________________
Donc cowocowowoc
पूज्यपादश्रीहरिभद्रसूरिपुङ्गवैर्गदितम्अंबस्स य निंबस्स य दोण्हं समागयाई मूलाई । संसग्गीह विणट्ठो अंबो निबत्तणं पत्तो ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०३) मधुमधुरं जलमपि यदाऽब्धौ प्रविशेत् तदा लवणस्य समागमेन तदपि लवणत्वं प्राप्नुयात् । एवं सुशीलोऽपि कुशीलानां दुर्जनानां च समागमेन दुःशीलो भवति । भो ! बालकेभ्यः शिक्षणं सज्ज्ञानस्यैव दीयते न त्वज्ञानस्य, तथाऽप्याश्चर्य त्वेतत् शिक्षणवर्गेषु सत्स्वपि बालकानां जीवने सदाचारस्य सुसंस्कारस्य चाऽऽगमनं भवति न वा, किन्तु शिक्षणं विनाऽपि तेषां जीवने कुशीलता प्रविशत्येव । यदि कस्यचिद् दुष्कृतं दृष्ट्वाऽपि मनसि दुश्चिन्तनमुद्भवेत् तदा दुःशीलजनैः सहैव मैत्री व्यवहारं च यः कुर्यात् तस्य जीवने कुसंस्कारं दुराचारं च विना किं प्रविशेत् ? कदाचित् स दुःशीलः कुसंस्कारी वा न स्यात् तॉपि लोके समाजे च हीनोऽनादरणीयश्च तु भवत्येव । __अनुश्रुतिर्वर्तते-काष्ठेषु चन्दनकाष्ठमुत्तमं मन्यते, तदतीव महार्ण्यमप्यस्ति । । ० तदपि यदि चतुष्पथमध्ये इन्धनकाष्ठैः सह पतितं स्यात् तर्हि तस्य मूल्यमिन्धनकाष्ठ-08 सदृशं भवेत् । तथैव दुःशीलेषु मध्ये वसन्तः सुशीलाः सद्गुणिनश्चाऽपि दुःशीलसमाना
एव मन्यन्ते । अतोऽपि तेषां समागमो न करणीयः । मरणं स्वीकरणीयं किन्तु । o कुशीलैः सह वासो न करणीयः । 28 पूज्यपादश्रीहरिभद्रसूरीश्वरैकृतम्
वरं वाही वरं मच्चू वरं दारिद्दसंगमो । वरं अरण्णे वासो य मा कुसीलाण संगमो ॥
(सम्बोधप्रकरणम्-गुर्वधिकारे-१०१) ० बन्धो ! बाल्यकाले पितरौ सततं कथयन्तौ आस्ताम्-तुच्छजनैरसभ्यवचनवद्भिः
कुत्सिताचारैश्च बालकैः सह नाऽटनीयं क्रीडनीयं व्यवहरणीयं च । अन्यथा वयमपि तादृशा भवेम-इति । तत्पश्चाद् दीक्षागुरूणां मुखादपि बहुश एतादृशं वचनं १. आम्रस्य च निम्बस्य च द्वयोः समागतानि मूलानि ।
संसर्गाद् विनष्ट आम्रो निम्बत्वं प्राप्तः ॥ २. वरं व्याधिर्वरं मृत्युः वरं दारिद्र्यसङ्गमः ।
वरमरण्ये वासश्च मा कुशीलानां सङ्गमः ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org