदर्शनस्य परिस्थितिं ज्ञातुमुपनिषद एवोत्तमं ।
र
Sex
* ३. असद् वा इदमग्र आसीत् । ततो वै सदजायत । तैत्तिरीयोपनिषत् २.७ ॥ नैवेह
किञ्चनाऽग्र आसीन्मृत्युनैवेदमावृतमासीत् । बृहहदारण्यकोपनिषत् १.२.१ ॥ आदित्यो । ब्रह्मेत्यादेशः । तस्योपख्यानम् । असदेवेदमग्र आसीत् । तत् सदासीत् । तत् समभवत् ।
तदाऽण्डं निरवर्तत । छान्दोग्योपनिषत् ३.१९.१. ।। W४. सदेव सोम्येदमग्र आसीदेकमेवाऽद्वितीयम् । (इत्यादि--) छान्दोग्योपनिषत् ६.२ ॥
। ५. बृहदा० ५.५.१ । छान्दो० ४.३. । कठोपनिषत् २.५.९. । छान्दो० १.९.१., १.११.५, HP ४.३.३., ७.१२.१. ॥
६-७. Constructive Survey of Upanishadas by Prof. Ranade.
2010_04
Page #77
--------------------------------------------------------------------------
________________
साधनमस्ति । एतदर्थमेवाऽत्रोपनिषदामाधारेण भारतीयदर्शनपरिस्थितिमवलोकयितुं किञ्चन प्रयतितम् । एतदवलोकनमाश्रित्यैव यदि वयं जैनदर्शनस्य बौद्धदर्शनस्य च ।। मूलतत्त्वानि विश्लेषयामस्तदा ज्ञायेत यज्जैनशास्त्राणां बौद्धशास्त्राणां च दार्शनिकक्षेत्रे व किं योगदानमस्तीति । __अत्र हि मुख्यतो जैनतत्त्वज्ञानविषयो वर्णयितुमुपक्रान्तोऽस्ति, अतस्तद्वर्णने बौद्धदर्शनतत्त्वान्यपि यथाप्रसङ्गं तुलनात्मकदृष्ट्या वर्णयिष्यन्ते । तत्र प्रथमं तावत् , भगवतो बुद्धस्याऽनात्मवादं विचारयामः । यतस्तस्मिन् स्पष्टे जैनदर्शनस्य मौलिकतत्त्वानि स्याद्वादोऽनेकान्तवादो वा च सुगमानि भविष्यन्ति ।।
भगवतो महावीरस्य बुद्धस्य च निर्वाणविषयिक्योऽनुश्रुतयो यदि प्रमाणतया : र मन्येरन् तदा भगवतो बुद्धस्य निर्वाणवर्षं ई.पूर्वं ५४४ निर्णीतमस्ति । तस्य जीवनकाल उपदेशकालश्च भगवतो महावीरात् पूर्वतनौ । अत एव स पार्श्वनाथपरम्पराप्रचलितस्य चातुर्यामस्योल्लेखं बहुशः स्वोपदेशेषु करोति स्म । उपनिषत्कालीनात्मवादस्य प्रचण्डपूरस्तेनाऽनात्मवादमुपदिश्य मन्दीकृतः । येन वेगेनाऽऽत्मवादः प्रसिद्धो जातः सर्वेषां च तत्त्वानां मूलत्वेनैकः परमः शाश्वत आत्मैष सम्मतो जातस्तेनैव वेगेन भगवता बुद्धेन तं वादमुन्मूलयितुं प्रयतितम् । स विभज्यवादी आसीत् । तेन रूप-वेदना-सज्ञा-संस्कार-विज्ञानादयः स्वीयतकरनात्मतया साधिताः । तर्काणां क्रमस्त्वयमस्ति
- "किं रूपं नित्यमस्ति अनित्यं वा ? + अनित्यम् । - यदनित्यं तत् सुखं वा दुःखं वा ? + दुःखम् । - यद् वस्तु ह्यनित्यं, दुःखं विपरिणामि च तद्विषये एवं विकल्पनं किं
योग्यं - यदिदं मम, इदमहम, इदं वा मे आत्मेति ? + नैव । एवं वेद॑नादिविषये चक्षुरादीन्द्रिय-तद्विषय-तज्जन्यविज्ञान-मनोमानसिक८. संयुक्तनिकाय १२.७०.३२-३७ ॥ ९. दीघनिकाय महानिदानसुत्त १५ ॥ १०. मज्झिमनिकाय छक्कसुत्त १४८ ॥
2010_04
Page #78
--------------------------------------------------------------------------
________________
7 धर्म-मनोविज्ञानादिविषये चाऽपि तर्कबलेनाऽनात्मत्वं साधितमस्ति ।
यदि कश्चिदेवं पृच्छति स्म - 'जाति-जरा-मरण-भवादयः किम् ? ते च । कस्य भवन्ति ?' तदा बुद्ध एवं वदति स्म यत् - 'ईदृशः प्रश्नोऽयोग्यः । यतोऽत्र प्रष्टा एवं मन्यते यज्जात्यादिभ्यो जात्यादिमान् भिन्नोऽस्तीति । अर्थाच्छरीरमन्यत् आत्मा चाऽन्यः । किन्त्वेवं मनने धर्माचरणं सङ्गतं न भवति । अतोऽत्राऽर्थे एवं प्रष्टव्यं यत् - जातिः कथं भवति? जरा-मरणे कथं भवतः? भवः कथं भवति? .. इति । तदैतेषां प्रश्नानामुत्तरं दातुं शक्यम् । एते सर्वेऽपि हि प्रतीत्यसमुत्पन्नाः
सन्ति । पश्यतु, शरीरमेवाऽऽत्मा - इत्येकोऽन्तः, शरीराद्भिन्न आत्मा - इत्यन्योऽन्तः । 15 अहं तु द्वावपीमावन्तौ परित्यज्य मध्यममार्गमुपदिशामि, यथा - र अविद्यया संस्काराः, संस्कारैर्विज्ञानं, विज्ञानेन नाम-रूपे, नाम-रूपाभ्यां
षडायतनानि, तैः स्पर्शः, स्पर्शेन वेदना, वेदनया तृष्णा, तया चोपादानं, तेन भवः,
भवेन च जाति-जरा-मरणानि भवन्ति । अयमेव हि प्रतीत्यसमुत्पादः' । - अथ च भगवतो बुद्धस्य मुख्यशिष्येणाऽऽनन्देन पृष्टं - 'भगवन् ! भवान् । वारं वारं लोकं शून्यत्वेन ख्यापयति । किमेतस्य तात्पर्यम् ?' तदा बुद्धेन यदुत्तरं । दत्तं, तेन बौद्धदर्शनस्याऽनात्मविषयकं मौलिकं मतं व्यक्तीभवति – “१°यस्मा च खो आनन्द ! सुझं अत्तेन वा अत्तनियेन वा तस्मा सुझो लोको ति वुच्चति । किं च आनन्द ! सुझं अत्तेन वा अत्तनियेन वा ? चक्खं खो आनन्द ! सुझं अत्तेन वा अत्तनियेन वा । ( एवं ) रूपं ....... रूपविञाणं ....... (इत्यादि) - (संयुक्तनिकायः ३५-८५) Ram अनात्मवादस्य तात्पर्यं किम् ? इति यदा विचारयामस्तदैतत् स्पष्टीकरण-.
मावश्यकं यद् भगवतो बुद्धस्य यथा शरीरात्मवादोऽमान्यस्तथैव सर्वान्तर्यामिनित्य-ध्रुव-शाश्वतात्मवादोऽप्यमान्य एव । तन्मतेन ह्यात्मा शरीरादत्यन्तं भिन्नोऽपि नाऽस्ति, तथैवाऽत्यन्तमभिन्नोऽपि नाऽस्ति । तस्य चार्वाकसम्मतो भौतिकवादोऽप्येकान्ततया भासते तथैवोपनिषदां कूटस्थात्मवादोऽप्येकान्ततया भासते । तन्मार्गस्तु मध्यममार्गः । प्रतीत्यसमुत्पादवाद एव तस्य मान्यः । ११. (सं. छाया) यस्माच्च खलु आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा तस्मात् शून्यो ।
लोक इत्युच्यते । किञ्च आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा ? चक्षुः खलु . आनन्द ! शून्यम् आत्मना वा आत्मनियतेन वा । एवं रूपम् .... रूपविज्ञानम् ... इत्यादि ।
६५
2010_04
Page #79
--------------------------------------------------------------------------
________________
।
यतो यदि स एवाऽपरिवर्तिष्णुरात्मा मृत्वा पुनर्जन्म धारयति संसरति चेति 1 मन्येत तदा १२शाश्वतवादो भवति, यदि च महाभूतेभ्य आत्मोत्पद्यते तथा शरीरे, नष्टे सोऽप्युच्छिद्यते विनश्यति लुप्यति वेति मन्येत तदोच्छेदवाद:१३ प्रसजति । तथागतबुद्धो हि द्वावपि वादौ परित्यज्य१४ मध्यममार्गमुपदिशति । तस्याऽशाश्वतानुच्छेदवादस्य स्पष्टीकरणार्थं संवादमिममवलोकयामः -
- किं भगवन् गौतम ! दुःखं स्वकृतमस्ति ? + काश्यप ! नाऽस्त्येवम् । - किं दुःखं परकृतमस्ति ? + नैव ।
किं दुःखं स्वकृतं परकृतं च ? + नैव । - किं दुःखमस्वकृतमपरकृतं च ? + नैव । - तर्हि किं दुःखम् ? भवान् तु सर्वेषामपि प्रश्नानामुत्तरं नकारेणैव ददाति ! । + दुःखं स्वकृतमित्यस्याऽर्थोऽयं यद्-येन कृतं तस्यैव भोग इति । किन्त्वेवं
कथनेन शाश्वतवादोऽवलम्बितो भवति । दुःखं परकृतमित्यस्य च अन्येन कृतस्याऽन्येन भोग इत्यर्थो भवति । एवं कथने चोच्छेदवादोऽवलम्बितो भवति । तथागतस्तौ द्वावपि वादौ परित्यज्य मध्यममार्गस्यप्रतीत्यसमुत्पादस्योपदेशं ददाति यथा - अविद्यया संस्कारः, संस्कारेण विज्ञानं - - - - - स्पर्शेन दुःखम् - - - - इत्यादि ॥ (संयुक्तनिकायः १२.१७, १२.२४)
अत्रेदं तात्पर्य - संसारेऽस्मिन् सुख-दुःखादिका अवस्थाः सन्ति, जन्म, 4 PO जरा, मरणं, कर्म, बन्धः, मुक्तिरित्यादीन्यपि सन्ति । किन्त्वेषां सर्वेषां स्थिराWITH धारत्वेनाऽऽत्मा नाम न किमप्यस्ति । एताः सर्वा अप्यवस्थाः पूर्व-पूर्वतनकारणै
रुत्तरोत्तरकालेषु सम्भवन्ति । भूत्वा चैता नूतनामेकामवस्थां समुत्पाद्य विनश्यन्ति। एवं च संसारस्य चक्रं परिभ्राम्यति । अत्र हि पूर्वस्य सर्वथोच्छेदोऽपि नेष्टः, सर्वथा १२-१३. दीघनिकाय ॥ १४. संयुक्तनिकाय १२.१७ ॥
६६
2010_04
Page #80
--------------------------------------------------------------------------
________________
- ध्रौव्यमपि नेष्टम् । उत्तरं हि पूर्वस्मात् सर्वथाऽसम्बद्धमपूर्वं चेत्यपि नेष्टम् । किन्तु
पूर्वमेवोत्तरस्याऽस्तित्वस्य कारणमस्ति । पूर्वस्य सर्वेऽपि संस्काराः सर्वाऽपि, शक्तिरुत्तरस्मिन् सङ्क्राम्यति । अत एव पूर्वमिदानीमुत्तररूपेणाऽस्तित्वं धारयति । किञ्च उत्तरं पूर्वस्मात् सर्वथा भिन्नमभिन्नं वाऽपि च नाऽस्ति किन्त्वव्याकृतं तत् । यतो भिन्ने सत्युच्छेदवादोऽभिन्ने च सति शाश्वतवादः प्रसजति । तथागतस्य नैतौ द्वावपि सम्मतावत एतादृशप्रश्नान् सोऽव्याकृततयोत्तरयति ।
तन्मतेन संसारचक्रनिरोधार्थमयमेवोपायो यत्-पूर्वं पूर्वतरं निरोद्धव्यम् । कारणनिरोधेन कार्यं नोत्पत्स्यते । अर्थाद् - अविद्यानिरोधेन संस्कारनिरोधः, ..... तृष्णानिरोधेनोपादाननिरोधः तन्निरोधेन भवनिरोधः, भवनिरोधेन जन्मनिरोधः, ततश्च मरणनिरोधो भवति ।
अत्राऽपि च प्रश्नोऽयमुत्तिष्ठते यद्-मरणानन्तरं तथागतस्य किं भवति ? किन्त्वस्य प्रश्नस्योत्तरमप्यव्याकृतमेव । यतो यदि मरणानन्तरं तथागतोऽस्तीत्युच्येत तदा शाश्वतवादो, यदि च नाऽस्तीत्युच्येत तदोच्छेदवादः प्रसजति । द्वावप्येतौ वादौ . निषेद्धं बुद्धेन मरणोत्तरदशायां तथागतोऽव्याकृतः कथितः । यथा गङ्गासिकतायाः 7 प्रमाणं नाऽस्ति, समुद्रजलस्य मानं नाऽस्ति, तथैव मरणोत्तरं तथागतोऽप्यव्याकृत
उच्यते, गभीरत्वादप्रमेयत्वाच्च । येन रूप-वेदना-सज्ञादिकारणेन तथागतस्य प्रज्ञापना भवति स्म तत् तु प्रहीणम् । अधुना तत्प्रज्ञापनाया न किञ्चित् साधनमित्यतः सोऽव्याकृतोऽस्ति ।
यथा ह्युपनिषत्सु 'नेति नेति' - इति वचोभिरात्मा ब्रह्म वा निर्विशेषतया प्रतिपादितं तथैव तथागतबुद्धेनाऽप्युपनिषद्भ्यः सर्वथा वैपरीत्येनाऽऽत्माऽव्याकृतः कथितोऽस्ति । एवमुपनिषत्सु यथा परमतत्त्वस्याऽवक्तव्यत्वं मत्वाऽपि व्यवहारेणाऽनेकधा तद् वणितं तथैव भगवता बुद्धेनाऽपि लोकसञ्ज्ञां, लोकनिरुक्ति, लोकव्यवहारं, लोकप्रज्ञप्तिं चाऽऽश्रित्य कथितं यत् – “पूर्वमहमासीत् - नाऽऽसीदिति न, भाविनि, भविष्याम्यहं - न भविष्यामीति न, अधुनाऽहमस्मि - नाऽस्मीति न" । व्यवहारे तु तथागतो भाषामिमां प्रयुङ्क्ते किन्तु स तत्र बद्धो न भवति ।
वैदिक आत्मवादो बौद्धश्चाऽनात्मवादो विचारितः । अधुना तद्भूमिकाधारेणैव । * जैनगमवर्णितस्तत्त्वविचारः क्रियते । यद्यपि जैनतत्त्वविचारस्तत्कालीनदार्शनिकविचारैः + सर्वथाऽस्पृष्टो नाऽस्ति तथाऽपि जैनानुश्रुतिमाश्रित्येदं वक्तुं शक्यमेव यत्-जैनागम} वर्णिततत्त्वविचारस्य मूलं भगवतो महावीरस्य कालादपि पुराणम् । यतो जैनानुश्रुत्यनु
सम
६७
2010_04
Page #81
--------------------------------------------------------------------------
________________
सारं तु भगवता महावीरेण किञ्चिन्नूतनं तत्त्वदर्शनं नैवोपदिष्टं किन्तु ततोऽपि सार्धद्विशतवर्षेभ्यः पूर्वं सञ्जातस्य पार्श्वनाथभगवतस्तत्त्वविचार एवोपदिष्टोऽस्ति । ,
यद्यपि पार्श्वनाथसम्मत आचारो भगवता महावीरेण किञ्चिदिव परावर्तित इति तु मर जैनागमैर्ज्ञायते, तथाऽपि पार्श्वनाथोपदिष्ट तत्त्वज्ञानात् तस्य कोऽपि मतभेदः कुत्राऽपि
न दृश्यते । अत इदमवश्यं वक्तुं शक्यं यद् जैनतत्त्वविचारस्य मूलानि भगवतः * पार्श्वनाथस्य समयं यावत् त्वश्यं पुराणानि ।
यद्यपि जैनानुश्रुत्यनुसारं तु भगवता पार्श्वनाथेन स्वस्मात् पूर्वं सञ्जातस्य । श्रीकृष्णसमकालीनस्याऽरिष्टनेमिभगवतः परम्परैव स्वीकृताऽऽसीत्, अरिष्टनेमिना च ततोऽपि पूर्वं सञ्जातस्य नमिनाथस्य । एवं पूर्वं पूर्वतनं च विचारयता प्रथमं 3 तीर्थकरं श्रीऋषभदेवं यावदस्या मूलानि प्राप्यन्ते । तदनुसारं च वेदोपनिषदां
समस्तानामपि मूलस्रोत ऋषभदेवप्रणीतजैनतत्त्वविचार एवाऽस्ति । तथाऽप्येतज्जै- नानुश्रुतेः प्रामाण्यमैतिहासिकदृष्ट्या साधयितुं न शक्यम् । एवं सत्यपि जैनतत्त्वविचारस्य प्राचीनत्वं त निस्सन्दिग्धमेव ।
किञ्च, उपनिषत्सु यथाऽन्यदर्शनशास्त्राणां बीजानि प्राप्यन्ते तथा जैनतत्त्व- विचारस्य बीजानि नैव प्राप्यन्ते । अतः स विचारो यथा प्राचीनस्तथा स्वतन्त्रोऽपि। -
आगमेषु कर्मविचारस्य व्यवस्था, मार्गणा गुणस्थानानि चाऽऽश्रित्य विचारणं,
जीवानां गत्यागत्योर्विचारः, लोकव्यवस्थायास्तद्रचनायाश्च विचारः, परमाणुपुद्गलानां Vतद्वर्गणानां पुद्गलस्कन्धानां च विचारः, षड्द्रव्याणां नवतत्त्वानां च व्यवस्थितं M- निरूपणं विलोक्याऽवश्यं वक्तुं शक्यते यत्-जैनतत्त्वविचारधारा हि भगवतो
महावीरादपि पूर्वतनानां नैकवंश्यानां परिश्रमस्य सुफलम् । एवं चाऽस्या विचारधाराया उपनिषत्प्रतिपादितनैकमतेभ्यः पार्थक्यं स्वातन्त्र्यं च स्वयंसिद्धमेव ।
__एतावता भूमिका सञ्जाता । अधुना तु जैनदर्शनस्य मुख्यसिद्धान्तस्य-1अनेकान्तवादस्य स्याद्वादस्य वा परिचयस्य प्रस्तावः । तं च वयमागामिन्यां शाखायां विचारयिष्यामः । इति ।
(पं. श्रीदलसुखमालवणिया-सम्पादिताया न्यायावतारवार्तिक-वृत्तेः प्रास्ताविकादनूदितोऽयं लेखः ।।)
2010_04
Page #82
--------------------------------------------------------------------------
________________
ग्रन्थ समीक्षा
'आचार्ययुगलस्मृतिग्रन्थ:'
I
र
(समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२) सम्पादको लेखकश्च - प्रो. केशवशर्मा, राष्ट्रपतिसम्मानसमलङ्कृतः । प्रकाशकः - सचिव, श्रीमतीरत्नकुमारीसंस्कृतशोधसंस्थान, भारतीविहार, मशोबरा,
शिमला, १७१००७, हिमाचलप्रदेश, भारत ।। प्रथमं संस्करणम् - २००८ । पृ.सं. १०+१००+७२+७६, मूल्यम् - ५००/
AP विबुधवाण्याः संस्कृतभाषायाः प्रचार प्रसारे संरक्षणे च येषां विशिष्टमवदान
मस्ति, तेषु विद्वद्वरेण्येष्वग्रेसरति स्म-आचार्यवर्यो दिवाकरदत्तशर्ममहाभागः, 'दिव्यज्योतिः' इति संस्कृत-पत्रिकाया आद्यसम्पादकः । तस्य पत्नी बभूव श्रीमती । रत्नकुमारीशर्मा । तयोः संस्मृतौ ‘आचार्ययुगलस्मृतिग्रन्थः' सम्पादितो लिखितश्च । प्रो. केशवशर्मणा ।
श्रीभैरोसिंहशेखावत-अटलबिहारीवाजपेयि-वीरभद्रसिंह-सोनियागान्धिSN महाभागानां सन्देशैः साकमत्र श्रीआमोदकुमारझामहोदयस्य लेख: 'यत्र नार्यस्तु sh
पूज्यन्ते रमन्ते तत्र देवताः ?', डा. राजेन्द्रमिश्रादीनां कविताश्च राजन्ते । ततो EN हिन्दीभाषया श्रीमतीरत्नकुमारीशर्ममहाभागायाः जीवनपरिचयः, तत्सम्बद्धानि
संस्मरणानि च, आचार्यदिवाकरदत्तमहाभागस्य संक्षिप्तं जीवनवृत्तम्, प्रो. केशव- Kosh 27) रामशर्मप्रणीतः प्रशंसाञ्जलिः, तत्सम्बद्धाश्चोद्गारा विदुषां संस्थानाञ्च, चित्रमयानि
च कानिचन संस्मरणानि शोभन्ते । ततश्चाऽष्टपर्णात्मकं श्रीकेशवशर्मविरचितम् । 'अपर्णा' काव्यम् अस्ति हिन्दीरूपान्तरोपेतम् । ग्रन्थान्ते विलसति भागद्वये विभक्ता कथा 'भारतीयम्', प्रायशः सत्यघटनाश्रिता, आधुनिककाले 'उपन्यासः' नाम्नाऽभिहिता । इयमपि कथा प्रो. केशवशर्मरचिताऽस्ति ।
'अपर्णायाः' प्रथमे पर्णे काव्यकारस्याऽऽत्मपरिचयः, द्वितीये पणे मातुरानन्द- मय्याः प्रसादेन तस्योदरपीडाया उपशमनं, पराम्बायाः अनुकम्पया मारणप्रयोगात् । कथं स भगिनीभ्यां च साकं रक्षितः ? इत्युच्यते । स विश्वसिति
'एवं शिवा पराम्बा सा रक्षणे सक्षणा सदा । __पदे पदे सहैवाऽस्ति विश्वासोऽयं दृढो मम ॥' (अपर्णा २/१०७)
2010_04
Page #83
--------------------------------------------------------------------------
________________
तृतीये पणे पराम्बानुकम्पया धनाप्तिः, आचार्यसुतायाश्चाऽपस्माररोगाद् विमुक्तिरुच्यते । चतुर्थे पर्णे आचार्यसुतायाः करुणायाः पतनाद् मातुः कृपया रक्षणम्; पञ्चमे च तस्या एव यौवने पति-पुत्राप्तिः, सूनृतायाश्च वैधव्ये जीविकाप्राप्तिरुच्यते। षष्ठे पर्णे मातुर्वातादिविषमवेदनाया निवारणम्, सप्तमे पर्णे कवयितुर्बसयानदुर्घटनायाः । सुरक्षा च पराम्बाप्रसादेनाऽभिधीयते । अष्टमे च पर्णे श्रीहरिमहाभागस्योपरिः भगवत्या राधाया अनुग्रहश्चमत्कारोपेतो वर्ण्यते । इत्थं काव्येऽस्मिन् पराम्बाप्रसादसम्बद्धाः सत्यभूता घटनाः सरलया भाषयाऽभिहिताः प्रसादयन्ति ।
'भारतीयम्' इति कथायाम् – भारते सुरवाणीं पठितुं समायाताऽमेरिकादेशीया में मीनाक्षी भारतीयं धर्म संस्कृति वेदं वेदाङ्गं दर्शनं स्मृति पुराणं रामायणं महाभारतं चाऽधिकृत्य विभिन्नान् प्रश्नान् पृच्छति । तस्याः समेषां प्रश्नानां समीचीनं समाधानं ग्रन्थप्रणेत्रा विधीयते प्रथमे भागे । तद् यथा- "मीनाक्षी - किमेष संस्कारः मृत्योः पश्चादेव क्रियते ?" साधु ज्ञातम् । श्राद्धस्तु मृत्योः पश्चात् से तत्कालमेव प्रारभते । श्राद्धप्रक्रिया द्विरूपा भवति । एका प्रेतक्रिया या मृत्योः RE पश्चात् तत्कालमेव क्रियते । द्वितीया पितृक्रिया सा भवति या पूर्वजानां कृते ।
निश्चितकाले भवति । अस्माकमयं विश्वासो यद् मृत्युकाले जीवः प्रणमयकोशेन 7 अन्नमयकोशादथवा भौतिकशरीरात् पृथक् भवति । परन्तु यावत् शरीरं मृत्तिकायां inst Ke न मिलति तावत् प्राणमयकोशात् सम्बन्धविच्छेदो न भवति । प्रकृतेनियमानुसारं ।
प्राणमयकोशेन भूलॊकस्त्याज्यः । प्रेतक्रिया अस्यैव प्राकृतिकनियमस्य साहाय्यं 2 करोति ।...." (भारतीयम्, पृ. ३७) वर्णाश्रमव्यवस्थाया वैज्ञानिकी व्याख्याऽपि Cast र विराजतेऽत्र ।
द्वितीये भागे ग्रन्थकुद निद्रालीनः स्वप्ने स्वजीवनस्य विविधा घटनाः, र संस्कृतसम्बद्धाः संस्मरति । तस्मिन्नेव काले जोन् बाउलमहाभागोऽमेरिकदेशीयैर्मित्रैः साकमागच्छति । ते सर्वे सम्भूय हिमाचले हिमालयोपत्यकासु सिद्धपुरुषं द्रष्टं यान्ति । विविधस्थलेषु विहरणं विधाय शालीमन्दिरसमीपस्थायां गुहायामेकस्यामेकंड सिद्धपुरुषं विलोक्य, तेन च सार्धं वार्ता कृत्वा ते दिनद्वयानन्तरं रत्नकुमारीसंस्कृत-र
शोधसंस्थानमागत्य सिद्धपुरुषस्य च चमत्कारान् संस्मरन्तः स्वस्वकर्मणि रता 0 बभूवुः । एवं कथायामस्यां वैदिकधर्मस्य संस्कृतेः परम्परायाः संस्कृतस्य च
गौरवस्य सुगमभाषया बोधं प्रस्तौति कथाकारः । एषः प्रयासः सर्वथा संस्तुव्योऽस्ति, र o आचार्ययुगलस्य वास्तविकः श्रद्धाञ्जलिरपि । अनया कथयाऽऽचार्यवर्यस्य
2010_04
Page #84
--------------------------------------------------------------------------
________________
व संस्कृतसंवर्धनपराणि कार्याण्यपि संस्मारयति कथाकृद् व्याजेन ।
____ काश्चन मुद्रणत्रुटयः शोधनीयाः सन्ति । तद्यथा - 'सुलभसूत्रम्' (भा०, पृ. १३) कल्पसूत्रेषु 'सुलभसूत्रम्' न वर्तते । अत्र 'शुल्वसूत्रम्' इति पाठः स्यात् । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैः संस्कृतसंस्कृतिप्रणयिभिश्च सर्वथा संग्राह्यः पठनीयश्च । जयतु संस्कृतं संस्कृतिश्च ।
'यावद्रत्नचयं दधाति वसुधा ज्योतिश्च यावद्रवौ, यावद् वेदसुमङ्गलध्वनिभरौ जागर्ति मदभारते । यावद् वै द्विजमस्तके सिततपस्तेजो हि विभ्राज्यते, तावद्विशदिवाकरस्य जगति स्थास्यत्यखण्डं यशः ॥'
- प्रो. केशवरामशर्माणः (आचार्य०, पृ. ५५)
'सुरभारतीसपर्याकुसुमाञ्जलि:'
(समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२ सम्पादिका (श्रीमती) सुरचना त्रिवेदी प्रकाशकः - सुदिशा प्रकाशन, २१५, मिश्राना, लखीमपुर-खीरी, २६२७०१. प्रथमं संस्करणम् - २००९, पृ.सं. ३२+३१६, मूल्यम् - ४००/
१
विश्वस्मिन् जगति संस्कृतभाषा सर्वासां भाषाणां जननीति वयं मन्यामहे। 0 साम्प्रतं संस्कृतस्य संरक्षणाय, संवर्धनाय, लोके च संप्रचाराय यैविद्वद्भिः सततं RE सम्प्रयत्यते, तेषु प्रमुखोऽस्ति आचार्यवर्यो बाबूराम-अवस्थी महाभागः । तस्यैव
पूतचरितस्य सुरभारतीसपर्यासमर्पितसमग्रजीवितस्य विविधसामाजिकसांस्कृतिकA) साहित्यिकसंस्थाभिः सम्मानितस्याऽऽचार्यप्रवरस्य कविवर्यस्य साहित्याचार्यस्य
साहित्यश्री-संस्कृतश्री-कविरत्न-साहित्यमहोपाध्यायप्रभृत्युपाधिभिश्च संविभूषितस्य अभिनन्दनग्रन्थः 'सुरभारतीसपर्याकुसुमाञ्जलिः' (श्रीमती)सुरचनात्रिवेदिमहाभागया सम्पादितः, श्रीविजयकुमारतिवारीमहोदयेन संयोजितः, सुदिशाप्रकाशनसंस्थया च प्राकाश्यं नीतः ।
2010_04
Page #85
--------------------------------------------------------------------------
________________
ग्रन्थेऽस्मिन् पञ्च पुष्पाणि विलसन्तितराम् । प्रथमे पुष्पे पूर्वपुरुषाणां परिचयेन "साकमाचार्यवर्यस्य जीवनपरिचयः शोभते । द्वितीये पुष्पे - आचार्यबच्चूलालअवस्थीडा. राजेन्द्र मिश्र - डा. शिवबालकद्विवेदी - डा. प्रशस्यमित्रशास्त्रि- आचार्यगिरिजाशङ्करमिश्र - डा. प्रकाशमित्रशास्त्रि - आचार्यमेवारामपाण्डेय - डा. राधेश्यामगङ्गवार• श्रीनारायणसिंहचौहान - सुभाचन्द्र मिश्र - सन्तराम अवस्थी - डा. पुष्पामलिक- श्रीमती वन्दना अवस्थी - डा. प्रेमाअवस्थी - बृजेशनन्दन अवस्थी - डा. श्रीरामसिंहडा. सुधागुप्ता - रामखेलावनवर्मा-सत्यप्रकाश-वी. डी. शुक्ल - बाबूरामविश्वकर्मा• मदनमोहन मिश्र - डा. सत्यप्रकाशमिश्र - सन्तोषकुमारवर्मा - राजकिशोरपाण्डेय - राजेन्द्र• प्रसादतिवारी - प्रभृतीनां प्रशस्तयः शुभकामना अभिनन्दनानि च विराजन्ते । तृतीये ॐ पुष्पे डा. आनन्दमङ्गलवाजपेयि - डा. निरुपमाअशोक-डा० कृष्णकुमार श्रीवास्तव• राजकुमारत्रिवेदि - शिवबालकतिवारी - सत्येन्द्रविक्रमसिंह - डा. सन्तोषकुमारमिश्र* संजीव त्रिवेदी - ओङ्कारनारायणद्विवेदीत्यादीनामाचार्यवर्यगुणकीर्तनपराणि संस्मरणानि राजन्ते । चतुर्थे पुष्पे प्रो. ओमप्रकाशपाण्डेय - डा. गणेशदत्तसारस्वत- डा. नवलता• डा. विजयकर्ण -डा. व्रजेशकुमारशुक्ल - डा. प्रीतिसिनहा - प्रो. हरिदत्तशर्म - डा. राम* विनयसिंह - डा. अनन्तराम मिश्र - डा. रेखाशुक्ला - डा. गीताशुक्ला - डा. शशिप्रभावाजपेयि - डा. कुमारीकामिनीमहेन्द्र - डा. विद्याआचार्य डा. विनोदकुमारगुप्ता• डा. कल्पनाद्विवेदी - पूर्णिमाअवस्थी - कु. भावनामिश्र - शरदकुमार श्रीवास्तवप्रभृतीनामाचार्यवर्यस्य महनीयरचनानां सन्दर्भे शोधोपेताः समीक्षा विभान्ति । पञ्चमे च पुष्पे कतिपयविदुषां पत्रादयो विलसन्ति । ग्रन्थात् प्राक् प्रो. राधावल्लभ• त्रिपाठि -डा. आद्याप्रसाद मिश्र - डा. रमाकान्तशुक्लादिमहाभागानां सन्देशाः सन्ति । लेखद्वयं विहाय सर्वा रचना संस्कृतेन हिन्दीभाषया च प्रणीताः सन्ति । लेखद्वयमाङ्ग्लभाषया लिखितमस्ति ।
अहं मन्ये - कस्यचिदपि अभिनन्दनग्रन्थस्य साफल्यमभिनन्दितस्य जनस्य *" चरितस्य प्रकाशने, गुणानां कीर्तने, कृतीनां च विवेचने, समाजस्य, देशस्य, राष्ट्रस्य, समग्रजगतो मङ्गले, अशिवस्य च निवारणे, तत्कार्याणां समीक्षणे समन्वयने. • च राजते । आचार्यचरणानामभिनन्दने, समर्चने, तस्य सुरभारतीसपर्यापर्यालोचने, " तत्र च सद्गुणानां वर्णने, कृतीनां शोधपूर्णदृष्ट्या च समीक्षणे, विबुधवर्याणां विविधरचनानां च समावेशने सम्पादिकामहाभागानां प्रयत्ना अत्र नितरां फलन्ति । • ग्रन्थस्य चतुर्थे पुष्पे आचार्यवर्याणां विविधकृतीनां विविधैर्भावैर्विवेचनं प्रसादयति ।
2010_04
७२
For Private Personal Use Only
Page #86
--------------------------------------------------------------------------
________________
द्वितीये तृतीये च पुष्पे विद्वद्वर्याणां परिचितानां च भावोपेतान्यभिनन्दनानि संस्मरणानि - च सुरभारतीसमाराधकस्य अवस्थिमहाभागस्य सुरभारतीपरिचर्यां सद्गुणान् च । सम्यक् संस्मारयन्ति ।* पञ्चमे पुष्पे आचार्यसत्तमानां कस्या अपि समुत्तमायाः कृतेः प्रकाशनमथवा प्रकाशितकृतीनां किमपि परिचयात्मकं विवरणमपेक्ष्यते । प्रथमे पुष्पे जीवनपरिचये संस्कृतस्य संवर्धने प्रचार प्रसारे च महनीयपादानां यो दीर्घतरः संघर्षः स्यात्, तत्र च या बाधाः समुत्पन्नाः, तासां काऽपि चर्चा न दृश्यते । सा स्यादत्र ।
यद्यपि ग्रन्थस्य रमणीये कमनीये च सम्पादने, नयनाभिरामे मनोरमे च । - मुद्रणे सावहितं प्रयत्ना विहिताः, तथाऽपि कानिचन मुद्रणस्खलितानि भाविनि
संस्करणे संशोधनीयानि सन्ति । ग्रन्थोऽयं ध्रुवं सर्वैः संस्कृतज्ञैः संस्कृत-संस्कृतिKey प्रणयिभिश्च संग्राह्यः पठनीयश्च जयतु संस्कृतं संस्कृतिश्च ।
'विराजतां मानवता त्रिलोक्यां
परस्परं प्रेम विवर्धतां च । समेधतां सन्ततमात्मभावोमहोन्नति गच्छतु मानवोऽयम् ॥' -आचार्यचरणस्य
('युगदर्शनम्', पृ. ६५)
*
* 'विश्वबन्धुत्वभावस्त्वया सत्कृतः
सज्जनानां परं मङ्गलं वर्धितम् । राष्ट्रिया चेतना या मुदा भाविता, अर्जितं सद्यशश्चैव पुण्यं परम् ॥' (सुरभारती०, पृ. १८) 'आजीवनं कृतो यत्नः संस्कृतोद्धारहेतवे । येन निःस्वार्थभावेन तं कवीन्द्रमहं भजे ॥' (तत्रैव, पृ. १४) 'निरीहं निरहङ्कारं निर्मदं मानदं बुधम् । संस्कृतनन्दनोद्यानपारिजातं नमाम्यहम् ॥' (तत्रैव, पृ. १५)
2010_04
Page #87
--------------------------------------------------------------------------
________________
+
3
सादरं स्वीकृतानि Cte १. कनीनिका - ५३ गलज्जलिकानां सङ्ग्रह: (हिन्दीभाषानुवादसहितः)
हविर्धानी - ५४ नूत्नसंस्कृतगलज्जलिकाः (हिन्दीभाषानुवादसहिताः) अभिनवपञ्चतन्त्रम् - पञ्चतन्त्रकथापद्धतिमनुकुर्वतीनां १५ नीतिकथानां सङ्कलनम् (हिन्दीभाषानुवादसहितम्) प्रशान्तराघवम् - रामचरिताश्रयि सप्ताङ्कनाटकम् (अद्यतनप्राकृतभाषाप्रयोगादिवैशिष्ट्ययुतम्) कान्तारकथा - वन्यपशुपक्षिणामुपाख्यानम् (सहिन्दीभाषानुवादम्) पुनर्नवा - ११ संस्कृतकथानिका सङ्कलनम् षण्णामपि रचयिता - त्रिवेणीकविः मिश्रोऽभिराजराजेन्द्रः
प्रकाशकः वैजयन्तप्रकाशनम् - इलाहाबादम् ७. संवेगरतिः - प्रशस्ताप्रशस्तमनोयोगनिरूपकं प्रञ्चप्रस्तावविभक्तं संस्कृत
काव्यम् (हिन्दीभाषानुवादोपेतम्) रचयिता - मुनिश्रीप्रशमरतिविजयः प्रकाशक:- काशी-हिन्दू-विश्वविद्यालयः, वाराणसी वज्रस्वामिचरितम् (अन्वय-समासविग्रहसहितम्) रचयिता - कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यः सम्पादिका - रम्यरेणुः प्रकाशक:- विजयभद्रचेरिटेबलट्रस्ट-भीलडी (बनासकांठा) आभाणकजगन्नाथः १३२२ आभाणकानां (सुभाषितानां 'कहावत' [Idioms] इति भाषायाम्) नूतनतया विरचितानां सङ्ग्रहः । संस्कृतेन व्यवहारं चिकीर्षुणां साहित्यं रिरचयिषूणां च कृतेऽतीवोपयुक्तोऽयं सङ्ग्रहः ।
JDARO
।
७४
2010_04
Page #88
--------------------------------------------------------------------------
________________
2010_04
201 U
१०. संस्कृतवाङ्मये विश्वकोशा :
संस्कृतसाहित्ये उपलभ्यमानानां विविधानां विश्वकोशानां (Encyclo
pedias) सङ्क्षिप्तपरिचयः । उभयोरपि ग्रन्थयोः जगन्नाथमहोदयः ।
प्रकाशकः श्रीराघवेन्द्रस्वामिनां मठः मन्त्रालय:, (कर्नूल, जिला) आन्ध्रप्रदेशः ५१८३४५
११. सौम्यवदनाकाव्यम् (सस्वोपज्ञवृत्तिकम्) एकाक्षर-द्व्यक्षरवृत्तैर्विरचिता चतुर्विंशतिजिनस्तुतयः ।
रचयिता मैसूरुनगरनिवासी विद्वान् एस्. -
१२. जिनराजस्तोत्रम् (सस्वोपज्ञवृत्तिकम्) (एकाक्षरवृत्तैर्विरचितम् ।)
द्वयोरपि रचयिता मुनिश्रीराजसुन्दरविजयः । प्रकाशक: श्री श्रुतज्ञानसंस्कारपीठः, अमदावादः ||
नूतनप्रकाशनम्
मूल्यम्
योगदृष्टिसमुच्चयः (सटीक:) (ताडपत्राधारेण संशोधिता वाचना )
सम्पादकः
विजयशीलचन्द्रसूरिः
प्राप्तिस्थानम् श्रे विजयनेदूिरीश्वरजी स्वंध्यंय मंदिर
१२, सबं, ऐंठ अंणंदजी कल्यंपंजीनी पेढी दमैप, पंलडी, अम्दंवंद - 380007
दूरभ्ष : 079-26622465
रु.७०
७५
For Private Personal Use Only
Page #89
--------------------------------------------------------------------------
________________
मर्म गभीरम्
मुनिकल्याणकीर्तिविजयः
/
(१) महात्मनो माहात्म्यम् एको यौवनमत्तो युवक आसीत् । एकदा स सद्गुरोरुटजं प्राप्तः । प्रथमं तु स गुरोरुपहासं कुर्वाणोऽट्टहासं कृतवान् । तदनन्तरं च स पादोपरि पादं संस्थाप्योद्धततया गुरुसमक्षमेवोपविष्टः । तन्मनस्यायीद् यद्- ‘एवं दुर्व्यवहारकरणेनैष कुपितो भविष्यति, मां चोपालम्भयिष्यति । ततोऽहमपि तेन सह कलहं करिष्यामि । एवं च मे दिनं सफलीभविष्यति' ।
किन्तु गुरुहि सर्वथा प्रतिक्रियारहित एव स्थितवान् । तन्मुखाकृतिरपि नितरां प्रशान्ता प्रसन्ना चाऽऽसीत् ।
अतो धैर्यच्युतो युवकः सहसा कथितवान् - 'महात्मन् ! अहं भवते कीदृशः प्रतिभामि?'
गुरुणोक्तं - 'मित्र ! वयं सर्वेऽपि ह्येकस्या एव टङ्कशालाया मुद्राः स्मः, सर्वथा सदृशाः ! त्वयि मयि च न कोऽपि भेदः । एवं सति "कीदृशः प्रतिभामि"इति प्रश्न एव कथमुत्तिष्ठते ?'
युवकेन पृष्टं - 'किन्तु मया भवते नमस्कारोऽपि न कृतः, किमहं भवते उद्धतो न प्रतिभातः?'
गुरुणा गदितं- 'नमस्कारः कर्तव्यो-न कर्तव्यो वेत्यत्र सर्वस्याऽपि स्वातन्त्र्यं वर्तते । तथा यदि भवता मे नमस्कारो न कृत इत्यतो भवान् उद्धतः स्यात् तदा मयाऽपि भवते नमस्कारो न कृत इत्यतोऽहमपि उद्धतो भवेयम् ! नैव नैव, ममेदृशं न किञ्चिदपि प्रतिभाति' ।
युवकेन पुनरपि पृष्टं - ‘पादोपरि पादं संस्थाप्याऽहं भवत्पुरत उपविष्टः । किमत्र मेऽशिष्टताऽविनयश्च भवता नोहितौ ?'
गुरुणोक्तं - 'सर्वोऽपि जनः स्वीयानुकूल्यानुसारं यथेच्छमुपवेष्टुमर्हति । एवं सति काऽत्राऽशिष्टता ? को वाऽविनय: ? अहं त्वीदृशेषु क्षुद्रप्रश्नेषु न कदाऽपि मुह्यामि' ।
வவவவவவவவவவ
2010_04
Page #90
--------------------------------------------------------------------------
________________
2010_04
एतच्छ्रुत्वा समाधानं प्राप्तौ युवकश्चिन्तितवान् - 'सर्वेऽपि मामुद्धतमविनीतं च मन्यन्ते, एष तु सद्गुरुर्मां स्वतुल्यं शिष्टं च मन्यते । नूनमयमेव सत्यो महात्मा । अस्य जीवने वाण्यां च कोऽप्यद्भुतः प्रभावः ।
सगुरोश्चरणयोः पतितस्तच्छिष्यीभूय च स्वयमपि महात्माऽभवत् ।
(मूललेखक: ( हिन्द्यां ) सन्तअमिताभ :)
(२) संवेदनशीलता
पुरा किल राजगृहे नगरे पुण्यो नामैकः श्रेष्ठी वसति स्म। स आसीत् कोट्यधिपतिः । बहु विभवं नृपतुल्या च समृद्धिरासीत् तस्य किन्तु महावीरस्वामिन उपदेशं श्रुत्वा प्रतिबुद्धः स निजं सर्वमपि धनं वितीर्य सर्वमपि परिग्रहं च त्यक्त्वोटजमेकं निर्माय तत्र स्वपत्न्या सह वसति स्म । जीविकार्थं स प्रत्यहं किञ्चित् कार्पासमानीय द्वयोर्जनयोर्भोजनस्य कृते यावत् धनं पर्याप्तं भवेत् तावत् प्रातुं वयति स्म । तावति च धने प्राप्ते वयनकार्यं स्थगयित्वा स समत्वसाधनारूपं सामायिकं करोति स्म । प्राप्तेन च धनेन तस्य गृहे द्वयोर्जनयोः कृते भोजनं प्रगुणीभवति स्म । तच्चैकस्मिन् दिने स कञ्चिदतिथिमामन्त्र्य तेन सह भुनक्ति स्म, तस्य पत्नी चोपोषिता भवति स्म । अपरस्मिश्च दिने सा काञ्चित् साधर्मिकस्त्रियमामन्त्र्य तया सह भोजनं करोति स्म, पुण्यश्चोपवासं करोति स्म । तत्पत्न्यपि च धर्मसाधननिरताऽऽसीत् । अतस्तयोरयं क्रमो नित्यं निर्विघ्नं च प्रचलति स्म ।
TI
एवमेव धर्मस्य समत्वस्य च दृढेनाऽनवरतेन चाऽभ्यासेन तन्मनो नितरां निर्मलं पवित्रं समतालीनं च जातमासीत् । यदा कदाचिदपि सामायिकं कुर्वाणस्तदारम्भ एव द्वित्रक्षणैरेवाऽऽत्मलीनो भवति स्म सः । वर्षाणि यावत् तस्येयं साधना निरन्तरायं प्रवृत्ता दृढतरा च जाता ।
किन्तु..... हन्तैकदा स सामायिकं कर्तुमुपविष्टः, मनश्चाऽऽत्मलीनं कर्तुं यावत् प्रयतते तावत् तन्मन: सर्वथा लीनं न भवत्येव स्म । बहु प्रयतितं तेन, किन्तु नैव.... तल्लीनमेव न भवति स्म । सोऽचिन्तयत्- 'ननु किमिदं खलु ? एवं तु न कदाचिदपि भवति । तद्य किमर्थं मे मन आत्मलीनं समत्वपूर्ण च न भवति ? किं जातं खलु ?" एवं चिन्तयता सहसा तन्मनसि स्फुरितं यन्नूनमद्य मद्गृहे किञ्चिददत्तं किञ्चिदनीतियुतं वा वस्तु समागतमस्ति, यत्कारणेन मम मनो लयं नैव प्राप्नोति । झटित्येव तेन स्वपत्नी समाहूता, पृष्टं च- 'भो ! अद्य गृहे किमप्यदत्तं
७७
Page #91
--------------------------------------------------------------------------
________________
11 किञ्चिदनैतिकं वा वस्तु समागतमस्ति वा ? निभालयतु तावत् । यतो मे ।। in मनोऽद्याऽऽत्मलीनं नैव भवति' ।
पत्न्योक्तं - 'किमिदं वदति भवान् ? अस्मद्गृहेऽपि ननु कदाचिददत्तमनैतिकं वा वस्तु समागच्छेद् वा !'
पुण्येनोक्तं - 'तत् तु सत्यमेव । तथाऽपि भवती सम्यग् निभालयतु । नाऽन्यथा मच्चित्तसमाधिर्भविता' ।
अथ च सा गृहस्य यत् स्वल्पाल्पं वस्तुजातमासीत् तत् सर्वमपि सम्यक्तया निरीक्षितुं लग्ना । अतीव सूक्ष्मतया निरीक्षणानन्तरं तया ज्ञातं यत् प्रातिवेश्मिकस्य
गृहादिन्धनमेकं बहिस्तादिन्धनग्रहणावसरे समागतमस्ति, तच्चाऽद्यभोजन* निष्पादनेऽप्युपयुक्तमस्ति । एतत् तया गत्वा पत्ये निवेदितम् ।
श्रेष्ठिनोक्तं - 'नूनं ज्ञातं मच्चित्तासमाधिकारणम्' सम्प्रत्येव गत्वा द्वित्राण्यस्मदिन्धनानि तस्मै प्रतिवेश्मिकाय भवती ददातु । तत एवाऽहमात्मलीनो भविष्यामि'।
तयाऽपि सक्षमायाचनं तत् कृतम् । ततः पुण्यः श्रेष्ठी सामायिकसाधनायामुपविष्टः । तत्क्षणमेव तन्मन: समत्वलीनं जातम् ।
कीदशी कियती च संवेदनशीलता !!
வவவ வவவ இULL OURNAL OL
(३) पर्युषितमन्नम् एकस्य धनिकश्रेष्ठिनो गृहे सुन्दरी गुणशालिनी च पुत्रवधूरासीत् ।
एकदा स श्रेष्ठी गृहमागत्य भोजनार्थमुपविष्टः । पुत्रवध्वा तस्य भोजनं परिवेषितम् । तावतैव कश्चन भिक्षुकस्तत्राऽऽगतः श्रेष्ठिनं याचितुमारब्धः । किन्तु श्रेष्ठिना तदश्रुत्वैव भोजनमारब्धम् । याचकेन बहु विज्ञप्तम् । परं सर्वमपि निष्फलम्। (o
एतद् दृष्ट्वा पुत्रवध्वा बहिरागत्य भिक्षुकस्य साञ्जलि कथितं- 'महात्मन् ! कृपयाऽत्र समयं मा व्ययतु । मम श्वशुरस्तु पर्युषितमन्नं भुङ्क्ते । तदन्नं भवद्योग्यं 12 नाऽस्ति । मन्ये प्रतिवेशिनो गृहाद् भवान् प्रत्यग्रं भोजनं प्राप्नुयात् । कृपया क्षमा ।
कृत्वा तत्र गच्छतु । 1 स्नुषोक्तं श्रुत्वाऽतीव कुपितः श्रेष्ठी तां तर्जितवान् – 'त्वमधुनैवेतो निर्गच्छ।
गृहे तव किमपि स्थानं नास्ति' । तयोक्तं - 'पितः ! भवानेव मम पित्रोः
७८
2010_04
Page #92
--------------------------------------------------------------------------
________________
पार्वे भवत्पुत्रकृते मे हस्तं याचितुमागत आसीत् । अतो भवान् मे पितरमाकार्य तस्मै मां प्रत्यर्पयतु । पश्चाद् विदुषः पृच्छतु यद् भवन्निर्णय उचितो वाऽनुचितो वेति'।
श्रेष्ठी तदुक्तं कृतवान् । विद्वद्भिरपि स्नुषा पृष्टा - 'भवतीदृशमुक्तवती खलु?' तयोक्तम् – 'आम्, मया कथितं तत् । परन्तु नाऽस्ति तत्र किञ्चिदयुक्तमिति मन्येऽहम्' । विद्वांसः पृष्टवन्तः - 'कथमिव ?' सोक्तवती - 'पर्युषितमन्नं भुङ्क्ते - इत्यस्याऽर्थोऽयं यत् स स्वीयपूर्वकर्मणां फलमिह भुनक्ति । सहैव स भिक्षुकमुपेक्षितवान्' अतो मया चिन्तितं यत् - स भविष्यदर्थं न किञ्चित् सत्कर्माऽऽसेवते । ततश्च मया सक्षमाप्रार्थनं स प्रतिवेशिगृहं प्रेषितः । विद्वांसो भवन्तः सर्वेऽपि शास्त्रज्ञाः । भवन्त एव निर्णयन्तु-किं मयाऽत्राऽयुक्तं कृतम् ?'
एतच्छ्रुत्वाऽऽनन्दिताः सर्वेऽपि विद्वांसस्तां नमस्कृत्य धनिकश्रेष्ठिनं बोधितवन्तो यद् – 'भोः श्रेष्ठिन् ! भवत ईदृशी गुणवती पुत्रवधूः प्राप्ता-इत्येतदर्थं भगवत आभारं मन्यस्व' ।
(मूललेखकः राजु दवे [मरमगहरा इति पुस्तके])
வவவவவ வட வட வட வட வட வட வட வட
यदा कश्चिच्छृणोति स्म, तदाऽहं क्षोभमनुभवामि स्म; यदा च वक्तुमुद्यतो जातः, तदाऽवसर एव न लब्धः; यदा चाऽवोचम्, तदा कोऽपि श्रोतैव नाऽऽसीत; इदानीमहमेव वक्ताऽहमेव श्रोता !! (मूलकूतिः - फिलिप क्लार्क)
७९
2010_04
Page #93
--------------------------------------------------------------------------
________________
कथा
पापिनी !
मुनिरत्नकीर्तिविजयः (गूर्जरभाषायां ले० - झवेरचंद मेघाणी)
"साधुवादः पुत्रि ! साधुवादः" - यच्छ्रवणायोत्सुकः श्याम आरात्रि जानुमध्ये मुखं संस्थाप्य मध्ये मध्ये च गृहद्वारमुद्घटितं न वेति जिज्ञासयाऽन्धकार १ ॐ एव गृहं प्रति पश्यन्, गृहमध्ये च किं प्रवर्तत इत्यन्तर्गतसञ्चरणेनैव ज्ञातुकामः कर्णौ ॐ
उत्तेजिताविव कृत्वा दत्तावधानो भग्न एव फलक उपविष्ट आसीत् तदेतद् सुखदं
वाक्यं प्रातः सार्धचतुर्वादने श्रोत्रपथमुपयातम् । * पञ्चवादने च द्वारं निःशब्दमुद्घटितं जातम् । हस्ते स्यूतं गृहीत्वा ES % वृद्धश्चिकित्सकमहोदयो बहिरागतः । श्यामः सहसोत्थाय धावन्निव तत्समक्षमुॐ पस्थितवान् । स्वकीयं भाग्यं श्रोतुमिव स समुत्सुक आसीत् । वेगेनाऽऽगतस्य
श्यामस्य स्कन्धोपरि स्निग्धमपि दृढं हस्तं संस्थाप्य वृद्धश्चिकित्सको नसरवान्महोदयः - यं च ग्रामजनाः सर्वेऽपि 'पितामह'सम्बोधनेनैव सम्बोधयन्त आसन् - गम्भीररवेणोक्तवान् – “वत्स ! श्याम ! शृणोतु तावत्, तव पत्नी त्वतिश्रान्ताऽस्ति । इदानीमेव बहुप्रयत्नेन सा निद्रिताऽस्ति । अतस्त्वरां मा दर्शयतु नाम परिचारिकाऽन्तरेव स्थिताऽस्ति । सा हि यदा त्वामाहवयेत् तदैव त्वयाऽन्तः
प्रवेष्टव्यम् । अन्यथा वृद्ध एष तथा शिक्षां करिष्यति यच्चिरं त्वं स्मरिष्यसि । ज्ञातं ४ किल?"
श्यामस्य मस्तके सस्नेहं हस्तं प्रसार्य चिकित्सकमहोदयः सपादपञ्चवादने ततो गतवान् । कारयानस्य चालकमपि सूचितवान् यद् - 'ध्वनियन्त्रं नैव वादितव्यम्। कृ निःशब्दमेव यानं बहिर्नयतु ।' यानं च यावद् गृहाद् दूरं न गतं तावत् तद्द्वारमपि न
पिहितं चिकित्सकमहोदयेन । तेन हि चिञ्चावृक्षोपरि स्थितेषु पक्षिषु नैकोऽपि जागृतः ९ स्यात् । शान्तमेव सर्वेऽपि स्थिताः । ॐ पितामह इदानीमपि समक्षमेव स्थित इव श्यामो विनयमुद्रयैव भग्नफलके *
जान्वोर्मध्ये मुखं संस्थाप्योपविष्टः । आबहुवर्षेभ्यः स रेलयाने विद्युद्दीपकार्यं l
2010_04
Page #94
--------------------------------------------------------------------------
________________
* सञ्चालयन्ननन्तरदिने आरात्रि जागृतः प्रवासं कुर्वन्नासीदेव किन्तु यथाऽद्य स* 9 गगनस्थितान् तारकाननिमेषं दृष्टवान् न तथा कदाऽपि सावधानं दृष्टवानासीत् । पत्नीः सुखं स्वपितीति श्रवणानन्तरमेव सोऽनुभूतवानासीद् यत् प्रत्यूषकालीनः पवनः शीतलोऽस्ति । वस्त्रमपि प्रस्वेदक्लिन्नं शरीरेण श्लिष्टमित्यपि तेन तदैव ज्ञातं दृष्टं च । श्रान्ता सविता शान्तं निद्रातीत्यनेन स स्वस्थतामन्वभवत् ।
किन्तु तथाऽपि स सर्वं नाऽवबुद्धवानासीत् । बहुशो यथा बालका 3 लघुवयस्येव सर्वं विशेषेणाऽवबुद्ध्यन्ते तथा कदाचिद् वयस्का युवानोऽपि तावज्जडबुद्धयो भवन्ति यत्ते सांसारिकव्यवहारमपि सम्यग् ज्ञातुं न प्रभवन्ति ।
श्यामोऽपि तादृश एव कश्चिदबुधो ब्राह्मणपुत्र आसीत् । अपि च ब्राह्मणपुत्रत्वमपि 9 तस्य को नाम मन्येत ? जात्या प्रेत इवैव स आसीत् । नक्तन्दिनं केवलं स श्रमं
कर्तुमेव जानाति स्म । एकलमतिः स विद्यालयेऽपि व्यावहारिक शिक्षणं नैव
प्राप्तवान्।
"श्याम ! पुत्रं प्रसूतवती तव भार्या । ज्ञातपूर्वमेवैतत् किल पितामहसकाशात् !" गृहाद् बहिरागत्य सूतिका यदा तमुक्तवती तदा हि श्यामस्य नेत्रे निद्राभारेणाऽवनते इवाऽऽस्ताम् । 'स्वप्नः किं मया कश्चिद् दृष्टः ? स्वप्ने वा किञ्चित् श्रुतं मया ?' - इति विकल्पयन् यदा पञ्चषनिमेषान् यावदनिमेष स । सूतिकां दृष्टवान् तदैव स निश्चेतुं प्राभवद् यन्नैष स्वप्नोऽपि तु सत्यम् ।
सविता मां पुत्रमुपहृतवती किल? जीवज्जनं सा मेऽपितवती ! - संसारस्य सामान्येऽप्यस्मिन् वृत्ते जडबुद्धिः श्यामस्तु महत्तपःफलं देववरं वाऽनुभूतवान् । सवितां हि स परमेश्वरीसदृशीमिव भावितवान् ।
सूतिका कथितवती - "अन्तरागच्छतु नाम । पुत्रं द्रष्टुमुत्सुकः खलु । भवान् ?'
"सविता विनिद्रा जाता किल? मामाह्वातुं किं सा सूचितवत्यस्ति ?" पितामहस्य शिक्षावचनं स्मृत्वा स पृष्टवान् ।
"आम्, आगच्छतु ।"
श्यामोऽन्तः प्रविष्टः । कस्मिंश्चिद् देवालय इव मन्दं पदानि निदधन् स सवितायाः खट्वां प्राप्तवान् । सस्नेहं तस्या हस्तं स्वहस्तेन ग्रहीतुं तदिच्छा बलवती 4 जाता किन्तु स्पर्श-निषेधस्य मर्यादां संस्मृत्य स स्वेच्छां संयमितवान् ।
2010_04
Page #95
--------------------------------------------------------------------------
________________
ला
__ अबुधस्य श्यामस्य चित्ते ह्याश्चर्यमनुपशान्तमेव प्रवर्तमानमासीद् यद् - 2 8 'जीवज्जनस्योपहारमेषा सविता कुत आनीतवती ? कुत्र चैतद् गुप्तं धनं सङ्गोपितवत्यासीदेषा ? अहो ! कीदृशः सुरूपोऽयं बालः ?'
सविता किमपि नोक्तवती । स्वामिन एतादृशं हृदयभावं दृष्ट्वा तर अक्षिणी बाष्पार्दै जाते ।
अन्तरागच्छन् श्यामः प्रथमं यदा द्वारि पदे धत्तवान् तदा सविताया मुखं ॐ निस्तेजमिव भयविहवलमिव जातमासीत् । एष स्वामीयद वात्सल्यं दर्शयिष्यतीति १ प्रतीतिरेव तस्या नाऽऽसीदेव । कमप्यकल्पितं निर्णयं श्रोतुं सज्जा काचिदपराधिनीव सा तदाऽऽसीत् । किन्तु श्यामस्य नेत्रयोः सविता माधुर्यसरोवरमुच्छलद् दृष्टवती ।
परिवारे कोऽपि वृद्धजनो नाऽऽसीत् । सवितायाः पिता तु काशीयात्रार्थं % गत आसीत् । माता च दिवं गताऽऽसीत् । श्यामस्त्वाबाल्यादेवैकाक्यासीत् । इदानीं स स्वनियोगात् पञ्चदशदिनानामवकाशं लब्धवानासीत् । तस्य सत्य
आप्तजनस्त्वेक एव वृद्धो नसरवान्-महोदय आसीत् । स 'पारसी'चिकित्सको हि * समस्तस्य ग्रामस्याऽऽधारभूत आसीत् । स एव ह्येकां सूतिकां श्यामस्य गृहे * नियुक्तवानासीत् ।
मासो व्यतीतः । किन्तु श्याम इदानीमपि गृहे कश्चिच्चमत्कारः सञ्जात EO इवाऽनुभवन्नासीत् । सविता हि परमेश्वरस्य निकटवर्तिनीव तस्य भाति स्म । सर्वा हO
अपि जन्मदात्र्यो मातरः परमेश्वरस्य प्रत्यक्षपरिचये वर्तन्ते - इति स कल्पितवान् । किन्तु पुरुषस्तु तादृश एक एव तस्य मनस्यासीत् - नसरवान्-महोदयः ।।
किन्तु किमर्थमेते ग्रामजना मां दृष्ट्वा हसन्ति ? - श्यामस्य मनसि समस्या समुद्भूता । मार्गेण तस्य गमनागमनकालेऽपि काश्चित् स्त्रियः कर्णे मुखं दत्त्वेव मन्दं वार्तयन्ति स्म - ‘एष तस्या वरः ! विवाहानन्तरं सपादोनसप्तभिः मासैरेव.....!' वाक्यस्याऽवशिष्टो भागस्तूपहासे विलीनाति स्म । रेलयाने उद्योगाय गतस्याऽपि तस्य सर्वेऽपि तत्रत्या अधिकारिणः कर्मचारिणश्च मुखं विवर्त्य पृच्छन्ति स्म - "भोः ! श्याम ! कुशलोऽस्ति किल तव बालः? कीदृशः स दृश्यते
कस्य सादृश्यं तस्य मुखे वर्तते, तव वा तन्मातुर्वा ?" * "कथं तदिदानीं ज्ञातुं शक्यम् ?" - श्याम ईषद्हसन्मुखेन प्रत्युत्तरयति * स्म । किन्तु प्रश्नानन्तरं कस्य तत्र सादृश्यं वर्तत इति ज्ञातुं तस्याऽपि मन उत्कण्ठितं
2010_04
Page #96
--------------------------------------------------------------------------
________________
* भवति स्मैव । अन्ततः स स्वयमेव निश्चिनोति स्म यत् 'पुत्रस्य रूपरागादौ सविताया है एव सादृश्यं भवतु नाम । अलं मम रूपरागादिना' इति ।
रेलयाने कार्यं कुर्वतोऽपि तस्य चित्तं यदा कदाऽऽन्दोलितं भवति स्म'अद्य पर्यन्तं तु नाऽऽसीन्मम काऽपि कुत्राऽपि वा गणना । इदानीं किमर्थं समेऽपि * मय्यवधानं ददति ? क्षुद्रजन्तुतुल्ये मम जीवने कुत एतेषां समेषामपि रसः ॐ समुत्पन्नः? किमर्थमेते मामऽङ्गलिना निर्दिशन्ति ? स्नेहवन्त इव च किमर्थं मम ॐ ॐ पत्न्याः पुत्रस्य च कुशलं पृच्छन्ति ?' इति ।
शनैः शनैश्च मूढः श्यामो रहस्यं ज्ञातवान्- एते मामुपहसन्ति । विवाहानन्तरं * सप्तमिरेव मासैः सविता पुत्र प्रसूतवतीति वृत्तेन महान् लोकापवादः समुत्थितोऽस्ति।
नाऽहमस्य जातकस्य वास्तवः पिता किन्त्वन्य एव कश्चित्..... ।
तदनु च घटितं सर्वमपीतिवृत्तं शृङ्खलाबद्धमिव क्रमशस्तस्य मानसपटे उपस्थितं जातम् – 'यदा यदाऽहं ग्रामान्तरादागच्छामि स्म तदा तदा यत्किमपि ४ वस्तु सवितायाः कृते आनीय तस्यै ददामि स्म । यद्यपि तस्या पिता मम स्वागतं
करोति स्मैव किन्तु सवितया सह मम विवाहस्य विचारोऽप्यसम्भव आसीत् । क्व स कुलीनो ब्राह्मणः क्व चाऽहं कुलहीनः, अव्यवस्थितश्च ? नाम्नैव केवलमहं यज्ञोपवीतधारक आसम् । एवं सति सवितामहं भाविपत्नीत्वेन भावयन्नेव सर्वमुपहारादिकमानयामीति यदि तत्पिता शङ्कितोऽपि स्यात् तर्हि कठोरं च मां शिक्षेदित्येतादृशः स आसीत् । किन्त्वन्यदा तादृशं किमपि कल्पनातीतं घटितमेव । सहसैव तत्पिता सवितायाः स्वीकाराय मां सूचितवान् – “श्यामशर्मन् ! आभूषण
वस्त्रादीनां न काऽपि चिन्ता भवता करणीया"-इत्यभयवचनमपि स मेऽदात् । १ तिथि-मुहूर्तादिकं किमप्यदृष्ट्वाऽपृष्ट्वैव स आवयोविवाह सम्पादितवान् । सवितां
मम शून्ये विजने च गृहे सायमेव प्रेषितवान् । स्वयं च कश्चिदुद्भूतविराग इव यात्रार्थं प्रस्थितवान् । प्रयाणसमयेऽपि न स्वकीयां पुत्रीं प्रति न च मां प्रति वात्सल्यलेशमपि स प्रदर्शितवान् । कस्याश्चिद् व्यन्तर्याः पाशाद् मुमुक्षुरिव स नंष्टवानेव । किमर्थं सर्वमेतदेवं प्रवृत्तम् ?' - तत्समस्यायाः समाधानं श्याम इदानीं प्राप्तवान् । सविताया उदरे पापमासीत् । तस्याः पिता 'ज्वलद् गृहं कृष्णार्पणम्' इव सर्पदानं कृतवानासीन्न कन्यादानम् ।
अन्यदपि तस्य स्मृतौ स्फुरितम् - विवाहात् पूर्वमपि सविता मुखं सङ्गोप्यैव
2010_04
Page #97
--------------------------------------------------------------------------
________________
गृह एव तिष्ठति स्म । विवाहे निश्चिते सत्यपि तस्या अक्ष्णोरानन्दो नाऽऽसीत् । अगम्यया कयाचिद् मनोवेदनया पीडितेव साऽऽसीत् । विवाहकालेऽपि सा शून्यमनस्कैवाऽऽसीत् । पाणिग्रहणसमयेऽपि नाऽनुभूतो मयोष्मलेशोऽपि तस्या हस्ते। शवस्य कस्यचिद् हस्त इव तस्या हस्तस्तदाऽऽसीत् । यदा च गृहमागतवती तदा 'शयनापवरकं प्रविशन्त्यास्तस्या मनोवृत्तिः पलायितुमिवैवाऽनुभूयते स्म । प्रथमं हि यदा श्यामस्तां बाहुभ्यां - आजीवनं त्वामेवमेव हृदयेन संयुज्यैव पालयिष्यामीति भावेन - आश्लिष्टवान्, तदाऽपि विद्धाया कस्याश्चिद् हरिण्या इव तस्या हृदयमपि भयेन वेपमानमासीत् । अन्धकारेऽपि तदा सा किमप्यालम्बनं मृगयन्ती परिलक्षिताऽऽसीत् । सन्त्रासोऽयं तदुदरे स्थितस्य पापस्यैवाऽऽसीत् खलु ?
-
विवाहानन्तरं च सप्त मासाः .. ! दाम्पत्यसुखस्य स समयोऽखण्डं प्रवहन्ती सरिदिव प्रवहन्नासीत् । यदा यदा हि श्यामः प्रवासाद् गृहमागच्छति स्म तदा तदा यत्किमपि नवीनं दृश्यते स्मैव गृहे भोजनेऽपि विभिन्नं खाद्यादिकं दृष्ट्वा कदाचित् स पृच्छति स्माऽपि “किमेतत् सविते ! दरिद्रस्य गृहमिदं किमुच्छेत्तुमिच्छसि !? किल ?" इति ।
I
2010_04
-
“अरे नैवम् ! एतत्तु प्रातिवेशिकात् प्राप्तम्, एतदेवं सज्जीकृत 'मित्यादि यथा-कथमपि समादधाति स्म सा तदा। किन्तु तदनु विलम्बेन सा स्पष्टीकरोति स्म यद् - " भोजनानन्तरमवशिष्टेभ्योऽपूपेभ्य एतत् सज्जीकृतमस्ति नाऽन्यत् किमपि " इति ।
ग्रीष्मतौ च वारं वारं भोजने शिखरिणीं ( शीखण्ड इति भाषायां ) परिवेषयति स्म । सहासं च कथयति स्म 'आपणात् क्रीत्वाऽऽनीतमेतत्" । पुनर्मुखभावं च दृष्ट्वा विलम्बेन स्पष्टयति स्म "रात्रौ दुग्धमहं न पिबामि । तस्य च दधि कृत्वा ततो निष्पादितमेतत् । नाऽत्र कोऽपि दुव्र्व्ययः कृतोऽस्तीति सुखं खादतु नाम !"
-
कदाचित् खट्वा - फलकादश्च श्वेतरागेण वर्णितान् दृष्ट्वा यदा स आश्चर्यमभिव्यनक्ति स्म तदाऽपि सा तं सान्त्वयति स्म "स्वल्पेनैव व्ययेन ) रागस्तैलं चाऽऽनीय मबैव वर्णितमेतत् सर्वम्" इति। "एवं किल ? त्वया स्वयमेव वर्णितम् ?" इत्याश्चर्यमुग्धो भवति स्म श्यामः । अपरं च श्यामस्य जीर्णवस्त्रेभ्योऽपि सा स्वकौशलेनैव हस्तप्रोञ्जनकानि द्वारवातायनादियोग्याश्च जवनिका अपि निर्मितवत्यासीत् । एवं च शनैः शनैः श्यामस्य शून्यं गृहं साऽलङ्कृतवती ।
८४
-
Page #98
--------------------------------------------------------------------------
________________
एवं च सप्ताऽपि मासाः सप्त दिवसा इव व्यतीताः । श्यामः स्मृतवान् एवं सत्यपि मासात् सवितायाः पुरातनी पीडा पुनर्जागृताऽऽसीत् । इतः पलायितुमिवोद्युक्ता सेति तन्मतिः परिलक्ष्यते स्म । विना कारणं सा रुदत्यासीत् । मम गृहस्य चैतावत्यास्तस्याश्चिन्ताया: किं कारणमासीत् ? हम्.... एतस्य सुखचिन्तारूपस्य पुष्पप्रकरस्याऽधः स पापसर्प उपविष्ट आसीत् खलु ?
2010_04
विचारैरेतैः श्यामस्य हृदयं विषाक्तमिव सञ्जातम् । लोकवचनानां दुर्गन्धं सोढुं स न प्रभवति स्म । क्षणं तु वदतो जनान् गले पीडयित्वा मारयेयमिति विचारस्तस्य समुद्भवति स्म क्वचिच्च सविताया उपरि कोपावेशः समुच्छलति स्म तस्य चित्ते, क्षणं पुनः स स्वजीवनं समापयितुमपि विचारयति स्म - एवं दोलायमाना तस्य मतिः सञ्जाता ।
'पलायनं कुर्याम् .... इतः कुत्रचिद् दूरं पलायनीयं मया, सप्तमासीयोऽयं ) संसारः सर्वथा निर्मूलयितव्यो विस्मर्तव्यश्च मनसः' समुद्गत: । 'अथ किं करवाणि ?'
एवमपि विचारस्तस्य
-
सपादमासेन सविताऽद्य स्नाता । सा च कुत्रचिद् बहिर्गताऽऽसीत् । स्वस्याऽप्यवकाशदिनमद्याऽऽसीत् । कोऽपि निर्णयोऽद्य करणीय एव । श्यामस्य चित्ते किञ्चित् स्फुरितम् - पितामहतुल्यस्य नसरवान् महोदयस्योत्सङ्गे हृदयभावमभिव्यक्तुमुचितम् । स एव मार्गं दर्शयिष्यति । एवं सत्यपि यदि मनः समाहितं न स्यात् तर्हि जीवितमेव संक्षेप्स्यामि । लोकापवादमथ नाऽहं सोढुमलम् ।
चिकित्सालयस्य परिसरभूमिं यदा श्यामः प्राप्तवान् तदाऽन्धकारः प्रसृत आसीत् । लघुः ‘दरिद्रनारायण' चिकित्सालयस्तदा शान्त आसीत् । तीर्थतुल्य: स चिकित्सालयो नवजातशिशूनां रुदनस्वरैः स्जीवन्निवाऽऽभाति स्म । तत्रत्यं वातावरणमेव तादृशमासीद् येन दुरात्मनामपि नमस्यितुं मतिः स्यात् । परिसरे चिकित्सालयस्य समीप एव वृद्धस्य चिकित्सकमहोदयस्य लघुगृहमासीत् । तत्समक्षं च पुष्पितानां वृक्षाणां घनो निकुञ्ज आसीत् ।
श्यामस्य पदानि स्थगितानि । निकुञ्जाभ्यन्तरे पितामहोऽन्येन केनचित् सम्भाषमाण आसीत् । ध्वनिं परिचितमिव सोऽनुभूतवान् शब्दानपि स सम्यक् परिगृहीतवान् ।
सा हि सवितैवाऽऽसीत् । उत्सङ्गे बालकं स्तनपानं कारयती भूमावेव
८५
For Private Personal Use Only
Page #99
--------------------------------------------------------------------------
________________
सोपविष्टाऽऽसीत् । पितामहस्तु किञ्चिद दूरं फलक उपविष्ट आसीत् । वार्ता का प्रवर्तमानाऽऽसीत् । तत्र सवितायाः कथनं श्यामस्य कर्णसाज्जातम् – “किं करवाणि
पितामह !? तद्दिनेऽहं पापमार्गे पदं धत्तवती । अस्माकं प्रातिवेशिकः कश्चित् क्षत्रिय आसीत् । तस्य गृहे विवाहोत्सव आसीत् । अगम्येनाऽऽकर्षणेनाऽहमपि सर्वैः सह गानार्थं तत्र गता । तत्र गमनमेव मम क्षतिरासीदिति पश्चाद् मया ज्ञातम् । तत्र हि तस्याऽधिकारिणः पुत्रेण करणेन बलादुपभुक्ताऽहम् !"
श्यामः प्रतिरोम शूलारोपणवेदनामनुभूतवान् ।
"तदनु च पितामह ! अहं पुनः पुनरीश्वरं प्राथितवत्यपि यद् मम प्राणानपहरतु * नाम । आत्मघातस्य निश्चयः कृत एव मया तदा । अन्धकारं प्रतीक्षमाणाऽहं समयं
यापयन्त्यासम् । तदैव स समागतः । पिता च मम तत्समक्षं विवाहप्रस्तावं कृतवान् ।
जगदीश्वरेणैव ममाऽऽर्त्तनादः श्रुत इति मयाऽनुभूतं तदा।" 8 "वत्से !' - पितामह उक्तवान् - "एवं जानत्याऽपि त्वया श्यामस्य - ४ जीवितं कलुषितं कृतम् ?"
सवितायाः सगद्गदाक्रन्दनं स्पष्टं श्रूयमाणमासीत् ।
"सत्यं पितामह ! सत्यमेवैतत् । किन्तु पापमिदं मां यावत् परिदेवयति * ततोऽप्येषा प्रवञ्चना मामतितमां पीडयति - किमर्थं मयैतस्य मुग्धस्य जीवितं .
दूषितं कृतम् ?" सविता बहु रुदितवती – “पितामह ! यद्यावयोः संसारः साधारणः ।
स्यात् तद्येतत् प्रतारणमपि नैव पीडयेत् किन्तु स मां पूजयतीव, ईश्वराद् द्वितीयां ॐ गणयित्वा यां भजतीव । तादृशं च तमहम्...!"
"पुत्रि ! तदुपरि च तव कीदृशं प्रेम प्रवर्तते ?"
"किमत्र कथयानि पितामह !" सविता पुत्रस्य शिरसि हस्तं संस्थाप्योक्तवती "तस्य कलङ्कमेनं क्षालयितुमेवाऽहमादिनमात्मघातं परिचिन्तयामि । क्वथितधान्यमिव मम जीवितमस्ति । नाऽस्त्यथ मम कस्माच्चिद् भयमपि । किन्तु तेन सह तथा प्रीतिमात्मैक्यं चाऽनुभवामि यद् जल-मीनयोरेव गतिर्मतिश्चाऽऽवयोरपि। तस्यैतादृशं स्नेहं शिरसि कृत्वा स यदप्यादेक्ष्यति तथाऽहं करिष्यामि । तदवचनेन च मरणवरणमपि निःशङ्कं करिष्यामि ।"
तिरोहितः श्यामोऽधिकं श्रोतुं न प्राभवत् । ततो निर्गन्तुं स उत्थितः । 8 पितामहस्याऽन्तिमं वचनं तस्य कर्णे पतितम् - "वत्से ! एतावत् प्रेम हि यावत् १
धारवगलिपा कि
2010_04
Page #100
--------------------------------------------------------------------------
________________
तावदपि पापं नाशयितुं प्रभवत्येव । पापस्याऽस्तित्वमेवाऽथ नाऽस्ति । अन्यच्च, बालोऽयं हि नाऽन्यस्य कस्यचिदपि किन्त्वीश्वरस्यैव सोऽस्ति । क एनं पापमिति वक्ष्यति ? एतादृशः प्रेमपावकस्तु पापं समूलं दहति । त्वं गच्छ । गृहं च गत्वा घटितं सर्वमपि तत्समक्षमङ्गीकरोतु । तस्य स्नेहो यदि यथार्थः स्यात् तमुलं लोकेन लोकवार्तया वा । एवं सत्यपि यदि स समाहितो न स्यात् तहि सबालं त्वयाऽत्र निःसङ्कोचमागन्तव्यम् ।"
श्यामस्ततो निर्गतः । अन्धकार एव तटाकसमीपवर्तिना मार्गेण स गतः । पितामहस्याऽन्तिमं वचनं तस्य कर्णयोर्गञ्जति स्मेव - 'यथार्थस्य स्नेहस्य पावके
पापानि समूलं विनश्यन्ति । नाऽस्ति बालः कस्यचिदन्यस्य किन्तु भगवत एव स O भवति । यथार्थो यदि स्नेहोऽलं लोकेन' इति ।
रात्रिभोजनवेलायां स गृहं प्राप्तवान् । नित्यमिव स सविताया मस्तकं । हस्तयोर्गृहीतवान् । मम स्पर्शेनैष कलङ्कितो भविष्यतीति मत्या सा शनैर्दूरमपसृतवती । स्ववृत्तं चाऽऽरब्धवती
"अहमद्य पितामहसमक्षं गतवत्यासम् ।" "अहं जानामि ।" "कुतः?" "अहं तत्राऽऽसम्"। "भवता सर्वं श्रुतं किल?" सविता भयविह्वला जाता ।
"नैव, न सर्वं श्रोतव्यमासीत् । केवलं - यथार्थस्य स्नेहस्य पावके पापं 8 समूलं विनश्यति । बालक ईश्वरस्यैव भवति, अलं च लोकेन । - इत्येतावदेव हृदये उदृङ्कितं मया ।"
दोलने सुप्तं पुत्रं प्रति स स्वकीयं स्नेहं वर्षितवान् । तदनु च यदा स सवितामाश्लिष्टवान् तदा प्रथममेव स्वं निष्पापामिव पुष्पवल्लघुतरामिव चाऽनुभवन्ती सविता तमालिङ्गितवती।
2010_04
Page #101
--------------------------------------------------------------------------
________________
कथा
2010_04
त्यागधर्म:
मुनिधर्मकीर्तिविजयः
अस्त्येषा घटनैतिहासिकी । सम्राडकब्बरस्य पुत्रः सलीमो मेवाडराज्यमाक्राम्यत् । अथैकदा सलीमेन सेनापतिरादिष्टः 'गच्छ, अश्वानामाहारार्थः हरितचणकानानय' ।
‘यथाऽऽज्ञा' इत्युक्त्वा दलेनैकेन सह स गतवान् । मार्गे दुर्गम आसीत् । सर्वेऽपि बहुकालमटितवन्तः । मध्याह्नवेला सञ्जाता । तथाऽपि कुत्रचिदपि हरितानि क्षेत्राणि न दृष्टानि । आसतां मानवाः, चटकमात्रमपि न दृष्टिपथमायाति स्म तत्र हरितचणकानां तु का वार्ता ?
सेनापतिर्निराशो बभूव । तदैव कुटीरमेकं दृष्ट्वा तस्य मुखे प्रसन्नता प्रसृता । तत्र गत्वा स द्वारं प्रहृतवान् । कृच्छ्रितदेहः कश्चिद् वृद्धो बहिरागतवान् ।
सेनानायक उवाच - 'रे वृद्ध ! अश्वानामाहारार्थं हरितचणकानिच्छाम्यहम् । ततोऽस्माभिः सहाऽऽगत्य कुतश्चणकाः प्राप्तव्या इति दर्शयतु भवान्' । एतच्छ्रुत्वैव वृद्धश्चिन्तातुरो जात: । हृदये प्रकटीभूतया वेदनया तस्य मुखमपि ताम्रवर्णं जातम् । तदनु मनस्येव निर्णीय 'चलन्तु' इत्युक्तवान् वृद्धः । अग्रे गच्छता हरितचणकैः पूर्णं क्षेत्रमेकं दृष्टमधिकारिणा । ततस्तेनाऽधिकारिणाऽऽदिष्टम् – 'सर्वे विश्राम्यन्तु । एतत् क्षेत्रमेव योग्यमस्ति ततोऽस्मादेव हरितचणकान् गृह्णन्तु'- इति ।
-
वृद्ध उक्तवान् 'इतो न ग्रहीतव्याः कृपया । अग्रे चलन्तु इतोऽपि क्षेत्राण्युत्तमानि विद्यन्ते' ।
=P
सेनापतिराह - 'भो वृद्ध ! अस्मान् वञ्चयितुं मा प्रयताम् । यदीप्सितं तत् प्राप्तं तर्हि किमर्थमग्रे गन्तव्यम् ? वयं त्वत्रैव तिष्ठामः, त्वं गच्छ' ।
आत्मन: श्मश्व्रा उपरि हस्ततलं प्रसार्य वृद्धः कथितवान् ‘अद्यावधि न कोऽपि वञ्चितो मया । मम वचने श्रद्धां विधायाऽग्रे चलन्तु इतोऽप्युत्तमं क्षेत्रं दर्शयामि' - इति ।
८८
For Private Personal Use Only
Page #102
--------------------------------------------------------------------------
________________
yyyyyy
ayyyyyyywwve,
वृद्धस्य वचनमङ्गीकृत्य तमनुसरन्तः सर्वेऽपि पुनरग्रे प्रस्थिताः । अन्यद् . र हरितचणकान्वितं क्षेत्रं दर्शयित्वा ‘यावन्तश्चणका अपेक्षितास्तावतो गृह्णीयुः' र
इत्युक्तवान् वृद्धः । सर्वेऽपि सैनिका यथेच्छं चणकान् गृहीतवन्तः । क्षणेन विशालमपि Sie क्षेत्रं रिक्तं जातम् । गच्छन् सेनापतिस्तं वृद्धं पृष्टवान् – 'भो ! किञ्चित् प्रष्टुमुत्सुकोऽस्मि । S प्रथमं समीपस्थितं क्षेत्रमप्येतादृशमेवाऽऽसीत् तथाऽपि वयं त्वया निवारिताः ।
किन्त्वेतावद् दूरमानीयैतस्मात् क्षेत्रात् चणकान् ग्रहीतुमुक्तवान् भवान् । किमत्र रहस्यम् ? किं कश्चित् स्वार्थ आसीत् ?'
बाष्पार्द्रनयने निमील्य वृद्धो जगाद – 'सत्यम् । स्वार्थोऽस्त्येव । परं सन त्विहलोकस्याऽपि तु परलोकस्य, न च देहस्य किन्त्वात्मनः । सेनापते ! किं कोऽपि स्वार्थं विना कार्यं करोति खलु ? प्रथमं यत् क्षेत्रं दृष्टं तत् प्रातिवेशिकस्याऽऽसीत् । तर तत्र नाऽस्ति मे कोऽप्यधिकारः । एतत्पुनर्मम क्षेत्रमस्ति । अतो मयैतदेव दर्शितम् ।'
सेनानायकः साश्चर्यं गदितवान् – 'सत्यं खलु किमेतत् ?' वृद्धो जगाद - 2 'आम्, भवन्तः सर्वमपि निःशुल्कं गृह्णन्ति-इत्यहं जानाम्येव । ततः कथमहं प्रातिवेशिकस्य क्षेत्रं भवते दर्शयेयम् ? विपद्यपि प्रातिवेश्मिकधर्मो रक्षितो मया, तथा सर्वस्वे विनष्टे सत्यपि नीती रक्षिता मया-इति सन्तोषोऽस्ति' ।
प्रतिगच्छन् सेनापतिश्चिन्तितवान् – “यस्यां भूमौ निर्धनः कृषीवलोऽप्येतादृशं । त्यागधर्मं जानाति तां भूमि जेतुं किं वयं प्रभविष्यामः?" - इति ।
NNNNNNNNN
M ^^水水來
मा
) MAMMAMAAVAT
米米米米米米米米米米米米米茶米米米苏长长长长长长长长长长长长长长长 यदा जीवनं भवते रोदितुं निमित्तशतानि ददाति तदा दर्शयतु जीवनाय यद् भवान् हसितुं निमित्तसहस्राणि धारयति ॥ 光光我张张张张张张关法表张长长长长长长长张张张张张张张张张张张张
Ayyyyyy 來來來來水水水水 G
2010_04
Page #103
--------------------------------------------------------------------------
________________
। कथा
कथा
मध्यमं जलम्
- मुनिकल्याणकीर्तिविजयः सौराष्ट्रस्य लघुराज्यस्यैकस्य कथैषा । राज्यस्य ठक्कुरो यद्यपि बहुसमृद्धो (६) नाऽऽसीत तथाऽपि स्वप्रजाः प्रीत्या पालयति स्म । तस्यैको राजवैद्य आसीत् ।
राज्ये स प्रसिद्ध आसीत् । किन्तु तादृश आयो नाऽऽसीत् । ठक्कुरस्तस्मै प्रतिवर्ष : द्विशतं रूप्यकाणि ददाति स्म । तत्प्रति च तेन समग्रस्याऽपि राजकुटुम्बस्याऽऽवर्षं चिकित्सा करणीया । एतदतिरिच्य नगरजनानामपि चिकित्साकरणेन सार्धशतं वा रूप्यकाणां प्राप्नोति स्म स प्रतिवर्षम् । एतावताऽऽयेन यद्यपि तस्य कुटुम्बस्य निर्वाहः सम्यग् भवति स्म तथाऽपि गृहे कर्मकरादिनियुक्तिस्तु न शक्याऽऽसीत् । अतो वैद्यपत्न्या स्वयमेव गृहकार्यं करणीयं भवति स्म ।
साऽपि च तत्सर्वं सहर्षमेव करोति स्म । किन्तु प्रत्यहं कूपात् पञ्चषघटमितं 5 जलानयनं तस्यै कष्टकरं प्रतिभाति स्म । ग्रीष्मौ तु बहुशो दश-द्वादशघटमितमपि, जलमानेतव्यं भवति स्म । एतेन साऽतीव श्राम्यति स्म । किन्तु कर्मकरद्वारा जलानयनं ह्यल्पधनत्वाच्छक्यं नाऽऽसीदेव।।
अत एकदा वैद्यपन्या पत्यै कथितं – 'भवान् हि राजवैद्यः । तर्हि ठक्कुराया () निवेदयतु यत् तस्य जलहारकः प्रत्यहमेकां वा जलद्रोणीमस्मद्गृहेऽप्यानयेत् । एवं हर
कृते कूपाज्जलानयनस्य श्रमादहं मुक्ता भवेयम् ।' र 'ईदृशी तुच्छा वार्ता ठक्कुराय नैव निवेदनीया भोः !' वैद्यराजो 5
हसित्वाऽवदत् । 'जलार्थं मया तस्मै निवेदनं कृतम्- इति ज्ञात्वा त्वन्येऽपि निवेदयेयुः,
एवं सति स कं कं वा सन्तोषयेत् ? अतोऽलं तेन, अहं जलहारकस्यैव कथयिष्यामि । 15 एवमपि तस्य कुटुम्बस्य चिकित्सामहमेव करोमि ।'
अन्यस्मिन् दिने वैद्यराजेन मृदुतया जलहारकस्य कथितं – 'भोः ! प्रत्यहंा त्वया जलस्यैका द्रोणी मद्गृहमानेतव्या । यद्यपि तदर्थमहं ते शुल्कं किमपि नैव कि दास्ये तथाऽपि तत्प्रति त्वत्कुटुम्बिजनचिकित्सार्थं न किमपि धनं ग्रहीष्ये।'
र तदा जलहारकेणाऽपि तयैव मृदुतया गदितं – 'वैद्यराज ! एतत् कार्यं कर्तुं ! 43. नैव शक्यते मया । राजभवनस्य जलभरणेनैवाऽतीव श्रान्तो भवाम्यहम् । एवं
2010_04
Page #104
--------------------------------------------------------------------------
________________
स्थिते भवद्गृहे कथं वा जलमाहरेयम् ? तथा मम मत्कुटिम्बिनां वा चिकित्सा) र 3 भवान् निःशङ्कं धनं गृह्णातु, न काऽप्यापत्तिर्मम ।'
एतच्छ्रुत्वा राजवैद्यस्य बहु दुःखं जातम् । 'जलहारकसदृशस्तुच्छो जनो राजवैद्यस्याऽपि वचनं नैव पालयेत् ? भवतु, कालेऽहं तमपि दर्शयिष्ये (5 कञ्चिच्चमत्कारम्' इति राजवैद्यो मनसि सङ्कल्पं कृतवान् ।
ततः पक्षाभ्यन्तर एव कदाचित् ठक्कुरस्योदरशूलं जातम् । वैद्यराज आहूतः । र तेनाऽप्यागत्य ठक्कुरं परीक्ष्यौषधं दत्तम् । तद्ग्रहणेन च द्वित्रदिनेष्वेव स स्वस्थो जातः । किन्तु वैद्यराजेन तस्य सूचितं यत् – 'प्रभो ! रोगोऽयमतीव विचित्रोऽस्ति ।
यदा कदापि पुनर्भवितुमर्हति । अतो भवान् मासं वा यावत् "मध्यमजल''स्य * प्रयोगं करोतु । तेनैष रोग उन्मूलितो भविष्यति । प्रयोगोऽप्ययं सर्वथा सरलो 15 Ka व्ययरहितश्चाऽस्ति ।'
'अहमवश्यं करिष्ये प्रयोगमिमं, दर्शयतु भवान्' इति ठक्कुरेणोक्ते वैद्यराजेन ६ कथितं 'प्रायो विंशतिघटमितं जलं यत्र मायात् तादृशीमेकां मृण्मयीं द्रोणीं कारयतु । तां प्रत्यहं सायङ्काले जलेन पूरयतु । ततः प्रातस्तस्या अर्धं जलं निष्कास्य मध्यभागस्थं । चुलुकमितं जलं रिक्तकुक्षितयैव पिबतु, शिष्टं च जलं निष्कास्य द्रोणी रिक्तां कारयतु । एवं प्रत्यहं प्रातरपि द्रोणीं जलेन पूरयित्वा सायं तस्या मध्यभागस्थितं चुलुकमितं जलं पीत्वा शिष्टं निष्कासयतु । एतेन प्रयोगेण मासमध्य एव भवतो रोगो नि भविष्यति ।'
ठक्कुराय प्रयोग एष रुचितः । तेन कुम्भकारमादिश्य द्रोणी कारिता, (६) जलहारकोऽपि प्रत्यहं वारद्वयं तां जलपूर्णां कर्तुमादिष्टः । एतेन तस्य प्रतिदिनं चत्वारिंशद्घटमितं जलमधिकमानेतव्यमित्यापतितम् । प्रतिदिनं नियतजलोपरि हीयदधिकमपि जलं कृपात् समाकर्षणीयमितीदमतीव कष्टकरमासीत् ।।
प्रयोगस्त्वेकं दिनं - द्वे दिने - त्रीणि दिनानि - इत्येवमासप्ताहं प्रवृत्तः । र जलहारकस्य स्थितिर्दयनीया जाता । किञ्चैतदधिकं जलमानेतुं तस्याऽधिकं वेतनंबर प्राप्येत-इत्यपि नाऽऽसीत् । यतः सर्वैरपि राजकर्मकरैर्वार्षिकवेतनेनैव कार्य कर्तव्यमासीत् । अतो निर्विण्णेन जलहारकेण राजभवनस्य दासा 'इयदधिकं जलं किमर्थमानेतव्य'मिति पृष्टाः । तैरपि ‘राजवैद्यस्य सूचनया ठक्कुरस्योदरशूलनिवारणार्थं मध्यमजलस्य प्रयोगोऽयं प्रत्यहं क्रियतेऽत एतावज्जल
2010_04
Page #105
--------------------------------------------------------------------------
________________
मावश्यक'मिति कथिते जलहारकः सर्वमप्यवबुद्धवान् ।
स त्वरितमेव राजवैद्यगृहं गत्वा तत्पादयोः पतितो विज्ञप्तवांश्च – 'वैद्यराज ! कि भवत्कथनानुसारं प्रत्यहमेकद्रोणीमितं जलं भवद्गृहमानेष्ये, किन्तु कृपयाऽस्य 133 मध्यमजलस्य प्रयोगं शीघ्रमेव स्थगयतु, भवदुपकारं नैव विस्मरिष्ये ।'
वैद्यराजेनोक्तं - 'भो ! जलं तु त्वया श्वस्तः आनेतव्यमेव । किन्तु मध्यम जलं ह्येवमेव न स्थगयिष्यते । ठक्कुराय मया मासं यावत् प्रयोगकरणाय कथितमस्ति । ६) तथाऽपि पक्षे पूर्णेऽवश्यं स्थगयिष्यामि ।'
ततः सप्ताहानन्तरं राजवैद्येन ठक्कुराय विज्ञप्तं – 'प्रभो ! इतः परं भवतो मध्यमजलं ग्रहीतुमावश्यकता नाऽस्ति । भवतो रोगो निर्मूलित एव । अतः प्रयोगमिमं ( कृपया स्थगयतु ।'
)
来来来来来来来来来来来来关关法是张长长长长长长长长张张张张张张张张
निष्ठापूर्णपरिश्रमस्य जलबिन्दूनां च मिथः साम्यमेकम, जलबिन्दव एकैकश एकस्मिन्नेव स्थले सन्ततं पतन्ति चेत् कालपाषाणेऽपि च्छिद्रं सृज्यते, परं तेषामेव बिन्दूनां पूरस्तत्पाषाणस्योपर्याशु प्रवहति चेदपि पाषाणे तच्चिह्नमपि न जायते ।
xkkkkkkkkkkkkkkkkkeikikikikikikikikikikikikikik
2010_04
Page #106
--------------------------------------------------------------------------
________________
भगवदाशिषः
सा. धृतियशाश्रीः
देवालये गतोबालो भगवन्तं प्रीणयित्वाऽकथयत् - "भगवन् ! श्वो मम संस्कृतस्य परीक्षाऽस्ति विषयः कठिनोऽस्ति, प्रभूताः पाठाः सन्ति, अतो मह्यमाशीर्ददातु, येनाऽहमस्यां परीक्षायामुत्तीर्णो भवेयम् इति ।"
पुन: पुन: बालस्येमां प्रार्थनां श्रुत्वा प्रभुरवादीत् "तथाऽस्तु” । बालः प्रसन्नोऽभूत् । गृहं आगतः, मातरं च कथितवान्- हे मातः ! अहं श्वः परीक्षायामुत्तीर्णोः भविष्यामि ।
माता बहुशः तं प्रैरयत् तथाऽपि स पठितुं नोपाविशत्, हस्ते पुस्तकं न जग्राह, एवं संपूर्णो दिन: क्रीडायां व्यतीतः । उत्तीर्णं भवितुमाशिषमीश्वरो दत्तवान्, अत: का चिन्ता ?
अथ द्वितीयदिने स परीक्षां दातुं जगाम किन्तु, एकस्याऽपि प्रश्नस्योत्तरं दातुं नाऽशक्नोत्, उत्तरपत्रं न लिखित्वा स गृहमागच्छत् ।
तृतीयदिने परिणामो घोषितः, स बालोऽनुत्तीर्णो भूत् । बाल ईश्वरस्य समीपमागत्य, क्रोधेन प्रभुमाह - भगवन् ! भवति मम विश्वासो नष्टः । भवता मे उत्तीर्णं भवितुमाशिषो दत्ताः, तथाऽप्यहमनुत्तीर्णोऽभवम् । नूनं भवदाशिषो मूल्यं नास्ति ।
भगवता हसित्वोक्तं वत्स ! त्वया सम्यग् न विचारितम् । माऽऽशिषस्तु सत्या एव किन्तु त्वं विना परिश्रममेवोत्तीर्णो भवितुमैच्छ:, तत्तु नैव योग्यमासीत् ।
" मम आशिषस्तस्य एव फलन्ति, यः परिश्रमं करोति । "
2010_04
-
९३
For Private Personal Use Only
कथा
Page #107
--------------------------------------------------------------------------
________________
कथा
प्रतिपन्ननिर्वहणम्
सा. दीप्रयशाश्रीः
राजगृहीनगर्यां चत्वारि मित्राणि बभूवः । ते चत्वारोऽपि परस्परं गाढप्रीतियुता आसन् । एकदा नगर्यामाचार्यश्रीभद्रबाहुस्वामिन आगताः । सर्वे नगरजना देशनां श्रोतुमागताः । देशनां श्रुत्वा चत्वारि मित्राणि चारित्रं ग्रहीतुं सङ्कल्पमकुर्वन् ।
तानि गुरुभगवत आहुः - भवतां गिरं श्रुत्वा संसारो दावानल इव दृश्यते । ततश्चाऽस्मभ्यं दीक्षां दत्त्वाऽस्माकं कल्याणं कुरुत । गुरुभिस्तेषां विज्ञप्तिः स्वीकृता ते च प्रव्राजिताः ।
चारित्रं गृहीत्वा चत्वारोऽपि गुरुसेवां कुर्वन्ति स्म । तथैव श्रुताभ्यासं कृत्वा श्रुतपारगामिणश्चाऽभवन् । ततः सर्वे मुनयो गुर्वाज्ञया एकाकिविहारनाम्नी प्रतिमा स्वीचक्रुः यस्यामाहार-विहारादि तृतीयप्रहर एव करणीयं भवति । चतुर्थप्रहरे च यो यत्र स्यात् तत्रैव स्थित्वा सप्तप्रहरपर्यन्तं कायोत्सर्गध्यानं करणीयं भवति ।
ते साधव आचारमिमं निरतिचारतया पालयन्तो राजगृहीनगर्यां गताः । तदा शीतर्तुः प्रवर्तमान आसीत् । तद्दिने आहारं कृत्वा प्रथममुनिर्वैभारगिरिगुहायाः समीपं, द्वितीयमुनिगराद् बहि: पर्वतसमीपं, तृतीयमुनिनगरोद्यानस्य समीपं, चतुर्थमुनिश्च नगराद् बहिर्यावदागतास्तावत् चतुर्थप्रहरः प्रारब्धः । अतस्ते स्वस्थाने एव कायोत्सर्गध्यानेन तस्थुः ।
रात्र्यां शैत्यमवर्धत । तेन च शरीरावयवान्यकम्पन्त । तथाऽपि चतुर्थ्य एकोऽपि मुनिरन्यत् स्थानं गन्तुं विचारमपि न कृतवान् । ते समभावेन शैत्यं सोढवन्तः ।
अथ च शैत्यं सहमानास्ते चत्वारोऽपि मुनयो मनागपि दुश्चिन्तनमकृत्वैकैकशः प्राणान् तत्यजुः स्वर्गलोकं च प्राप्तवन्तः ।
2010_04
Page #108
--------------------------------------------------------------------------
________________
कथानिका
प्रायश्चित्तम् ।
प्रा. अभिराजराजेन्द्रमिश्रः ।
दीपमालिकापर्वणि सा गृहमानीता । तस्यां समागतायां गृहस्वामिन्या आशाविहगा मुक्तगगने पक्षतीः प्रसार्य स्वैरं विहर्तुमिवाऽऽरभन्त । तस्या नयनयोरपि सहस्रमिता दीपाः काशितुं प्रवृत्ताः । समृद्धिसङ्कल्पसम्पादयित्रीयमासीत्
प्रतिवेशप्रदत्तक्षतानां पूरयित्रीयमासीत् । तत एव समग्रोऽपि ग्रामस्तां द्रष्टं पुर PO) आसीत् ।
_ इयमासीन्महिषी बलदेवसिंहस्य । प्रायः पञ्चमासेभ्यो महिषीशङ्कः रिक्त ।
एवाऽऽसीत् । अदोग्ध्री पूर्वमहिषी अल्पेनैव मूल्येन विक्रीता । तत एवाऽऽरभ्य गृहे MAN दुग्धाभावा जातः । दुवामान व
दुग्धाभावो जातः । दुग्धाभावे दध्यभावो, दध्यभावे तक्राभावस्तकाभावे नवनीताभावोन नवनीताभावे च घृताभाव इत्यभावानां बृहती परम्परा काऽपि गृहस्थिति दीनदीना
दीनटीना- YON मकरोत् । कनिष्ठो दारकस्तु प्रकृत्यैव क्षीरपायी । मध्यमोऽपि दधिप्रणयी । ज्येष्ठस्तु घृतं विना कवलमपि नाऽश्नाति । बलदेवस्याऽपि गाढगाढं तक्रं विना न । तृप्तिः । दुग्धाभावे बलदेवपत्न्याश्चाऽपि गृहकार्यमेव सर्वं सङ्कुचितमिव जातम् । न दोहनं, न क्षीरस्याऽधिश्रयणं न वाऽवश्रयणं, न कवोष्णक्षीरस्य दधीकरणं, न दधिमथनं न चाऽप्युत्तीर्णहैयङ्गवीनस्य घृतीकरणम् ! घृतीभूतेऽपि नवनीते मन्थोच्छिष्टस्य वितरणार्थं प्रवरदारकयोर्मध्ये कियान् कलहो जायते स्म ? हन्त, सर्वमिदानीमवसितम् ।
तावदेव श्रुतं बलदेवेन यत्पार्श्ववर्तिनि विपणावेव केचन दविष्ठाः RSS पशुविक्रेतारस्समागताः । तेषां पशुसमवाये हरियाणाराज्यादानीता बहुक्षीरा महिष्योऽपि
वर्तन्ते । श्रुत्वैव तत् त्वरयितृ हृदयोन्माथि धैर्यहरं वृत्तं, सुवर्णमृगलुब्धा वैदेहीव, न हिण्यशान्ता जाता । पतिमजगरमिव निश्चेष्टमवलोक्य साऽवदत् - भोः किमेवं तूष्णीं स्थितोऽसि । नाऽसि त्वमेवैकः क्रेता महिष्याः । अन्येऽपि सन्ति बहवः ।
हरियाणामहिष्यः क्वोत्तरप्रदेशेऽस्मिन् दरिद्रे प्राप्यन्ते ? यदि क्रीताः स्युस्तास्तहि K) हस्तावेव पीडयन् तिष्ठेद् भवान् ।
ARMAPTAP
A
MK
RSeraerat
९५
2010_04
Page #109
--------------------------------------------------------------------------
________________
2010_04
जानासि हरियाणामहिषीणां मूल्यम् ? न ते ग्रामग्रामटिकानां विक्रेतारः । सर्वथाऽर्थपिशाचास्ते । अभीष्टं मूल्यं प्राप्यैव पशुं ददति । न माध्यस्थ्यं मन्यन्ते, न चाऽपि दाक्षिण्यं दर्शयन्ति । बलदेवोऽवदत् ।
तत्सर्वमाकर्ण्य भार्याऽऽतङ्कितेव सञ्जाता । परन्तु यत्नसंरक्षितं महिष्याकाङ्क्षाग्निकणं वार्तावातै: प्रोद्दीपयन्ती पुनरवादीत् - भोः कथं युद्धात्पूर्वमेव पराजितोऽसि जात: ? गच्छ तावत् । महिषीः पश्य । काऽपि तावदल्पमूल्येनाऽपि क्रेतुमर्हा स्यात् ।
बाढम् । इदमुचितं वदसि । गच्छामि । रघुमपि सहैव नयामि । परन्तु मत्पार्श्वे चतुस्सहस्रमात्रं वर्तते । यद्येतावता काऽपि मनोऽनुकूला महिष्यानेतुं शक्ष्यते तर्हि ध्रुवमानेष्यामि ।
भार्या प्रसन्ना जाता । बलदेवो ज्येष्ठपुत्रेण सह विपणि गतः । गृहिणी चाऽपि विविधान् मनोरथान् कुर्वती प्रतीक्षारताऽतिष्ठत् । होरानन्तरमेव पुत्रो धावन् समागतः । सोऽवदत् - अम्ब ! महिषी दृष्टा तातेन । परन्तु विक्रेता सार्धपञ्चसहस्रात् कथमप्यधो नाऽवतरति । षट्सहस्रमयाचताऽसौ । तातः कथयति यन्मातुलगृहात् 'सार्धसहस्रमादाय त्वरितं प्रेषयेति ।
दारकवचनं श्रुत्वा गृहिणी वासकक्षाभ्यन्तरं गता । पिटकात् सार्धसहस्ररूप्यकाण्यानीय त्वरितं दत्तवती, सप्रणयमवदच्च-वत्स ! सति स्वतातं ब्रूहि यन्मातुलगृहादानीय रूप्यकाणि दत्तवती जननीति । बाढमित्युक्त्वा रघुर्जङ्घाबलेन भूयोऽपि विपणिमधावत् ।
सन्ध्यातः पूर्वमेव महिषी बलदेवद्वारमागता । सर्वेऽपि प्रतिवेशिनो ग्रामवृद्धा अकारणसपत्नाश्च महिषीं द्रष्टुं पुञ्जीभूताः । निश्चप्रचं हरियाणाभिजना महिषीयं' शरीरसौष्ठवमहिम्ना दर्शनीयाकृतिरासीत् । वर्तुल: प्रोथ:, साकूतदर्शनं नयनयुगलं, मांसलं नितम्बद्वयं, पीवरमोधः । पशुयोनौ समुत्पन्नाऽपि महिष्यसौ वल्गुविब्बोककुट्टमितमोट्टायितादिनायिकालङ्कारं प्रकटयन्ती पश्यतां मनांसि प्रसह्य हृतवती ।
परन्त्वीर्ष्याकषायितचेतसां खलानां किमेतावता प्रयोजनम् ? जिह्वाकण्डूतिविकलास्ते आसन् । प्रश्नयक्षस्तेषां हृदि निषण्णो बहिरागन्तुं पर्याकुल आसीत् । हन्त, किन्नु कुर्युस्ते ? अमङ्गलप्रस्थानकर्णधारकुख्यातिवशान्न तेऽग्रेसरीभवितुं क्षमा
९६
For Private Personal Use Only
Page #110
--------------------------------------------------------------------------
________________
PO
आसन् । अत एव लङ्केश्वरकल्पास्ते कमपि सहायभूतं मारीचमेव प्रतीक्षमाणा आसन् । तावदेव घटितोऽसौ सर्वार्थसिद्धियोगः ।
- वत्स बलदेव ! महिषी तु दोग्ध्री प्रतीयते । कियता मूल्येन क्रीता ?
पयोमुखः कश्चिद् विषकुम्भकल्पो वृद्धोऽपृच्छत् । -- पितामह ! याचितं तु तेन षट्सहस्रमितम् । परन्तु यथाकथ
ञ्चित्प्रवीभूय सार्धपञ्चसहस्रेण दत्तवान् । सार्धपञ्चसहस्रेण ? हन्त, कीदृशं युगमायातम् । हस्तिनीमूल्येन । महिषी क्रीयते ! अथ, दुग्धं कियद् ददाति ? दशलीटरमितं प्रातः । तावदेव प्रदोषेऽपीत्यवददसौ । बलदेवो वदति स्म। एते जाल्माः प्रायेणाऽसत्यजालं वयन्ति । प्राप्तावसरो दाम्भिक सम्प्रति मुखदरीमुद्घाटितवान् । परन्तु यद्यष्टलीटरमितमपि ददाति र
क्षीरं तदाऽपि साधु मन्ये । - मासं यावदसौ अत्रैव वर्तते । महिषी च मत्पावें । क्षीरपरीक्षणं
स्वयमेवं सुकरं भविष्यति । बलदेवोऽभणत् । सम्यगाह भवान् । कश्चित् स्निग्धहृदयोऽवदत् । परन्तु भ्रातः हरियाणामहिषी महार्घा क्रीत्वा भवताऽस्मद्ग्रामस्य नाम ख्यापितम् । सोऽपि ज्ञास्यति यदस्मिन्नग्रहारेऽपि सुभगम्मन्या: PAN
केचन वसन्त्येव। - अथ महिषीं प्रसूताऽस्ति, महिषं वा ? कश्चित्पृच्छा
दरिद्रस्तावदेवाऽपृच्छत् ।
महिषीम् । - तदयमपदो महान् लाभः । स्निग्धहृदयो भूयोऽप्यवदत् खलानां
हृदयानि दग्धुकामः । बन्धो बलदेव ! कतिपर्यवर्षानन्तरमियं
महिषीवत्सतरी एव स्वमातुर्मुल्यं तुभ्यं निर्यातयिष्यति । शनैः शनैः सम्मर्दोऽपगतः । प्रदोषध्वान्तो गाढात्प्रगाढतरः सञ्जातः । बलदेवोऽपि महिष्यावासचिन्तायां मग्नः सक्रियो जातः ।
(HEAVGAVHAVHAVSAVGAVSAVGAVHAVGAVSAVGAVHAVGAVHAVGAVGAVGAVHAVGAVHEAVSAVG
2010_04
Page #111
--------------------------------------------------------------------------
________________
SOORVANA AAKASAXAXAYARIATSAKSATARAKHANAKPATIARRAYAGARNATAKAYNAXSAXSAX
___ बलीवर्दकुटीरं निकषैव कुटीरेऽन्यस्मिन् महिषीनिवासो विहितः । निम्बपल्लवचयं प्रज्वाल्य मशकसंहतिर्विद्राविता । ततश्च कस्मिंश्चिद् दिवसे स्नपयित्वा महिषी निर्मलीकृता । तस्याश्चिक्कणचर्मोपरि स्वयमेव बलदेवः सर्षपतैलाभ्यङ्गं कृतवान् । शृङ्गद्वयञ्चाऽपि तैलमिश्रितकज्जलेन समुपलिप्तम् । तस्या गले लौहघण्टिका काचिन्निबद्धा । महिषीप्रतिष्ठानुकूलैव काचिल्लौहशृङ्खला हट्टादानीय शणविहितप्रग्रहस्थानेऽधिकण्ठं निबद्धा । शृङ्खलायाः शिरोमुखे संलग्नमासीत् किञ्चिल्लौहवृत्तं यस्मिन् स्वमणिबन्धं विन्यस्य रघुर्महिषीं भक्ष्यद्रोणीतः कुटीरं, कुटीराच्च भक्ष्यद्रोणीमानयति स्म ।
पञ्चदशदिवसा व्यतीताः । क्षीरं महिष्या न्यूनं न जातम् । तदुदन्तोत्साहिताः AS केचन तक्रलोभिनः पुनरपि गतागतं प्रारब्धवन्तः । बलदेवभार्याऽपि महतौदार्येण .
सर्वान् पायितवती तक्रम् । गुडदानमात्रेण हन्तुं शक्ताः किमर्थं गरलं निपाय्य । दिवङ्गमयेयुः ? बलदेवगृहं भूयोऽपि समृद्धिमज्जातम् । पुनरपि बलदेवार्धाङ्गिनी । १ दुग्धव्यापारव्यापृता जाता । दशलीटरमितदुग्धदोहनमेव तावदासीत् कष्टसाध्यं कार्यम् । १ तत्कार्यमपि बलदेवभार्याधीनमेव । यतो हि बलदेव: कार्येऽस्मिन् सर्वथाऽक्षमा एवाऽऽसीत् । तद्भार्या पुनर्मातृगृहादेव कलायामस्यां परमशिक्षिता चतुरा चाऽऽसीत् ।
दुग्धमासीत् कार्यान्तरजनकम् । दुग्धादारभ्य घृतं यावदनेके दायित्वविवर्ता विलसरि PAY स्म यैनिगृहीता सती बलदेवपत्नीषदपि विश्रमक्षणं न प्राप्नोति स्म ।
सुखावहस्समयः शनैः शनैर्मृदुमन्थरगत्याऽग्रेसरन्नासीत् । शीतर्तुरपि । व्यतीतः । समागतो वसन्तः । वसन्तान्ते वातावरणमुष्णीभवितुमारब्धम् । अत एवल रघुस्सविशेषं महिषीपरिचर्यायां दत्तचित्तोऽभूत् । प्रत्यहमसौ पूर्वाण एव महिषी
पृष्ठमारुह्य निकटस्थां नदी यावद् गच्छति स्म । तत्र महिषी होरां यावन्नदीजले KES विहृत्य, शरीरतापञ्चाऽपनोद्य प्रकृतिस्था जायते स्म । ततश्च मध्याह्नात् प्रागेव ए PAY रघुस्तामादाय पदातिरेव गृहं प्रत्यावर्तते स्म ।
प्रकृत्यैव सलिलप्रणयिन्यो भवन्ति भहिष्यः । सलिलावगाहनेन क्षीरवृद्धिरपि जायत इति श्रूयते ।
परन्तु को नु जानाति नियतेविलसितम् ? किन्नु वृत्तं कस्य वृत्तान्तरस्य पृष्ठभूमिभूतमिति निश्चेतुं को नु शक्तः ? सकलसमृद्धिपर्यायभूताऽपि बलदेवमहिषी PO तद्विपत्तिं दुस्सहां स्रक्ष्यतीति स्वप्नेऽपि नाऽसौ वेद । V वैशाखविभावसुर्वर्षति स्म ज्वलदनलशीकरान् । वसुधाऽपि स्वशरीर
PARVARTARPARVARTARVARVARTARVARVAR
LAVGEEVGAVHAVGAVGAVHAVHEVGAVHAVGAVHAVGAV6
2010_04
Page #112
--------------------------------------------------------------------------
________________
DAT9AY979
ARTISTRATARIANTARATATATATATATARATARNATAKATARATPATANATAK
POSपिण्डकचयं पलाशकुसुमचयेन प्रकटयन्तीव परिलक्ष्यते स्म । कृषिक्षेत्राणि सम्प्रति PAN
शस्यशून्यान्यासन् । पिपीलिका आर्द्रतामनुसन्दधाना गभीरतरं रन्ध्र खनितुं यत्नवत्य आसन् । शृगालानां भूविवरेष्वजगराः प्रविष्टाः । निदाघदाहोद्विग्नाः सर्वेऽपि जी विपर्यस्तधियः संलक्ष्यन्ते स्म।
नित्यमिवाऽद्याऽपि रघुर्महिषीं स्नपयितुं नदीतटमुपगतः । महिषी तु सरिज्जलं दृष्ट्वैव सझम्पमवातरन्नद्याम् । रघुरपि ग्रामबालकैः सह जलक्रीडां कुर्वन् चिरं यावन्नदीस्नानसुखमवाप । ततश्च बहिरागत्याऽसौ महिष्या लौहप्रग्रहे स्वदक्षिणमणिबन्धं निवेश्य तां पुरस्सारयन् गृहं प्रातिष्ठत । यावदेवाऽसौ नदीतटवति रसालवनमतिक्रम्य कृषिक्षेत्रमागतस्तावदेव केचिदुच्छृङ्खला ग्रामकुक्कुरा: प्रोन्मत्तं कमप्यन्यं विद्रावयन्तोऽवलोकिताः । उद्वृत्तदन्तान् अहमहमिकाग्रस्तान् शुनस्तान् दृष्ट्वा भयभीता महिष्यप्यात्मसङ्कटं सम्भाव्य धावितुं प्रवृत्ता । एवमाचरन्त्यास्तस्य ३ शृङ्खलावृत्ते निविष्टो रघोमणिबन्धो दृढं कीलितो जातः । किञ्चित्कालं यावत्तु रघुर्महिष्या सार्धमधावत् परन्तु वृद्धिमुपगते सति तद्धावनेऽशक्तो रघुर्भूमौ निपपात, शृङ्खलाबद्धकाष्ठखण्ड इव कालरूपिण्या तया महिष्याऽऽकृष्यत । प्रोन्मत्तकुक्कुरोऽपि तां महिषीमेवाऽऽत्मविपत्कारणं मन्यमानस्तदुपस्थं क्षतविक्षतं कृतवान् । यथा यथ ऽऽत्मत्राणमन्विष्यन्ती महिषी विविधासु दिक्षु चङ्क्रमणं कृतवती तथा तथैव ।
भूगोद्घाततटबन्धादिप्रत्यवायानां नतोन्नतभागेषु भृशमाहतो बालको रघुः क्षतवि PAN जातः । समग्रमेव शरीरं तस्य रक्तरञ्जितं जातम् । अन्ततश्चाऽसौ प्रगाढमूर्छामापन्नः ।।
ग्रामप्रवेशानन्तरमेव महिषी स्थिरा जाता । प्रोन्मत्तकुक्कुरस्तु ग्रामकुक्कुरैः पञ्चत्वमुपपादितः । एवं सम्पाद्य तेऽपि शनैर्नदीतटमेव प्रत्युपगता मृतपशुमांस भक्षणार्थम् । विद्रावणमुक्ता महिषी सम्प्रति जिह्वां लोलयन्ती, धावनश्रमं लघूकुर्वती, बालकञ्च लौहदामनिबद्धं कर्षन्ती ग्रामवासिभिर्दृष्टा । केचन युवका बालकं कृष्यमाणं दृष्ट्वैव द्रुतमधावन् । ते रघुमणिबन्धं शृङ्खलावृत्तान्निस्सार्य तमानीतवन्तः ।
हाहाकारस्समजनि निखिलेऽपि ग्रामे । यावन्ति मुखानि, तावन्ति वचनानि SAN किमभूत् ? कथमभूत् ? केन महिषी विद्राविता? कथं नु रघुमणिबन्धः शृङ्खल
यं नु रघुमणिबन्धः शृङ्खलायां कीलितः ? महिषी क्षतविक्षता कथं जाता ? इत्यनेके प्रश्नाः सम्प्रति समुत्पन्नाः ।
श्रुत्वेदं वृत्तं बलदेवोऽपि सपत्नीको वात्यावेगादागतः । सूनुं क्षतविक्षताङ्गमचेतनञ्च दृष्ट्वाऽसौ कातरीभूय क्रन्दितुमारब्धवान् । समाश्वास्य तं सर्वेऽपि बालकमौषधालये नीतवन्तो यत्र तदुपचारो जातः । प्रायेण मासं यावद्रघुः शय्यामेव
GAVGAVGAVGAVGAVGAVGAVGEVGAV
9/Y9/AX9I/ATS/ALTS
2010_04
Page #113
--------------------------------------------------------------------------
________________
PO समाश्रयत् । सौभाग्यवशान्न तस्याऽङ्गं किमपि त्रुटितं, न चाऽपि विकृतं जातम् ।
केवलं बहिः क्षतान्यासन् । तान्यप्यौषधिप्रभावात्त्वरितमेव विरोपितानि । स्वास्थ्य
मुपलभ्य रघुः सर्वमपि वृत्तमाद्यन्तं वर्णितवान् । तत्सर्वमवगत्य बलदेवस्तु परितुष्टो र CR जातः । परन्तु रघुजननी महिषीमेव सकलविपत्कारणभूतां मन्यमानां तां नितरां
द्वेष्टमारभत । न सा तां सम्प्रति दोग्धि, न तस्या दुग्धं क्वाथयति, न दधि निर्माति, न तक्रं, न घृतम् । कश्चिदाभीर एव ग्रामवास्तव्यः सायं प्रातर्महिषीं दोग्धि स्म। एव समग्रमपि दुग्धं हटें नीत्वा विक्रीणाति स्म।
- किमिदमारब्धं त्वया ? दुग्धव्यापारार्थं न क्रीता मया महिषी ?MAN
कस्मिश्चिद् दिने बलदेवोऽपृच्छद् भार्याम् । - भो इमां रण्डां दृष्ट्वा हृदयं मे दहति । पुत्रघातिनीयं
भार्याऽकथयत् । - परन्तु न घातितोऽनया तव पुत्रः । उताहो रक्षित एव ! रघुः
स्वयमेव कथयति यन्महिष्या न कोऽपि दोषः । सा तु कुक्कुर-Kay समूहैरुपद्रावितैव पलायिताऽत्मरक्षायै । मयाऽपि स्वहस्त शृङ्खलावृत्ते निवेशित इति ममैव त्रुटिरासीत् । यदि हस्तो मुक्तोऽभविष्यत् तर्हि रघुः सर्वथा स्वतन्त्र एव स्यात् । पशुये समुत्पन्ना सा । अलं तां मानवदृष्ट्याऽवलोक्य । न साऽहमिव त्वमिव वा विवेकसम्पन्ना ! भवतु । आत्मानमनुकूलयितुं यतिष्ये । परन्त्विदानीम्पुनः रघोर्दुर्दशां । संस्मृत्य वेपते मे हृदयम् । अहो, पिशाचीयं किसलयकोमलं मद्दारकं काष्ठरण्डमिव क्षेत्रेषु कृष्टवती ? भगवत्या दुर्गयैव रक्षितो
मे दारकः। बलदेव: पत्न्या युक्तिं श्रुत्वा मौनमुपगतः । मातृहृदयमसौ परमार्थतोऽनुभूतवान् । अश्वत्थपत्रमिव भवति जननीहृदयम् । सन्देहवाते सञ्चरत्येव भृशं
मवेक्ष्य सम्प्रति बलदेव स्वयमेव महिष्याः संरक्षणे प्रयत्नपरो PON जातः । र गृहस्वामिनीं दृष्ट्वैव महिषी ओंय-ओंयेति मधुरस्वरैः पूर्वाभ्यस्तैय स्तामाह्वयति स्म । परन्तु बलदेवपत्नी क्रन्द रण्डे क्रन्देति ब्रुवाणाऽनवेक्षमाणैव तां ।
ARVARTARVARTARVASHAKAKK
E LVESMISSISEWS
१००
2010_04
Page #114
--------------------------------------------------------------------------
________________
GAVGAR PARGARVARTARVARVARTARVARVARTARA
ON गृहं प्रविशति स्म । किं कुर्यादसौ वराकी महिषी ? गृहस्वामिन्या लालनं पालनमसौ ?
न सम्यग्वेत्तीति न । कोमलमसृणस्तनस्पर्शानुभूतिं गृहस्वामिनीकर्तृकामपि साधु स्मरति सा । परन्तु स्वमनोवेदनां कथं प्रकटयेत् ? कथं विज्ञापयेद् यदुन्मत्तकुक्कुरैरुपद्राविताऽसौ रघु शृङ्खलानिगडितमविज्ञायैव आत्मरक्षार्थं पलायनं कृतवती ? वचो व्याहर्तुमक्षमा कथं वाऽसौ क्षमा याचेत ?
एवमेव पुरस्सरत्सु दिवसेषु समागताः वर्षाः । वैशाखज्येष्ठमासावपगतौ PAS बलदेवपत्न्या महिषीसन्दर्भमात्रं चिन्तयन्त्याः । पुत्रं यमद्वारं नीतवत्यास्तस्या विक्रयणं
कार्यमुताहोऽपराधस्तस्याः क्षन्तव्यः । प्रथमकल्पेन केवलमात्मपरितोष आसीत् । किन्तु कल्पान्तरेण दम्पत्योः । यावद् बलदेवपत्नी निर्णयं कमप्याश्रयेत् तत्पूर्वमे वज्रपातस्समजनि ।
वर्षर्तावकस्मादेवाऽऽलङ विषं महिषीमुन्मत्तां चकार । समुत्खात कुक्कुरीव करुणं बुक्कन्ती गृहाद् गृहं, कुटीरात्कुटीरं क्षेत्रात्क्षेत्रम् धावितुम
लं दृष्ट्वैव सोन्मत्ता जाता । यं कमपि मध्येमार्गं निपातयन्ती, उन्मत्तवदाचरन्त जिह्वां लोलयन्ती, सन्ध्याशोणिताक्षी महिषी समग्रमेव ग्रामं भीतभीतं कृतवती
गृहकपाटाः सर्वेऽपि सम्पुटिताः । लघुवयस्का बालका गृहाभ्यन्तरे निरुद्धाः SRO केवलं याष्टीकाः प्रवयस एव बहिरलिन्देऽलक्ष्यन्त ।
- होरामात्रस्य खेलाऽवशिष्टा सम्प्रति । कश्चिदुक्तवान् । । - किमुच्यते भवता? अपरोऽपृच्छत् । - सत्यं भणामि । आर्के विषे प्रसृते सति मरणं निश्चितम् ।
होरानन्तरमेव भूमौ निपत्य मरिष्यति महिषीयम् ! हे परमेश्वर ! बलदेवस्य तु सर्वनाशोऽयम् । षट्सहा क्रीतेयं महिषी। वर्षं यावदपि तत्सुखं नाऽवाप्तम् । अत्राऽप्यपराद्धो बलदेव एव । उन्मत्तकुक्कुरदष्टामपि महिषीं नाऽसौ औषधालयं नीतवान् । विषोपशमनं सर्वथा सम्भवति स्म । भोः हरीच्छेयम् ! परन्तु विलक्षणैवाऽऽसीन्महिषी बलदेवस्य । श्रुतं मया यद् बलदेवपत्नी केवलं घृतं विक्रीय दशसहस्राणि ON रूप्यकाण्यर्जितवती । महिषीमूल्यं तु प्राप्तमेव तया।
१०१
2010_04
Page #115
--------------------------------------------------------------------------
________________
GAVGANA
- कोऽत्र सन्देहः? - मद्भार्या मां ख्यापितवती यत्कस्याञ्चिद्रात्रौ महिषी नारीस्वरेण
बलदेवभार्यामवोचत् - स्वामिनि ! पुत्रघातिनी मां मत्वा यत्त्वं मां नितरामुपेक्षते, तत्स्वयमेवाऽहं भवत्या द्वारं त्यक्ष्यामि । सम्प्रति, मत्पुत्र्या एव क्षीरं पास्यसि त्वं, न पुनर्मम । स्वकीयं स्वप्नानुभवमिमं स्वयं बलदेवभार्यैव सजलनयना मामकथयत् । कश्चि तृतीयोऽवदत् । तावदेव बलदेवपत्न्याः करुणार्त्तनादो व्योमविवरम्भरो दृष्टं न वा? किंमयोक्तमासीत? इयदेव यद्धोरानन्तरमेव म
महिषीयम् । तदेव घटितम् । मृता महिषी । एहि, तत्रैव गच्छामः । कज्जलगिरिशिलेव महिषी भूमौ पतिताऽसीत् । जिह्वा बहिरागता अक्षिणी पूर्णोन्मीलिते । श्वेतकर्पटाच्छन्नमासीत् महिषीशरीरम् । बलदेवपत्नी स्वप्नवृत्तं
विलापस्वरैः ख्यापयन्ती महिषीपार्वे स्थिताऽऽसीत् । हृदयभञ्जयितृ तद् दृश्यम K सर्वेऽपि प्रतिवेशिनोऽश्रुविकला आसन् । सर्वेऽपि ग्रामवृद्धा बलदेवं तद्भाय PAY सान्त्वयन्तः स्थिता आसन् ।
बन्धो बलदेव ! धैर्य धारय । स्वकीयां पत्रीं तुभ्यं समर्प्य मता ते महिषी । देवताऽऽसीद् देवता सा । तव पुत्रमपि उन्मत्त-कुक्कुरैः सैव रक्षितवती । अन्यथाऽऽलङ विषमिदमेव रघोरपि कृते प्राणसङ्कटमजनयिष्यत् । कश्चित् सहृदयोऽवदत् । सत्यमाह भवान् । पुत्रविपत्कारणाद् बलदेवपत्नी न तां समाद्रियते स्म । वृत्तमिदं समग्रोऽपि ग्रामो जानाति । मन्ये, स्व-प्राणां
स्त्यक्त्वाऽसौ महिषी स्वदुष्कृतस्य प्रायश्चित्तमकरोत् । निखाता महिषी ससम्मानं बलदेवस्य कृषिक्षेत्रकोणे यत्राऽद्याऽपि बलदेवपत्नी प्रतिसन्ध्यं दीपं दर्शयति ।
VHAVIN
।
me
१०२
2010_04
Page #116
--------------------------------------------------------------------------
________________
आर्याम्बा
डा. नारायणदाशः
MARNE
“स प्रत्यागमिष्यति । जनन्याः शून्यं क्रोडं पूरयितुं स नूनं प्रत्यागमिष्यति । कालडीग्रामोपकण्ठे प्रवहन्त्याः पूर्णातटिन्याः तटे विहगवधूटीं स्तब्धीकृत्य प्रत्यागमिष्यति प्राणप्रियः पुत्रः । अद्वितीयः पुत्रोऽन्धस्य लगुड इव विश्वक्सेन इव वा।"
रोगशय्यायां शयाना जननी आर्याम्बा चिन्तयति इत्थम् । पुत्रस्य आशु प्रत्यागमनं विचिन्त्य तस्या जराजीणे रोगाकीणे मुखे उद्भासिता प्रसन्नता ।
स्मरणपथे आयाति वैशाखमासस्यैका राका रजनी । कपिलवस्तुराजप्रासादे हा सर्वे सुखेन प्रसुप्ताः । सुकुमारी गोपा पुष्पितकबरीभारं सुकोमलोपाधाने संस्थाप्य । निद्रिता । तस्या गभीररजन्या निस्तब्धप्रहरे शयनकक्षं परित्यज्य संन्यासिनो गैरिकवसनं परिधाय नगरस्य प्रसुप्ते राजपथे प्रस्थितो राजकुमारो गौतमः । पृष्ठभागे संस्थापिता महती अशान्तिः, साहारायाः हाहाकारः, तृप्तिहीना तृष्णा । यदा आर्याम्बा तस्या गोपाया विषयं चिन्तयति, तदा तदीयाः प्राणा: क्रन्दन्ति । शिथिले रक्तहीने गण्डयुगलेऽझरदश्रुधारा । शङ्करो विवाहं करिष्यति, सुवर्णप्रतिमा वधूर्गृहमागमिष्यति, तस्याः शुभनूपुरशिञ्जिनिः आर्याम्बाया रिक्तमनोगहरे मुखरिता भविष्यति । ततो नववसन्तस्य नवकिसलया इव नवातिथयः शिशव आगमिष्यन्ति । आर्याम्बाया जीवने वसन्तस्य समारोहो भविष्यति । किन्तु क्व गता सा कल्पना? स्वप्नाः स्वप्नेषु एव विध्वस्ताः ।
जीवनस्य मधुमये लग्ने पुत्रो गृहत्यागी संन्यासी जातः । जनन्याः सकला आशाः समस्ताः कामनाश्च वृथा अभवन् । गमनसमये स प्रत्यशृणोत् - "अहं गच्छामि मातः । परन्तु नूनं प्रत्यागमिष्यामि ।"
"कदा पुत्र !? त्वां विना किमहं जीवितुं शक्नोमि ?" - साश्रुनयना । जनन्याकुलचित्ततया पृष्टवती । “जीवनस्य परमं सत्यं मयाऽनुसन्धेयं वर्तते । Kala तत्प्राप्याऽवश्यं प्रत्यागमिष्यामि ।
"अयं ग्रामः, इदं गृहम्, अयं जनन्या उत्सङ्गः, इदं जीवनमित्यादिकं
TOPAGA
ATomale
१०३
2010_04
Page #117
--------------------------------------------------------------------------
________________
शाह
BAAT
S
शाकाठवावाशामकहान
लकSAR
ARTHA
किमपि सत्यं नास्ति किम् ?"
"नहि मातः ! इदं सत्यं नास्ति । एषा मिथ्या छलना च । इदं मायाया न्द्रजालम् । अहं गच्छामि चिरन्तनसत्यस्य सन्धानाय ।"
अयं तत्त्वोपदेशोऽशिक्षिताया जनन्या बोधगम्यो नाऽऽसीत् । सा एतावदेव जानाति यत् तामेकाकिनी परित्यज्य तस्या जीवनसर्वस्वभूतः पुत्रः संन्यासी जात इति । जीवनकुसुमं तस्या वृन्तच्युतं भविष्यति । तस्याः कल्पनाकाननस्य कल्याणी पिकवधूः मूका जाता । हृदयस्य रक्तं स्तन्यं कृत्वा सा वर्धितवती पुत्रस्य जीवनतरुम् ।। सा जननी । तस्याः पुत्रः शङ्करः । इतोऽप्यधिकं सत्यं किं वा भवेत् ? इतोऽपि मङ्गलकरं किं स्यात् ? चिन्तया म्रियमाणा जननी रोगशय्यायां शिशुरिव व्यलपत् । हाय ! अश्रुधारां मार्जयितुं तत्र नाऽऽसीत् पुत्रः, कल्याणी पुत्रवधूर्वा । न वा कोऽपि बन्धुजनः । प्रतिदिनमिव स्रोतस्विन्या धारा अझरत् निःसङ्गवालुका-शय्यायाम् । कुटीरस्य बहिरङ्गणे विरौति कपोतवधूः विधुरकण्ठेन।
तदा आचार्य शङ्कर आसीत् उत्तरापथस्य काश्मीरभूखण्डे । मण्डनमिश्र, भारतीदेवीं, बौद्धपण्डितान् च तर्केण पराजित्य स सनातनधर्मस्य विजयपताकामुड्डायितवान् । तस्य नामश्रवणेन हृत्कम्पो जायते बौद्धानाम् । समग्रा जनता तं स्वीकरोति भगवतः शङ्करस्य अवताररूपेण ।
प्रभाते एकस्मिन् कमनीये लग्ने पदचारणं करोति स कस्मिंश्चिदुद्याने । मन्दमलयानिलस्तस्य काषायवसनमुड्डाप्य मधुरं सङ्गीतं श्रावयति । विहगानां कूजित जागरयति नूतनजीवनमन्त्रस्य आद्यप्रणवम् । गगने पवने पत्रे फले च सम्पूरितः सात्त्विकतायाः सुमधुरस्पर्शः । ऋषिप्रतिमस्य प्राणतलेऽपि सात्त्विकभावानां चञ्चलवीचीवल्लरी मस्तकं ताडयति स्म।
निकटस्थानां वृक्षशाखानां प्रकम्पनेन सह पक्षिशावकानामुल्लसितचीत्कारेण चमत्कृतः शङ्करः । पक्षिणी स्वचञ्च्वा आहारखण्डं ददाति शावकस्य मुखे । तं स्वीकृत्य शावक आनन्देन चीत्करोति । पक्षिणी तु चञ्च्वा चञ्चं संस्पर्श्य स्वीयं सकलं स्नेहं ममतां च समर्पयति । वृक्षशाखानां निभृते नीडतले अभिनीतमिदं स्नेहसम्भाषणं गभीरतया समस्पृशत् शङ्करस्य प्राणान् । त्यागपूतं तस्य प्राणतलं ममतामय्या संवेदनया आर्द्र जातम् । निश्चले निरुद्विग्ने च मनसि तस्य चञ्चलमधुमयानां भावानामालोडनं जातम् ।
सलम
उद्यान
SAIResper
ANASE
A
/
१०
१०४
2010_04
Page #118
--------------------------------------------------------------------------
________________
कपाका
ATOR
Pानकथा
नाशिक
चाचा
479
SAAYANTRA
शङ्करस्य मनसि स्फुरिता स्नेहमयी आशीर्मयी च जननी । प्रव्रजनसमये तस्या विकलं रुदितमिदानीं यावत् स्मृतिपथे दुःखदां स्थितिं जनयति । तेन प्रतिश्रुतमासीद् नूनमेकदा प्रत्यागमनम् । जननी धरणीव सर्वंसहा । प्रसववेदनां सोवा नवजातकाय प्रदर्शयति तरुणारुणस्य सुमधुरमालोकम् । शारदीयतटिनीव सा स्वच्छनीरा । चन्द्रिकेव अमृतमयी । जगतः समक्षं सा आर्याम्बा । तस्य समीपे तु केवला अम्बा । स्वर्गच्युता काऽपि आशीर्मयी निर्झरिणी । सरोवरस्य काऽपि गन्धमयी कमलिनी । उत वीणायाः काऽपि छन्दोमयी रागिणी।।
अविरतभावेन चिन्तयति शङ्करः - "मया किं वा प्रदत्तं जनन्याः कृते ? हृदयशोणितं दत्त्वा या जीर्णा जाता, वृद्धावस्थायां किं तस्याः सेवा करणीया नाऽऽसीत् ? पर्णकुटीरतले मम रोगशीर्णा जननी शय्यालग्ना, पुत्रोऽहं तस्या देशान्तरमटन् प्रचारयामि सनातनधर्मम् । सत्यसन्धानात्परमपि अहं न प्रतिगत इदानीं यावत् । अपि मया पुत्रस्य कर्त्तव्यं सम्यक् निभालितम् ?'
स्थितप्रज्ञस्य गोपनतन्त्रीतले आघातो जातः । परन्तु संन्यासिनो मनस्तं बोधयति- तस्य भवप्रवणता नोचिता इति । स स्थितप्रज्ञः । गृहत्यागी। जितेन्द्रियः। ममत्वबन्धनं तस्य समीपे स्पृहणीयं नाऽस्ति । स्वमनोभावं दमयितुं स मृदुकण्ठेन वारं वारमुच्चारितवान् - "....का तव कान्ता, कस्ते पुत्रः, संसारोऽयमतीव विचित्रः।"
किन्तु पक्षिशावकस्य चीत्कारस्तम् उपहसति- "हे भ्रान्तसंन्यासिन् ! ब्रह्म सत्यम् । किन्तु जननी तु मिथ्या नाऽस्ति । मातृशक्तिः साऽपि सत्या । शक्तिं विना कस्याऽपि कार्यस्य न सम्भवः । शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुम्... । न वा ब्रह्मणः स्थितिः, न वा उपलब्धिः।" स्वीयज्ञाननेत्रं समुद्घाट्य चिन्तितवान् शङ्करः- ‘कियत् कठोरं सत्यम् । शक्तिस्वरूपिणी जननी । अत्र मिथ्या नाऽस्ति, प्रवञ्चना नाऽस्ति, न वा मायाया मोहस्य वा आवरणम् । कस्यचन सत्यस्य
सङ्केतः । ब्रह्म इव शक्तिरपि सत्या । तनुः प्राणैरिव, कुसुमं सुरभिणा इव, एकस्य महिम्ना अपरं महिमान्वितम् । ब्रह्म हि शक्तिः । शक्तिरेव ब्रह्म ।" कोमलवायुमण्डलस्य माधुर्यं तस्य भावुकतां समवर्धयत्
तव स्तन्यं मन्ये तुहिनगिरिकन्ये हृदयतः पयःपारावारः परिवहति सारस्वत इव । दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्
KOTAP
मा
A
44 A/कहान
/
१०
१०५
2010_04
Page #119
--------------------------------------------------------------------------
________________
कवीनां प्रौढानामजनि कमनीयः कवयिता ।।
हिमगिरिनन्दिन्याः पार्श्वे सोऽपश्यत् - जनन्याः सुधानिस्यन्दिनीं स्निग्धदृष्टिम् । सोऽनुभूतवान्-कोमलालिङ्गनस्य स्पर्शम् । स श्रुतवान् - वात्सल्यसम्भाषणम् । तस्याः वक्षोदेशात् झरति रक्तं जलीकृत्य वात्सल्यस्य अमृतमयी धारा . I
2010_04
पार्वती तथा आर्याम्बा । तयोः पार्थक्यं नाऽस्ति एव । आर्याम्बा एव जगज्जनन्याः प्रतिमूर्तिः । शङ्करोऽद्य प्रतिनिवर्तते । दीर्घकालं यावद् देशान्तरं परिभ्रम्याऽपि ज्ञानिनो मर्यादां सम्प्राप्यऽपि, संन्यासिनो गौरवं लब्ध्वाऽपि, ब्रह्मज्ञानिनो दीप्तशिखां दृष्ट्वाऽपि सोऽनुभवति - "अपरं किमपि अपूर्णं वर्तते'' इति ।
सफलजीवनयात्रायाः पूर्णविरामं दातुं स प्रत्यागच्छति स्वीयं वासभवनम् । ज्ञानस्य शुष्कसैकतवक्षसि स्नेहस्निग्धस्रोतस्विनीं प्रवाहयितुं स प्रत्यागच्छति जनन्याः कोमलक्रोडम् । वर्षं यावद् यदर्थं निर्जनतपस्या, कठोरसाधना च तद् वर्तते स्वीयजननीसमीपे । तस्य ज्ञानोदयो जातः । स्नेहमत्तः स धावति दक्षिणापथम् । दूर्वादलोपरि स्थितः शिशिरस्य भग्नांशस्तस्य मनसि सृजति दुःखिन्या जनन्या नयननीरस्य भ्रमम् । संसारत्यागी शङ्करोऽद्य गच्छति यत्सत्यं, यदमृतमयं तस्य 'सन्धानाय । पुत्र उत्कण्ठितचित्ततया धावति जनन्याः शून्यक्रोडं पूरयितुम् ।
जनन्या निस्तब्धे गृहाङ्गणे सहसा प्रस्फुटितानि स्थलकमलानां शतानि । भवने प्रज्वलितो दीपः । अशोकशाखायां कूजति मुग्धा विहगवधूटी । विस्मिता जननी अपृच्छत्"कः " ? " अहं प्रत्यागतोऽस्मि अम्ब !"
तस्य ध्वनिं श्रुत्वा निमीलितनयने उद्घाटितवती जननी । स ध्वनिस्तु तस्या: चिरपरिचित: । तस्या हृदये विकसितानि पुलकानां लक्षपारिजातकुसुमानि । ज्योतिर्हीनयोः नयनयोः स्फुरिता कोटितपनानां प्रभा । कम्पितशरीरेण पदधूलिं स्वीकृतवान् शङ्करः ।
“कः ...? पुत्रः शङ्करः ! त्वं प्रत्यागतः ? अधुना वा स्मृतिपथमागता ते जननी ?" नयनयोः धारा श्रावणं मोचितवती अभिमानिनी जननी ।
“ओम्, मात: ! अहमागतः । हतभाग्य: पुत्रस्ते बहुषु देशेषु परिभ्रम्याsa गृहं प्रत्यागतः । "
“गृहं त्यक्त्वा, मातरं त्यक्त्वा यस्य सन्धानाय त्वया निर्गतम्, अपि
१०६
For Private Personal Use Only
Page #120
--------------------------------------------------------------------------
________________
ALTRA
areSASUR
तल्लब्धम् ?"
"नहि मातः ! न प्राप्तम् । प्राप्तव्यमवशिष्यते । तदर्थं तु प्रत्यागतः प्राप्तिस्थानं ते स्नेहमयं क्रोडम् । झञ्झाग्रस्तः पक्षी अद्य प्रत्यागतः स्वीयं नीडम् । त्वं मम सर्वस्वं मातः ! समस्तधर्म-विधान-ज्ञानविज्ञान-शक्तीनां समन्वितालोकनिधानं त्वं मातः ! त्वं मम स्वर्गः । ममाऽपराधं क्षमस्व अम्ब!..... कुपुत्रो जायेत क्वचिदपिन कुमाता न भवति .. ..।"
शङ्करः भावप्रवणतयाऽपतत् जनन्याः क्रोडे । तस्या जीर्णवदनसीमायां स्फुरिता काचित् स्मितरेखा । यदा अनेन अपूर्वमिलनच्छन्दसा कक्षस्थः पवनः कम्पते स्म, तदा जीर्णा मलिना च दीपशिखेयं प्रफुल्लिता सती हसति स्म आलोकस्य गौरवेण।
Narendrapur, Kolkata
ANAGAR
कल
वारका
kkkkkkkkkkkkkkkkkkkkkkkkkkikikikikikikikiki
मनुष्यो विहगवद्गगने उड्डयनमशिक्षत, अशिक्षत च जले प्लवनं मीनवत, परं पृथिव्यां 'मनुष्यवद्' जीवनस्य शिक्षणमवशिष्टमेव !!
- डॉ. राधाकृष्णन्
xkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkk
A
पाव
/
१०
१०७
2010_04
Page #121
--------------------------------------------------------------------------
________________
यशोधरा
डॉ. आचार्य रामकिशोरमिश्रः
यशोधरा ज्ञातवती यत्तस्याः पतिः सिद्धार्थो गौतमबुद्धो भूत्वाऽद्य कपिलवस्तुमागतोऽस्ति । समस्तनगरवासिनस्तस्य स्वागताय गताः परं यशोधरा न गता । तस्याः पतिः कपिलवस्तु राजकुमार: सिद्धार्थस्तां शयितां परित्यज्य तपसे वनं गतः । यदि स तस्याः पार्श्वमायास्यति, तदैव सा तस्य दर्शनं करिष्यति । तस्या अयं विश्वासः सत्यः सिद्धच बभूव स तस्या राजकुमार: सिद्धार्थ आसीत्, न तु बुद्धः ।
यदा बुद्धो ददर्श यत्तस्य स्वागतकर्तृषु दर्शकेषु तस्य पत्नी यशोधरा तद्दर्शनाय प्रासादान्नाऽऽगता, तदा स प्रासादं गत्वा 'भिक्षां देहि' इति शब्दं चकार । तं शब्दं श्रुत्वा सा भिक्षुकाय भिक्षां दातुं द्वारमागता यदा तदा सा स्वसमक्षं द्वारे स्थितं स्वपतिं भिक्षुकमपश्यत् । तस्या नयनाभ्यामश्रुधारा प्रवाहिता । तया करबद्धया तस्मै नमस्कृतम् । तस्मै महामानवाय भिक्षायां किं दीयेतेति विचार्य तया सुवर्णरत्नादिभिक्षादानेन सह तस्मै बुद्धाय बौद्धं विधातुं स्वपुत्रो राहुल: समर्पितः ।
सिद्धार्थः कपिलवस्तुनो राज्ञः शुद्धोदनस्य पुत्र आसीत् । तस्य मनः सांसारिककर्मसु न रमते स्म । अतस्तस्य पित्रा यशोधरया सह विवाहः कृतः, किन्तु यशोधरया सहाऽपि तस्य मनो न प्रसन्नम् । येन केन प्रकारेण सह निवसता तेन यशोधरा गर्भवती बभूव परं सिद्धार्थस्तस्यां नाऽरमत । अत एकस्यां रात्रौ स स्वपत्नीं शयितामेव विहाय पुत्रं च सुप्तं दृष्ट्वा तपसे वनं जगाम तपस्तप्तः स बोधं प्राप्य बुद्धो भूत्वा जगते सत्यमहिंसां दयां च सदुपादिशत् । मृत्युरेव जीवनस्य सत्यमस्तीति बुद्धाज्ज्ञानमवाप्य यशोधराऽपि परित्यक्ताया जीवनं यापितवती । स्वशिशुं प्रति कर्तव्यविमुखं पति सिद्धार्थमक्षमत सा । संसाराय यो ज्ञानं ददाति, तस्य ज्ञानदातृसङ्घ वृद्धिं कर्तुं स्वात्मजं राहुलं बुद्धस्य भिक्षापोट्टलिकायां निक्षिप्य साऽभवदमरा यशोधरा ॥
2010_04
१०८
२९५ / १४, पट्टीरामपुरम् खेकड़ा - २५०१०१ (बागपत) उत्तरप्रदेश:
Page #122
--------------------------------------------------------------------------
________________
मर्म नर्म
(द्वौ मूझे मध्येमार्गं बोम्ब्(Bomb)द्वयं दृष्टवन्तौ ।) प्रथमः गृहाण रे द्वयमपि, आरक्षकेभ्यो दास्यावः । द्वितीयः किन्तु तत्र गच्छता द्वयोरेकतरो वा स्फुटेत् चेत्-किं कर्तव्यम् ? प्रथमः वदिष्यावो यदेक एव प्राप्त - इति !
**
**
*
(एको जनः प्रत्यहं भगवते घण्टाद्वयं प्रार्थयति-) प्रभो ! कृपालो ! मम लॉटरि-चिटिकायै जयं प्रापयतु कृपया ।
(एकादशवर्षानन्तरं प्रभुः प्रकटीभूय रोषेणोक्तवान्-) रे मूर्ख ! प्रथमं चिटिकां तु क्रीणाहि !!
एको दुःखी नरः पथि व्रजन्नासीत् । तावता पृष्ठतः केनचित् कथितमुच्चैः - "तत्रैव तिष्ठाऽन्यथा महतीष्टिका तव शिरसि पतिष्यति" । स तत्रैव स्थितः, तस्य परत एवैका महतीष्टिका पतिता । स रक्षितोऽभवत् ।
अथाऽन्यदा स मार्गमुल्लमयन्नासीत् । तावता तेन श्रुतं - "तिष्ठ तत्रैव । अन्यथा कारयानेनाऽपघातो भविता" । स स्थितो रक्षितश्चाऽपि।। एतेन विस्मितः स उच्चैः पृष्टवान् – “कोऽस्ति भवान् ?"
उत्तरमागतम् - "अहमस्मि देवदूतः ।" "एवं वा ? तर्हि मम विवाहकाले भवान् कुत्र निलीन आसीत् ?" कोपोद्विग्नेन तेन पृष्टम् ।
१०९
2010_04
Page #123
--------------------------------------------------------------------------
________________
*
दग्धः एष मे दूरभ्राता । अर्धदग्धः दूरभ्राता ! नाऽवबुद्धं मया भोः ! दग्धः अस्य मम च मध्ये त्रयोदश भ्रातृ-भगिन्यः सन्ति ।
ग्राहकः भोः ! कियतः कालात् प्रतीक्षेऽहं, किमद्याऽपि भोजनं नैव सज्जम् ? वितारकः महोदय ! भोजनं त दिनत्रयादेव सज्जमस्ति । अधुना तु तदुष्णी
क्रियते... एष आनयामि....!!
Rog
- (दूरवाण्यां) भोः ! ग्रन्थालयः कदोद्घाट्यते? + ग्रन्थपालः दशवादने महोदय ! किन्तु किमिति भवान् मध्यरात्रे प्रश्नमिमं
पृच्छति? - (निराशतया) किं भवान् नववादनात् पूर्वमुद्घाटयितुं न शक्नोति ? + ग्रन्थपालः नैव महोदय ! अहं दशवादनात् पूर्वमपि नैवोद्घाटयिष्ये ।
किन्तु भवतस्ततः पूर्वं तत्राऽऽगमनस्य काऽऽवश्यकता नाम ? - (विषण्णतया) को वोत्सुक आगमनार्थम् ? अहं तु ततो निर्गन्तुमिच्छामि !
आपणिकः (अन्यस्मै) - कुशलोऽस्ति भवान् ? आर्थिकसङ्कटसमयेऽस्मिन्
व्यापारस्य का गतिः ? अपरः अरे, माऽस्तु वार्ताऽपि तस्य । पुरा हि ये जना वस्त्वादिकं क्रीत्वा
मूल्यमपि न ददति स्म तादृशा अपि ग्राहका सम्प्रति नाऽऽगच्छन्ति ।
११०
2010_04
Page #124
--------------------------------------------------------------------------
________________
रावणः (साधुरूपेण) मातर ! भिक्षां देहि । स्त्रीः गृह्यताम् रावणः रेखामिमामुल्लङ्घयतु । स्त्रीः यथाऽऽदेशः । रावणः हा हा हा ! नाऽहं साधुः, अहं तु रावणः ! स्त्रीः नाऽहमपि सीता, अहं तु दासी !
मोहनः सोहन ! कुशलोऽसि रे? सोहनः अरे ! बहु सुख्यस्मि मित्र ! । मोहनः तत् कथम्? सोहनः किं त्वं जानासि यद् हारमोनियम-वाद्यस्य वादनं ममाऽतिप्रियम् ? मोहनः अरे ! हारमोनियमवादनं तु त्वया शिक्षितमेव न । यदा कदाऽपि त्वं
वादयसि तदाऽपरे सर्वेऽपि मस्तकवेदनया पीड्यन्ते । सोहनः परं तेनैव मम लाभो जातो रे !। मोहनः तच्च कथम् ? सोहनः एकदा प्रातिवेशिक आगत्य मामुक्तवान् - भ्रातर् सोहन ! इतः परं
यदि भवान् कदाऽपि हारमोनियम-वाद्यं नैव वादयिष्यति तर्हि
प्रतिपिञ्जमहं सहस्ररूप्यकाणि दास्यामि । मोहनः त्वया किं कृतम् ? सोहनः अहं तद् वाद्यं तमेव विक्रीतवान् । मोहनः कियन्ति रूप्यकाणि प्राप्तानि? सोहनः ३४००० रूप्यकाणि । मोहनः वाह ! किं करिष्यस्यथ तेन धनेन ? सोहनः हम्.... बृहत् किमपि 'पियानो'वाद्यं क्रेतव्यमिति विचारयामि ।
१११
2010_04
Page #125
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कथा
पाइयविनाणकहा
आचार्यविजयकस्तूरसूरिमहाराजः
(१) भवस्स असारयाए नागदत्तसेट्ठिणो कहा
अन्नाणावरिआ लोगा, पेक्खेज्जा न हियाहियं ।
ते हसिज्जंति साहूहिं, नागदत्तो व्व सेडिओ ॥ सिरिअवंतीए नयरीए नागदत्तो नाम महारिद्धिमंतो सेट्री परिवसइ । तस्स जसोमई नाम भज्जा अस्थि । सो इंदियविसय-सुहपसत्तो भोगविलासेहिं 9AR कालं नएइ । 'पावाणं लच्छी पावकम्ममि जुज्जइ' त्ति नाएण तेण कोडिदव्ववएण बारहवरिसेहिं सत्तमालओ महापासाओ निम्मविओ। सो पासाओ तारिसो जाओ, जस्स पासायस्स वरिसाणं सहस्सं जाव कक्करो वि न खरेज्जा । निप्पन्ने पासाए चित्तगरे बोल्लाविऊण विविहनरनारीतिरिच्छाईणं चित्तकरणत्थं भित्तीओ समप्पिआ। ते चित्तगरा वि जणनेत्ताणंदगराणेगचित्तालंकरिअभित्तीओ कुणंति ।
अन्नया पच्चूसकाले सो सेट्ठी चित्तकरणत्थं पेरेइ, तया तत्थ कोवि ) 8X6 विसिट्रोहिनाणजत्तो महव्वई साह आगओ । वत्तणपारंभे वि विसयवामढं तं र
- नागदत्तं दट्टण किंचि विहसिअ सो अग्गओ चलिओ । नागदत्तो वि चिंतेइ" "चित्तगराणं पेरणं कुणंतं मं निरिक्खिऊण हसित्ता मुणी किं गओ? महप्पाणो 88
कयावि निरत्थयं न हसेइरे । मइ एआरिसं किं दिटुं, जओ हसिऊण गओ? ।। पच्छा अस्स कारणं उवस्सए गंतूण मुणिं पुच्छिस्सामि" इअ विआरिऊण खणंतरे
सो चिंतारहिओ जाओ। 326 पुणरवि मज्झण्हसमए सो साहू भिक्खत्थं तस्स घरंमि समागओ, तया / ॐ भुंजमाणस्स नागदत्तसेट्ठिणो उस्संगे तस्स पुत्तो कीलेइ, तस्स य भज्जा जसोमई 86
वओ मुणिं सक्कारिऊण निरवज्जं भिक्खं दाहीअ । तया पिउस्स अंके रममाणेण पुत्तेण मुत्तिऊण सेट्ठिस्स भोयणं वत्थं च भरिअं। मुत्तं अवसारिअ भुंजतो नागदत्तो
बोल्लेइ- "हे पिए ! अणेण पुत्तेण मम भोयणं वत्थं च खरंटिअं", एवं बोल्लमाणे : 978 समाणे स साहू नागदत्तमुहं पासित्ता किंचि वि हसित्ता निग्गओ । हसंतं मुणिं 98
११२
2010_04
Page #126
--------------------------------------------------------------------------
________________
1% दट्टण नागदत्तो पिअं कहेइ- "हे पिए ! इमो मुणी मं पासित्ता हसिऊण गओ, 10
तत्थ किं कारणमत्थि? किं वा हसणसीलो सो अत्थि? पहाए काले वि चित्तगराणं विविहचित्तकरणत्थं पेरंतं मं दट्टण हसिओ। अहुणा वि हसिऊण गओ" । जसोमई, वएइ- "हे नाह ! विणा कारणं मुणिणो कया वि न हसंति, अवस्सं किं पि एत्थ ।
पओअणं होज्जा" । नागदत्तो आह-"तओ अवस्सं हं मुणिस्स समीवे गंतूण K) हसणकारणं पुच्छिस्सं' एवं वोत्तूण भोयणं काऊण हट्टे गओ। 98 अवरण्हकाले हट्टे थिओ नागदत्तो कयविक्कयं कुणंतो अहेसि, तया रायपहे 98
एगं बक्करं गिण्हित्ता गच्छमाणस्स चंडालस्स हत्थाओ छुट्टिअ सो बक्करो हट्टत्थिअं नागदत्तं पासित्ता तस्स हट्टमारूढो, पच्छा तस्स गहणत्थं चंडालो वि हट्टं आगंतूण नागदत्तं कहेइ- "इमो बक्करो अम्हच्चओ, तेण मज्झं अप्पेह, जइ तस्सुवरि किवा होज्जा, तया तस्स जोग्गं मुल्लं दाऊण गिण्हेह" | चंडालं दट्टणं सो बक्करो भयभंतो बें बें करंतो हट्टस्स अब्भंतरे पविट्ठो । सेट्ठिणो कम्मगरेहिं पि अंतो पविसिअ दंडेण ताडिऊण बाहिरं निक्कासिज्जमाणो वि सो अंतो अंतो पविसेइ। तया नागदत्तो सयं उट्ठाय तस्स अयस्स कण्णं गिण्हित्ता बला हट्टाओ उत्तारेइ ।
निद्दओ सो चिंतेइ - "एवं कियंते जीवे रक्खेमि, एवं जीवाणं रक्खणे मम धणं BV झीणं होज्जा, चंडालो वि सया एवं कज्जा, तेण निक्कासणं चिअ वरं"। एवं 8Ve
चिंतित्ता में बें कुणंतो सो हट्टाउ नीसारिओ। निस्सारिज्जमाणं, अओ चिअ अंसूई 98 मुंचमाणं, सेट्ठिस्स सम्मुहं पासिऊण "हे दयालु ! सेट्ठिवर ! अस्स चंडालस्स X8
७ हत्थाओ मं मोआवसु" इअ मणसि पत्थमाणं बक्करं गहिऊण चंडालो गओ। M जया सेट्ठिणा हट्टाओ बक्करो नीसारिज्जमाणो आसी, तया सो साहुवरो
थंडिलत्थं गच्छंतो पुणरवि सेटुिं पइ किंचि हसिऊण गओ । तया नागदत्तो वि तइयवारं हसिऊण गच्छंतं मुणिं पासिऊण चिंतेइ-'एसो मुणिवरो अज्ज वारत्तयं
मिलिओ वारत्तयंपि हसिऊण गओ, एत्थ अवस्सं किंपि कारणं होज्जा? तओ 6) उवस्सए गन्तूण हसणकारणं पुच्छिस्सं' एवं विआरित्ता हट्टाओ गिहे गंतूण भोयणं ) किच्चा रत्तीए उवस्सए गओ।
साहुं पणमिअ पुटुं-"मुणिराय ! अज्ज पभायकाले चित्तगराणं चित्तकरणाय पेरंतं मं दट्टण किम, तमए हसिअं? । सव्वे संसारिणो नियगेहकिच्चाई किन MOON कारिंति ? तो तुम्हेहिं केण कारणेण हसिअंति पुच्छणाय आगओ हं" । मुणी 50 May कहेइ-'हे नागदत्त ! तुं भोगविलासेसु पसत्तो निआउस्स अंतं अपासंतो, चित्तगराणं May
११३
2010_04
Page #127
--------------------------------------------------------------------------
________________
विविहचित्तकरणत्थं कहेसि, किंतु अस्सि पासाए मए कियंतकालं जाव वसियव्वं ति न पासेसि, अओ विसयवामूढाणं केरिसी ठिइ ? त्ति मए हसिअं" ।
2010_04
नागदत्तो वि मुणिवयणेण आउस अप्पं पासंतो साहुं पुच्छइ-“हे भयवंत ! मम जीवणसे कियंतमत्थि ?" । मुणी कहेइ- "सत्तदिवससेसमत्थि । अज्जप्पभिइ सत्तमे दिवसे संझाकाले तुं मच्चुं पाविहिसि" । नागदत्तो पुच्छइ - " किं भंते ! हं समाहिणा वा असमाहिणा वा मरणं पाविस्सं ?" । मुणिवरो आह- "नागदत्त इओ पंचमे दिवसे तव मत्थए सूलपीडा होस्सइ, तं असहेज्जसूलपीडं तीहिं दिणेहि अणुभविअ मरणं पाविहिसि" । नागदत्तो तं सुणिअ, महप्पाणमग्गओ अप्पाणं हसणपत्तं गणितो, अप्पकेरासब्भपउत्ति धिक्कुणंतो, नेत्तेर्हितो अंसूइं मुंचंतो साहुं कहेइ- “हे भदंत ! किल सच्चो हं हसणीओ जाओ, दुल्लहं माणवभवं पावित्ता मए पोग्गलिअसुहपसत्तेण किंपि परलोगाराहणं न कयं, निष्फलो गमिओ मणूसो भवो, अहुणा किं करोमि ?" इअ बोल्लिऊण रुयंतो मुणिपाएसु पडिओ ।
समणो वि नागदत्तं कहेइ " हे सावग ! जह रण्णे एक्को महारुक्खो अत्थि, तत्थ संझाए दूरयराओ आगच्छिऊण पक्खिणो साहासु वसंति, पुणो पहाए संजाए उड्डेऊण अन्नत्थ संचलंति, पुणो मिलेज्ज न वा मिलेज्जा, एवं भवे एयारिसो कुडुंबमेलो जाणियव्वो । अप्पणो एव अत्थसाहणपरा 'सत्थिआ सव्वे संसारिणो जीवा नायव्वा, तुमं पि अप्पस्स अत्थं साहेहि" I
नागदत्तो पढमहासस्स कारणं नच्चा अप्पाणं अहण्णं मण्णमाणो बीयवारहसणस्स कारणं पुच्छइ । तया मुणी कहेइ - "हे - नागदत्त ! भुज्जापुत्ताईसु मूढप्पाणो संसारसरूवं न जाणेइरे, जओ तुं जं पुत्तं मन्नेसि, जेण पुत्तेण आनंदिओ होज्जा, जस्स मुत्तेण भरियंपि भोयणं पियं गणेसि, सो तुज्झ पुत्तो तव भज्जाए जारपुरिसो आसि । नायसरूवेण तए एसो हणिओ समाणो, मरिऊण तव भज्जाए पुत्तत्तणेण समुन्नो । तुं सत्तुं पि पिअं पुत्तं मन्नेसि जया सो तुह पुत्तो जोव्वणवंतो होस्सइ, तया तव घरुवक्खरजुअभव्वपासायं विक्केहिइ, तव भज्जाए विसं दाऊण मारिस्सइ, 8 तुम्ह पुत्तो कुले कुलंगालो होही । संसारीणं एरिसी ठिई इअ चिंतिऊण मए बिइयवारं पि हसिअं" ।
एअं सुणित्ता नागदत्तो कहेइ- "हे भगवंत ! पुंछलीए भज्जाए, पुत्तत्तणेण य उप्पन्नस्स सत्तुणो सरूवं जाणिऊण किल भोगेहिं हं वंचिओ म्हि । अ १. स्वार्थिकाः ।।
११४
For Private Personal Use Only
Page #128
--------------------------------------------------------------------------
________________
MO मज्झ तं कहिज्जाह, जं मए हट्टाओ निस्सारिज्जमाणं बक्करं दट्ठण तुमए हसिअं"।
मुणिवरो कहेइ-"नागदत्त ! एसो बक्करो पुव्वभवे तव पिया आसि, जेण BY: महापरिग्गहतिण्हाए सो मूढप्पा अणीईए बहुदव्वं संचिऊण, मरणकाले तुम्ह सव्वदव्वं 86
अप्पिऊण पावकम्मणा एसो बक्करो संजाओ। जेण अस्स चंडालस्स पुव्वभवे बहुदव्वगहणेण अप्पो कप्पासो अप्पिओ, तेण एसो रिणमोक्खत्थं अस्स चंडालस्स हत्थे आगओ । अज्ज चंडालो एअं बक्करं गहिऊण रायपहंमि गच्छंतो अहेसि, तया एसो बक्करो अप्पणो हट्टं पुत्तं च निरिक्खिऊण जाइसरणं पाविऊण तुम
सरणमागओ। चंडालेण कयणत्थं कहिएण लोहंधेण तुमए सो न गहिओ तेण मए 978 हे नागदत्त ! तइयवारं पि हसिअं"।
एवं सोच्चा- "मए पिआ वि न रक्खिओ"त्ति अप्पाणं धी धी करितेण तेण सिग्धं उत्थाय चंडालघेरं गच्छिऊण कहियं-“हे चंडाल ! जहिच्छिअंदव्वं गहिऊण बक्करं मज्झ देसु" । तेणुत्तं-"सेट्ठि ! सो अहुणा एव हओ, कहं,
अप्पेमि?" एवं सुणित्ता अप्पं निंदतो मुणिवरस्स पासंमि गच्छित्ता पुच्छीअ - 1 By: "मम पिया मरणं पाविअ कं गई गओ?" । मुणि कहेइ- "सरणमागयं पियरं 86
अरक्खमाणं तुम धिक्कारितो अट्टरोद्दज्झाणेण सो मरणं पाविय निरयं गओ" । तया BY: नागदत्तो पिउस्स दुग्गई सोच्चा निरयदुहाओ बीहंतो मुणिं कहेइ - "हे भगवंत ! 86
मं तारय मं तारय, सत्तदिणेणं हं किं करिस्सं? कहं अप्पाणं तारइस्सं ? हे दयाभंडार ! मम सप्पहं दंसेहि दंसेहि त्ति"।
मुणिवरो आह-“हे नागदत्त ! एगदिवससंजमपालणेण वि भव्वजीवो अवस्सं वेमाणिओ होज्जा, किं पुणो सत्तदिणेण?" एवं सोच्चा संसारस्स असारयं भावितो, सत्तक्खेत्तेसु नियदव्यं अप्पित्ता, जिणमंदिरे अट्ठाहिआमहूसवं कारित्ता एयस्स मुणिवरस्स सगासे संजमं गिण्हीअ । अणसणेण सुहेण चत्तारि दिणा गया। पंचमे दिणे तस्स सिरंसि महासूलवेयणा असहेज्जा जाया । गुरुवरस्स वयणसुहावुट्ठीए समभावेण वेयणं सहतो समाहिणा कालं किच्चा वेमाणियदेवलोगे सोहम्मकप्पे देवत्तणेण समुप्पन्नो। एवं आउसस्स सत्तदिणे सेसे वि संजमं पालिऊण आराहगो नागदत्तो जाओ। उवएसो
नागदत्तकहं सोच्चा, भवरूवपयंसिणि । 'कामभोगाइअं चिच्चा जएह संजमे वरे' ॥
११५
2010_04
Page #129
--------------------------------------------------------------------------
________________
२. दाणविलम्बोवरिं जुहुट्ठिलभीमसेणाणं कहा 'दाणधम्मस्स वेलाए, विलंबं न समायरे ।'
कल्ले दाणं पयच्छिस्सं, जुहुट्ठिलवयं जहा ॥९॥ जुट्टिलमहानरिंदो मज्झण्हं जाव पइदिणं दाणं देइ । एगया को वि निद्धणो माहणो बहुदूराओ आगच्च जुहुट्ठिलदाणसालाए समत्तपाए मज्झण्हसमए पविट्ठो।। पंचेव पंडवा दाणसालाए विज्जति । तया धम्मपुत्तेण माहणस्स उत्तं- "कल्ले दाहिमि" । एवं सोच्चा निरासो बंभणो गओ । तया भीमसेणेण चिंतिअं- 'न जुत्तो दाणे विलंबो तम्हा महारायं बोहिमि', इअ चिंतिऊण सिग्धं तओ उद्याय आउहसालाए गओ । तत्थ एगा विजयढक्का अत्थि । जया को वि देसो जिणिज्जइ, तया सा वाइज्जइ । वाइज्जमाणाए ढक्काए पउरेहिं जाणिज्जइ, अज्ज कोवि देसो पंडवेहिं जिओ । भीमसेणो वि सयं तं ढक्कं महादंडेण वाइउं लग्गो । तया तीए ढक्काए महागज्जणारवो पउरेहिं सुओ । जुहुट्ठिलेणाऽवि सुणिओ । सो चिंतेइ'अज्ज ढक्कं को किमत्थं वाएइ?' । पासत्थिअं नरं पुच्छइ । सो नरो निरिक्खिण आगओ समाणो नरिंदं कहेइ- “हे महाराय ! अज्ज भीमसेणभाया विजयढक्कं वाएइ" ।
धम्मपुत्तो भीमसेणं बोल्लाविऊण पुच्छइ- “हे भायर ! अज्ज को अउव्वो देसो केण विजिओ, जेण सयं तुं विजयढक्कं वाएसि?" । भीमसेणेण उत्तं - "हे महाराय ! तित्थंकरहिं केवलीहिं जोगीहिं महारिसीहिं च जो कया वि न जिओ, सो अज्ज जिओ, तेण इमा विजयढक्का मए वाइज्जइ' । धम्मपुत्तेण पुढे "किं तए जिअं?" । भीमसेणो कहेइ- "निब्बलस्स मम अजेअं तं जेउं सत्ती नत्थि" पुणरवि पुटुं - "तो केण जिअं?" । भीमसेणो कहेइ - "हे महाराय ! तुमए सो विजिओ" । जुहुट्ठिलो पुच्छइ - "कया मए जिओ" ? । भीमसेणो कहेइ - "अज्ज अहुणा य । जया सो माहणो एत्थ आगओ, तया सो भवंतेण उत्तो – “कल्ले दाइस्सं" । तओ नज्जइ एगदिणं जाव भवंतेण कालस्स विजओ कओ। पुव्वं केण वि महापुरिसेण कालो न जिओ, तए पुणो सो जिओ । तेण अच्छेरजुत्तेण मया ढक्का वाइआ" ।
नीइसत्थे वि कहिअं- "जंकल्ले कायव्वं तं अज्ज करणिज्जं, जं अज्ज सायंतणे कायव्वं, तं मज्झण्हे करणीयं, जं मज्झण्हे करणिज्जं, तं अहुणच्चिय -
११६
2010_04
Page #130
--------------------------------------------------------------------------
________________
कायव्वं, जओ मच्चू नहि पइक्खए, अणेण नियकज्जं कयं अहवा न कयं, तओ सुहाणं कज्जाणं करणे विलंबो न कायव्वो" । तं सुणिऊण धम्मपुत्तो महारायो नियं पमायं जाणित्ता, तं बंभणं सिग्घं बोल्लाविऊण बहु धणं दाहीअ । एवं दाणे विलंबो न कायव्वो।
उवएसो
वयणं भीमसेणस्स, दाणे जुत्तिसमन्नियं । सुणित्ता भविया ! तंमि, पमायं परिवज्जइ ॥
कित्तिम-नेहोवरिं वुड्ढाए कहा पिया लोए निय-प्पाणा, न पुत्तधणबंधवा ।
जमस्स पुत्तओ रुग्गो, वुड्ढाए जह दंसिओ ॥ कम्मि नयरे एगा थविरी वसइ । तीए पुत्तो एगो जोव्वणत्थो विज्जइ । सो एगया रोगपीलिओ सज्जाओ वि उत्थिउं असत्तो जाओ। सा थविरा वाहिपीलिअं पुत्तं दट्ठण एवं चिंतेइ-'पुत्तविहीणाए मम निव्वाहो कहं होस्सइ, अओ मरणं चिय वरं' । तओ सइ एवं पत्थेइ- 'हे जमराया ! मं नएज्जा, मम पुत्तं न नेस्ससि । तीए भट्टाणं कहासु एवं सुअं 'जया मरणकालो होज्जा, तया महिसरूवेण जमराया आगच्छइ, मच्चुमुहे पडिअं जणं नेऊण गच्छइ' ।
एगया मज्झरत्तीए पुत्तो सेज्जाथिओ अत्थि । वुड्डा पुत्तमुहं दट्टण पत्थेइ 'हे जमराय ! मं नएसि, मम पुत्तं न नेहिसि' । एवं पुणो पुणो पत्थणं कुणंती निदं पत्ता । तया समीवघरत्थो महिसो छुट्टिओ समाणो थेरीए अपिहिअदारे घरंमि पविट्ठो । सो महिसो गाढसुत्ताए वुड्डाए पाउअवत्थस्स अंचलं जाइसहावेण आकरिसइ । वुड्डा जागरिआ समाणा महिसं पासेइ, पासित्ता विआरिअं- 'पुत्तस्स गहणाय आगओ जमराओ भुल्लेण मं करिसेइ' । तया तीए उत्तं- 'हे जमराय ! हं तु नीरोगा म्हि, मम पुत्तो रोगपीडिओ एत्थ सज्जाए थिओ अत्थि, एअंगिण्हाहि, तुं भुल्लेण एत्थ किं आगओ सि ?'।
तीए तं वयणं सज्जाथिओ पुत्तो वि सुणेइ, विआरेइ - 'मम माउस्स कित्तिमो केरिसो ममुवरि नेहो अस्थि ? सव्वे संसारिणो नियत्थसाहणपरा, - परत्थविमुहा हुन्ति । अओ अहं पि नीरोगो होस्सामि, तया सिग्घं अप्पणो अत्थं
११७
2010_04
Page #131
--------------------------------------------------------------------------
________________
साहिस्सामि' । एवं सुहचिंताए कमेण नीरोगो जाओ। सव्वं चइऊण परलोगमग्गाराहगो जाओ। उवएसो
वुड्डाए कारिमं नेहं, नियपुत्ते वि पेक्खिअ। पयट्टेज्जा निए हिए, 'सत्तभंसो हि मुक्खया' ॥
(४) जोग्गाण संजोगे चोरस्स कहा विरुद्धदंपईणं हि, संबंधो नेव सोहए ।
अओ जोगोऽणुरूवाणं, जहा चोरेण कारिओ ॥
धाराए नयरीए भोयनरिंदरज्जे एगंमि घरे पुरिसो कुरूवो निग्गुणो अ, तस्स य भज्जा सुरूवा सुगुणा । सा इत्थी धम्महीणपइस्स जोगेण निच्चं दुक्खिआ अत्थि । अन्नंमि गिहतरे भज्जा कुरूवा निग्गुणा, तीए य पई सुरूवो सगुणो । निग्गुणाए भज्जाए सो दुहिओ समाणो कहंपि कालं नेइ ।
एगया चोरेण ताणं गिहाणं खत्तपयाणे अणणुगुणजुत्ते दुवे दंपइणो दट्ठण सुत्तइत्थिदुगाणं परावट्टणं कयं । जाणं सुजोगो जाओ, ते चिराओ उव्विग्गा तया पसण्णा संजाया । अन्नेण निग्गुणेण भोयनरिंदसहाए गंतूण - 'हे नरिंद ! मम भज्जा सुरूवा केण वि हरिअ त्ति मम नाओ दायव्वो' इअ जाणाविअं । रण्णा नयरंमि पडहुग्घोसो कओ - 'अस्स भज्जा केण वि हरिआ होज्जा, तेण अवस्सं एत्थ आगंतव्वं, अन्नह पच्छा तस्स महादंडो होहिइ' । सो चोरो पडहुग्घोसं सोच्चा नरिंदसहाए आगच्च कहेइ- 'मइ अस्स इत्थि हरिऊण सुरूवस्स जोग्गस्स अवरस्स दिन्ना' । जओ उत्तं
मए निसिनरिंदेणं, परदव्वावहारिणा । लत्तो विहिकओ मग्गो, जोग्गो जोग्गेण जोडअं॥
इमं सोच्चा निवेण हसिऊण तं पमाणीकयं ति । उवएसो
विहिणा जं कयं कज्जं, चोरेण कयमण्णहा । तं सोऊण जहाजोग्गं, जोयए मइमं सया ॥
११८
2010_04
Page #132
--------------------------------------------------------------------------
________________ नायकः "युद्धे नाऽस्ति महत्त्वं शत्रुसङ्ख्यायाः, नाऽस्ति च मूल्यं शस्त्रागाराणाम् / मित्राणि ! महत्त्वमस्ति पराक्रमस्य / मूल्यमस्ति देशप्रेम्णः / मम विश्वासो यद् मम शूराः सहचरा अवश्यं समर्पयिष्यन्ति विजयपुष्पं मातृभूमिचरणयोः।" / धीरोदात्तो नायकः स्ववागोजसा सैनिकेषु शौर्यमुद्दीपितवान् / न केवलं तावद्, रणे स्वयं शत्रोः सम्मुखीभूय तेषूत्साहं वर्धितवान् / अनेन तस्य सैन्यं दुःशकमपि विजयं प्राप्तवदेव, परं नायकस्य शरीरं क्षतविक्षतं रक्तातं जातम्। सुभटाः कस्यचित् सैनिकस्य कम्बलमानीय नायकं तदुपरि शायितवन्तः / वैद्यैर्यद्यपि सुष्ठु चिकित्सा विहिता, तथापि परिणाम: को भवेत्तत् सुभटाः किल जानन्ति स्म / अतस्ते मरणासन्नं नायकं तस्याऽन्तिमेच्छां पृष्टवन्तः / नायको वस्तुतः किमपि वक्तुमिच्छति स्म। शक्तावसत्यामपि स महता परिश्रमेण मन्दमवदत् "मित्राणि! इदं कम्बलं यस्य सैनिकस्य भवेत्तस्मै रात्रेः पूर्वमवश्यं समर्प्यताम् / यतस्तेन शैत्यं सोढव्यं न भवेदिति।" 2010_04 www.jainelibe