SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ DN पत्रम् नमो नमः श्रीगुरुनेमिसूरये ॥ मुनिधर्मकीर्तिविजयः MCDos आत्मीयबन्धो ! चेतन ! धर्मलाभोऽस्तु । वयं सर्वे कुशलाः स्मः । भवतां सर्वेषां कुशलं कामये । साम्प्रतं सप्तत्यधिकैः श्रमण-श्रमणीभिस्तथा द्विशताधिकैः पदयात्रिभिः सह कर्णावतीनगरतः पादलिप्त(पालिताणा)पुरं वयं सर्वेऽप्यागतवन्तः । तत्र विभिन्नस्वभावानां जनानां समागमो जातः । तदाऽन्येषां सम्पर्केणाऽस्माकं स्वभावे जीवने च परिवर्तनं भवतीति मम प्रतिभाति, तद्विषये किञ्चिद् लिलेखिषुरहम् ।। Q. अस्माकं समीपे सम्पर्के च कीदृशा जना वसन्ति तदुपरि जीवनस्य विकासो ऽवलम्बते । अथवा यो जीव आत्मोत्थानमभिलषति स स्वकीयपरिसरे तादृशानेव जीवान् प्रवेशयति - ये जीवा न केवलं बुद्धिमन्तोऽपि तु विवेकिनः स्युः, न केवलं । रूपवन्तोऽपि तु सदाचारिणः स्युः, न च धनिका अपि तु सद्गुणिनः स्युरिति ।' एवं भवता कैः कैः सह मैत्री क्रियते, कीदृररीत्या व्यवहारः क्रियते, मित्रवर्तुले वार्तालापे च कीदृशी भाषोच्यते इत्येतानि जीवनविकासस्याऽङ्गानि सन्ति । तत एव 'यादृशः सङ्गस्तादृशो रङ्ग' इति जनोक्तिरपि प्रवर्तते । १४४४ ग्रन्थप्रणेतृभिः पूज्यपादश्रीहरिभद्रसूरीश्वरैः कथितम् 'जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं संवसंता तिला वि तग्गंधिया हुंति ॥ (सम्बोधप्रकरणम्-गुर्वधिकारे-१०४) 20 त्वया सुशीलानां सज्जनानां चैव समागमः करणीयः । दुःशीलेभ्यस्तु दूरत एव नमस्कारः करणीयः । यतस्तेषां प्रतिच्छायाऽस्माकं स्वभावे जीवने चाऽऽगच्छत्येव । गर्दभैः सह वसन्नश्वः पादप्रहारं शिक्षत्येव । SOO. 6°१. यो यादृशेन मैत्री करोति अचिरेण तादृशो भवति । कुसुमैः संवसन्तस्तिला अपि तद्गन्धिका भवन्ति ।। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.521024
Book TitleNandanvan Kalpataru 2010 04 SrNo 24
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages132
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy