SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ B सुभाषितानि कुंग-फु-त्झेवर्यस्य मुनित्रैलोक्यमण्डनविजयः BDO अहं नित्यमात्मनिरीक्षणं करोमिB) १. अन्यैः सह व्यवहारे मया द्रोहस्तु न कृतः ? २. मित्रैः सह व्यवहारे प्रामाणिकता तु न विस्मृता ? ३. गुरोः शिक्षायाः पालने प्रमादस्तु न विहितः ? 0 किलक्षण उत्तमपुरुष: ? स उपदेशात् पूर्वं स्वयमाचरति । 0 य: परमतसहिष्णुः स उत्तमः । @ विचारविहीना विद्या व्यर्था, विद्याविहीनो विचारो विध्वंसः । • विद्यावान् यदि गम्भीरो न भवति, तर्हि लोके आदृतो न भवति, तस्य ज्ञानं च मूल्यहीनं भवति । @ नियमत्रयम् १. प्रामाणिकता प्रथमः सिद्धान्तोऽस्तु । २. असमानशीलो वयस्यो माऽस्तु । ३. दोषाणां विसर्जने विलम्बो माऽस्तु । @ यो देवो नाऽस्माकम्, तस्य पूजनं नाम चाटुकारिता । सत्यं ज्ञात्वाऽपि तस्याऽनाचरणं नाम भीरुता । • यदा किञ्चिद् वयं जानीमस्तदा 'जानीम' इति मननम्, यदा च न जानीमस्तदा 'न जानीम' इति स्वीकरणं नाम ज्ञानम् । ॐ यः पुरुषः सञ्चिते ज्ञाने नित्यं नवीनं पूरयति, स एव अन्यान् प्रबोधयितुं शक्नोति । > * चीनदेशीयो विचारक: कन्फ्यूशियस् Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy